SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ २१६ सूर्यग्रज्ञप्तिउपाङ्गसूत्रम् १२/-/९९ रात्रिन्दिवानि द्वात्रिंशच द्वाषष्टिभागा रात्रिन्दिवस्य एतावत्परिमाणश्चन्द्रमासो रात्रिन्दिवाणाख्यात इति वदेत्, तथाहि-युगे द्वाषटिश्चन्द्रमासाः, एतच्च प्रागपि भावितं, ततो युगसत्कानामष्टादशानामहोरात्रशतानां त्रिंशदधिकानां द्वाषष्ट्या भागो हियते, लब्धा एकोनत्रिंशदहोरात्रा एकस्य चाहोरात्रस्य द्वात्रिंशत्द्वाषष्टिभागाः । ___ 'ता से णमित्यादि, प्रश्नसूत्रं सुमं, भगवानाह-'ता अडे'त्यादि, अष्टौ मुहूर्तशतानि पञ्चाशीत्यधिकानिएकस्य च मुहूर्तस्य त्रिंशत्द्वापष्टिभागाः, एतावत्परिमाणश्चन्द्रमासो मुहूर्ताग्रेणाख्यात इति वदेत्, तथाहि-चन्द्रमासपरिमाणमेकोनत्रिंशदहोरात्रा एकस्य चाहोरात्रस्य द्वात्रिंशत् द्वाषष्टिभागाः, तत्र सवर्णनार्थमेकोनत्रिंशदप्यहोरात्रा द्वापट्या गुण्यन्ते, गुणयित्वा च उपरितना द्वात्रिंशत् द्वापष्टिभागाः प्रक्षिप्यन्ते, जातान्यष्टादशशतानि त्रिंशदधिकानि द्वाषष्टिभागानां, तत एतानि त्रिंशता गुण्यन्ते, जातानि चतुष्पञ्चाशत्सहस्राणि नव शतानि मुहूर्तगतद्वापष्टिभागानां , तत एतेषां द्वाषष्ट्या भागो ह्रियते, लब्धानि अष्टौ शतानि पञ्चाशीत्यधिकानि मुहूर्ताना-मेकस्य च मुहूर्तस्य त्रिंशद् द्वाषष्टिभागाः । 'ता एसणं अद्धा'इत्यादि, प्राग्वद्भावनीयं । 'ता एएसिण'मित्यादि, तृतीयऋतुसंवत्सरविषयं प्रश्नसूत्रं सुगम, भगवान्प्रतिवचनमाह'तातीसेण मित्यादिता इति पूर्ववत् त्रिंशता रात्रिन्दिवाग्रेण ऋतुमास आख्यात इतिवदेत्,तथाहिऋतुमासाः युगे एकषष्टिः, ततो युगसत्कानामष्टादशशतसङ्ख्यानां त्रिंशदधिकानामहोरात्राणामेकषट्या भागो हियते, लब्धास्त्रशदहोरात्राः, 'ता से ण'मित्यादि, मुहूर्तविषय प्रश्नसूत्रं सुगमं, भगवानाह--'ता नव मुहुत्तसया'इत्यादि, नव मुहूर्त्तशतानि मुहूर्ताओणाख्यात इति वदेत्, तथाहि-त्रिंशद्रात्रिन्दिवानि ऋतुमासपरिमाणमेकरिमंश्च रात्रिन्दिवे त्रिंशन्मुहूर्तास्ततस्त्रशत स्त्रिंशता गुणने नव शतानि भवन्तीति, ‘ता एएसि णमित्यादि, प्राग्वद्भावनीयं ।। 'ता एएसि णमित्यादि चतुर्थसूर्यसंवत्सरविपयं प्रश्नसूत्रं, तच सुगम, भगवानाह-'ता तीस मित्यादि, ता इति पूर्ववत्, त्रिंशत् रात्रिन्दिवानि एकस्य रात्रिन्दिवस्य एकमपार्द्धभागं, एकमर्द्धमित्यर्थः, एतावतप्रमाणः सूर्यमासो रात्रिन्दिवाग्रेण आख्यात इति वदेत्, तथाहि-सूर्यमासा युगे पष्टिस्ततो युगसत्कानामहोरात्राणां त्रिंशदधिकाष्टादशशतसङ्ख्यानां षष्ट्या भागो ह्रियते, लब्धाः सार्धारित्रंशदहोरात्राः, ‘ता से णमित्यादि, मुहूर्तविपयं प्रश्नसूत्रं सुगमम्, भगवानाह'नवपन्नरे' इत्यादि नवम मुहूर्त्तशतानि पञ्चदशाधिकानि मुहूर्तपरिमाणेनाख्यात इति वदेत्, तथाहि-सूर्यमासपरिमाणं त्रिंशत्राविन्दिवानि एकस्यच रात्रिन्दिवस्यार्द्ध, तच्च त्रिंशता गुण्वन्तं, जातानि नव शतानि, रात्रिन्दिवाढे च पञ्चदश मुहूर्ता इति, ता एएसि णं मि०, प्राग्वद् भा० ॥ 'ता एएसिण'मित्यादि, पञ्चमाभिवतिसंवत्सरविषयं प्रश्नसूत्रं सुगम, भगवानाह 'ता एकतीस मित्यादि, ता इति पूर्ववत्, एकत्रिंशत् रात्रिन्दिवानि एकोनविंशच मुहूर्ता एकस्य च मुहूर्तस्य सप्तदश द्वापष्टिभागा रात्रिन्दिवाओणाख्यातइति वदेत्, तथाहि-त्रयोदशभिश्चन्द्रमासैरभिवर्द्धितसंवत्सरः, चन्द्रमासस्य च परिमाणमेकोनत्रिंशत् रात्रिन्दिवानि एकस्य च रात्रिन्दिवस्य द्वात्रिंशत् द्वाषष्टिभागाः, एतत्रयोदशभिर्गुण्यते, ततो यथासम्भवं द्वापष्टिभागै रात्रिन्दिवेषु जातेषुजातमिदंत्रीण्यहोरात्रशतानित्र्यशीत्यधिकानि चतुश्चत्वारिंशच्च द्वापष्टिभागा अहोरात्रस्य, एतदभिवर्द्धितसंवत्सरपरिमाणं, तत एतस्य द्वादशभिर्भागो एकादश, ते च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy