________________
प्राभृतं १२, प्राभृतप्राभृतं -
२१७ मुहूर्तकरणार्थं त्रिंशाता गुण्यन्ते, जातानि त्रिंशदधिकानि त्रीणि शतानि, येऽपि च चतुश्चत्वारिंशत् द्वाषष्टिभागा रात्रिन्दिवस्य ते मुहूर्त्तकरणार्थं त्रिंशता गुण्यन्ते, जातानि त्रयोदश शतानि विंशत्यधिकानि, तेषां द्वाषट्या भागो ह्रियते, लब्धा एकविंशतिर्मुहूर्ताः, शेषास्ति- ठन्त्यष्टादश, तवैकविंशतिर्मुहूर्ता मुहूर्तराशौ प्रक्षिप्यन्ते, जातानि मुहूर्तानां त्रीणि शतान्येक- पञ्चाशदधिकानि, तेषां द्वादशभिर्भागो ह्रियते, लब्धा एकोनत्रिंशन्मुहूर्ताः, शेषास्तिष्ठन्ति त्रयः, ते द्वाषष्टिभागकरणार्थं द्वाषष्ट्या गुण्यन्ते, जातं षडशीत्यधिकं शतं, ततः प्रागुक्ताः शेषीभूता मुहूर्तस्याष्टादश द्वाषष्टिभागाः।
_ 'ता से णमित्यादि, ता इति पूर्ववत्, सोऽभिवर्द्धितमासः कियान् मुहूर्ताओणाख्यात् इति वदेत्?, भगवानाह- 'नवे'त्यादि, नव मुहूर्तशतान्योकोनषष्ट्यधिकानि ९५९ सप्तदश च मुहूर्तद्वाषष्टिभागाः, तथाहि--एकत्रिंशदप्यहोरात्रास्त्रशता गुण्यन्ते, जातानि नव शतानि त्रिंशदधिकानि मुहूर्ताना, तत उपरितना एकोनत्रिंशन्मुहूर्तास्तत्र प्रक्षिप्यन्त, जातानि मुहूर्तानामेकोनषष्ट्यधिकानि नव शतानि ।
___ ता एस ण'मित्यादि, प्राग्वद् व्याख्येयं, 'ता से ण'मित्यादि, रात्रिन्दिवविषयं प्रश्नसूत्रं सुगम, भगवानाह--"ता तिन्नी' त्यादि, त्रीणि रात्रिन्दिवशतानि त्र्यशीत्यधिकानिएकविंशतिर्मुहूर्ता एकस्य च मुहूर्तस्याप्टादश द्वाषटिभागा रात्रिन्दिवाओणाख्यात इति वदेत्, तथाहि एकत्रिंशदहोरात्रा द्वादशभिगुण्यन्ते, जातानि त्रीणिशतानि द्विसप्तत्यधिकानि अहोरात्राणां, ततएकोनत्रि-शन्मुहूर्ता द्वादशभिर्गुण्यन्ते, जातानि त्रीणि शतान्यष्टाचत्वारिंशदधिकानि, तेषामहोरात्र-करणार्थं त्रिंशता भागो ह्रियते, लब्धा एकादश अहोरात्राः, अष्टादश तिष्ठन्ति, येऽपि च सप्तदश द्वाषष्टिभागाः मुहूर्तस्य तेऽपि द्वादशभिर्गुण्यन्ते, जाते द्वे शते चतुरुत्तरे, तयोषष्ट्या भागो ह्रियते, लब्धास्त्रयो मुहूर्तास्ते प्राक्तनेष्वष्टादशमु मध्ये प्रक्षिप्यन्ते, जाता एकविंशतिर्मुहूर्ताः, शेषास्तिष्ठन्त्यष्टादश पञ्च मुहूर्तशतान्येकादशाधिकानि अष्टादशच द्वाषष्टिभागा मुहूर्तस्येति मुहूर्ताग्रेणाभिवर्द्धितसंवत्सर आख्यात इति वदेत्, तथाहि-अभिवर्द्धितसंवत्सरपरिमाणंत्रीण्यहोरा-शतानियशीत्यधिकानि एकविंशतिर्मुहूर्त्ता एकस्य च मुहूर्तस्य अष्टादश द्वाषष्टिभागाः, तत्रैकस्मिन् रात्रिदिवे त्रिंशन्मुहूर्ता इति त्रीण्यहोरात्रशतानि त्र्यशीत्यधिकानि त्रिंशता गुण्यन्ते, गुणयित्वा चोपरितना एकविंशतिर्मुहूत्तस्तित्र प्रक्षिप्यन्ते, ततो यथोक्ता मुहूर्तसङ्ख्या भवतीति।
सम्प्रत्येते पञ्चसंवत्सरा एकत्र मीलिता यावत्प्रमाणा रात्रिन्दिवपरिमाणेन भवन्ति तावतो निर्दिदिक्षु प्रथमतः प्रश्नसूत्रमाह
मू. (100) ता केवतियं ते नोजुगे राइंदियागेणं आहितेति वदेजा ?, ता सत्तरस एकानउते राइंदियसते एगणवीसं च मुडुत्तं च सत्तावन्ने बावडिभागे मुहुत्तस्स बावडिभागं च सतहिधा छेत्ता पण्णपन्नं बुरिणयाभागे राइंदिग्गेणं आहितेति वदेजा, ता से णं केवतिए मुहुतग्गेणं आहितेति यदेञा?, ता तेपन्न मुहृत्तसहस्साइं सत्त य उणापत्रे मुहुतसते सत्तावन्नं बाबहिभागे मुहुतास बावहिभागं च सत्तद्विधा छेत्ता पणपन्नं चुण्णिया भागा मुहुनग्गेणं आहितेति वदेजा।
ता केवतिएणं ते जुगप्पत्ते राइंदियागेणं आहितेति वदेा?, ता अकृतीसं राइंदियाई दस य मुडुत्ता चतारि य बावठिभागे मुलुत्तस्स वावहिभागं च सत्तद्विधा छेत्ता दुवालस बुणिया भागे राइंदियग्गेणं आहिताति बत्रा, तास णं केवतिए मुडुतगणं आहितेति वदेञा?, ता एकारस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org