________________
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२२ / ९५
पञ्चचत्वारिंशन्मुहूर्तप्रमाणं तत इदमाहगतं - उत्तरफाल्गुनी नक्षत्रस्य चन्द्रयोगमुपागतस्य चत्वारिंशति मुहूर्तेष्वेकस्य च मुहूर्तस्य पञ्चत्रिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य सप्तषषष्टिधा छित्रस्य पञ्चषष्टी चूर्णिका भागेषु शेषेषु द्वितीयामावास्या समाप्तिं याति ।
२०४
सम्प्रति अस्यामेव द्वितीयस्याममावास्याया सूर्यनक्षत्रं पृच्छति - 'तं समयं च ण' मित्यादि, सुगमं, भगवानाह ता इति पूर्ववत्, उत्तराभ्यामेव फाल्गुनीभ्यां युक्तः सूर्यो द्वितीयाममावास्यां परिसमापयति, तदानीं च-द्वितीयामावास्यापरिसमाप्तिवेलायामुत्तरायाः फाल्गुन्याः 'तहेव जहा चंदस्स' त्ति यथा चन्द्रस्य विषये उक्तं तथैवात्रापि विषये वक्तव्यं, तद्यथा - 'चत्तालीसं मुहुत्ता पणतीसं च वावट्ठिभागा मुहुत्तस्स बाबट्टिभागं च सत्तट्ठिहा छित्ता पन्नट्ठि चुण्णिआ भागा सेसा' इति एतच्चो भयोरपि चन्द्रसूर्ययोर्नक्षत्रयोः परिज्ञानहेतोः करणस्य समानत्वा दवसेयम् ।
तृतीयामावास्याविषयं प्रश्नसूत्रमाह - 'ता एएसि ण०, सुगमं, भगवानाह - हस्तेन युक्तश्चन्द्रस्तृतीयामावास्यां परिसमापयति, तदानीं हस्तस्य चत्वारो मुहूर्त्तास्त्रिंशच्च द्वाषष्टिभागा मुहूर्तस्य द्वाषष्टिभागं चैकं सप्तषष्टिधा छित्वा तस्य सत्काश्चतुःषष्टि- चूर्णिकाभागाः शेषाः, तथाहि स एव ध्रुवराशि तृतीयस्या अमावास्यायाः सम्प्रति चिन्तेति त्रिभिर्गुण्यते, जातमष्टानवत्यधिकं शतं मुहूर्तानामेकस्य च महूर्त्तस्य पञ्चदश द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य त्रयः सप्तषष्टिभागाः तत एतस्माद् द्विसप्तत्यधिकेन मुहूर्तशतेन षट्चत्वारिंशता च मुहूर्त्तस्य द्वाषषष्टिभागैरश्लेषादीनि उत्तराफाल्गुनीपर्यन्तानि नक्षत्राणि शुद्धानि, पश्चादवतिष्ठन्ते पञ्चविंशतिर्मुहूर्त्ता एकस्य च मुहूर्तस्य एकत्रिंशद् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य त्रयः सप्तषष्टिभागाः तत आगतं हस्तनक्षत्रस्य चन्द्रेण सह योगमुपागतस्य चतुर्षु मुहूर्त्तेषु एकस्य च मुहूर्तस्य त्रिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य चतुः षट्ौ सप्तषष्टिभागेषु शेषेषु तृतीयाममावास्यां परिस० ।
अत्रैव सूर्यविषयं प्रश्नसूत्रमाह- 'तं समयं च ण० सुगमं, भगवानाह - हस्तेनैव नक्षत्रेण युक्तः सूर्योऽप्यमावास्यां तृतीयां परिसमापयति, एतच्चोभयोरपि करणस्य समानार्थत्वादवसेयं एवमुत्तरसूत्रयोरपि द्रष्टव्यं, शेषपाठविषयेऽतिदेशमाह-- 'हत्थस्स जं चेव चंदस्स' यथा चन्द्रस्य विषये हस्तस्य शेष उक्तः तथा सूर्यस्यापि विषये वक्तव्यः, स चैवम्- 'हत्थस्स चत्तारि मुहुत्ता तीसं चैव बावट्ठभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिहा छित्ता बावट्ठी चुण्णिया भागा सेसा' इति सम्प्रति द्वादशामावास्याविषयं प्रश्नसूत्रमाह - 'ता एएसि णमित्यादि सुगम, भगवानाह –‘ता अद्दाहिं’इत्यादि, आर्द्रया युक्तश्चन्द्रो द्वादशीममावास्यां परिसमापयति, तदानीं चार्द्रायाश्चत्वारो मुहूर्त्ता दश मुहूर्त्तस्य द्वाषष्टिभागा द्वाषष्टिभागं च सप्तषष्टिधा छित्वा चतुःपञ्चाशचूर्णिका भागाः शेषाः, तथाहि-- स एव ध्रुवराशि-द्वादश्यमावास्या चिन्त्यमाना वर्त्तते इति द्वादश- भिर्गुण्यते, जातानि सप्त शतानि द्विनवत्यधिकानि मुहूर्तानामेकस्य च मुहूर्तस्य षष्टिर्द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य द्वादश सप्तषष्टिभागाः एतस्माच्चतुर्भि शतैः द्विचत्वारिंशदधिकैर्मुहूर्तानामेकस्य च मुहूर्तस्य षट्चत्वारिंशता द्वाषष्टिभागैरश्लेषादीनि उत्तराषाढापर्यन्तानि नक्षत्राणि शुद्धानि स्थितानि पश्चात्त्रिीणि शतानि पञ्चाशदधिकानि मुहूर्तानामेकस्य च मुहूर्तस्य चतुर्द्दश द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य द्वादश सप्तषष्टिभागाः ततस्त्रिभिः शतैर्नवोत्तरैर्मुहूर्त्तानामेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International