________________
प्रामृतं १०, प्राभृतप्राभृतं - २२
२०३ वृ. 'ताएएसिण'मित्यादि सुगम, भगवानाह-'ताअसिलेसाहि'इत्यादि, ताइतिपूर्ववत्, अश्लेषाभिसह युक्तश्चन्द्रः प्रथमाममावास्यांपरिसमापयति, अश्लेषानक्षत्रस्यषट्तारत्वात्तदपेक्षया बहुवचनं,तदानीं च-प्रथमामावास्यापरिसमाप्तिवेलायामश्लेषानक्षत्रस्य एको मुहूर्तश्चत्वारिंशच्च द्वापरिभागा मुहूर्तस्य द्वाषष्टिभागंच सपतषष्टिधा छित्वाषट्षष्टिश्शूर्णिका भागाःशेषाः, तथाहि-स एवधुवराशि प्रथमामावास्या किल सम्प्रति चिन्त्यमाना वर्तते इत्येकेन गुण्यते, एकेन च गुणितं तदेव भवतीति तावानेव जातः, तत एतस्मात् । । ॥१॥ 'बावीसंच मुहुत्ता छायालीसं बिसट्ठिभागाय।
एवं पुनव्वसुस्स य सोहेयव्वं हवइ पुण्णं ॥' इति वचनात् द्वाविंशतिर्मुहूर्ता एकस्य चमुहूर्तस्यषट्चत्वारिंशत्द्वाषष्टिभागा इत्येवंप्रमाणं पुनर्वसुशोधनकं शोध्यते, तत्र षट्पष्टेर्मुहूर्तेभ्यो द्वाविंशतिर्मुहूर्ताः शुद्धाः, स्थिताः पश्चाच्चतुश्चत्वारिंशत् , तेभ्य एकमुहूर्तमपेक्ष्यतस्य द्वाषष्टिभागाः कृताः, ते द्वाषप्टिभागराशिमध्ये प्रक्षिप्यन्ते, जाताः सप्तषष्टि, तेभ्यः षट्चत्वारिंशत् शुद्धाः, शेषास्तिष्ठन्ति एकविंशति, त्रिचत्वारिंशतो मुहूर्तेभ्यस्त्रशता पुष्यः शुद्धः, स्थिताः पश्चात्रयोदश मुहूर्ता, अश्लेषानक्षत्रं चार्द्धक्षेत्रमिति पञ्चदशमुहूर्तप्रमाणं, तत इदमागतं-अश्लेषानक्षत्रस्य एकस्मिन् मुहूर्ते चत्वारिंशति मुहूर्तस्य द्वापटिभागेषु एकस्यच द्वाषष्टिभागस्य सप्तषष्टिधा छिन्नस्य षट्षष्टिभागेषुशेषेषुप्रथमामावास्या समाप्तिमुपगच्छति । सम्प्रत्यस्यामेव प्रथमायाममावास्यायां सूर्यनक्षत्रं पृच्छति-'तं समयं च न'मित्यादि, सुगमं, भगवानाह-'ता असिलेसाहिं चेवे'त्यादि, इह य एवास्याममावास्यायां चन्द्रनक्षत्रयोगे ध्रुवराशिर्यदेव शोधनकं स एव सूर्यनक्षत्रयोगविषयेऽपि ध्रुवराशिस्तदेव च शोधनकमिति तदेव सूर्यनक्षत्रयोगेऽपि नक्षत्रं तावदेव च तस्य नक्षत्रस्य शेषमिति, तदेवाह-अश्लेषाभिर्युक्तः सूर्य प्रथमाममावास्यां परिसमापयति, तस्यां च परिसमाप्तिवेलायामश्लेषाणामेको मुहूर्त एकस्य च मुहूर्तस्य चत्वारिंशत् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य षट्षष्टि सप्तषष्टिभागाः शेषाः।
द्वितीयामावास्याविषयं प्रश्नसूत्रमाह-'ता एएसि ण'मित्यादि सुगम, भगवानाह-'ता उत्तराहिं' इत्यादि, उत्तराभ्यां फाल्गुनीभ्यांयुक्तः चन्द्रो द्वितीयाममावास्यापरिसमापयति, तदानीं च-अमावास्यापरिसमाप्तिवेलायामुत्तरायाः फाल्गुन्याश्चत्वारिंशन्मुहूर्ताः पञ्चत्रिंशद्वाषष्टिभागाः मुहूर्तस्य द्वाषष्टिभागंच सप्तषष्टिधा छित्वा तस्य सत्काः पञ्चषष्टिश्चूर्णिकाभागाः शेषाः, तथाहि-स एवध्रुवराशि द्वाभ्यांगुण्यते, जातंद्वात्रिंशदधिकं मुहूर्तानांशतं, एकस्य च मुहूर्त-स्य द्वाषष्टिभागा दश एकस्य च द्वाषष्टिभागस्य सप्तषष्टिधा छिन्नस्य द्वौ चूर्णिकाभागौ तत्र प्रथमं पुनर्वसुशोधनकं शोध्यते, द्वात्रिंशदधिकमुहूर्तशतात्द्वाविंशतिर्मुहूर्ताः शुद्धाः स्थितं पश्चाद्दशोत्तरंशतं, तेभ्योऽप्येको मुहूर्तो गृहीत्वा द्वाषष्टिभागीक्रयते, कृत्वा च ते द्वाषष्टिभागा द्वाषष्टिभागराशौ प्रक्षिप्यन्ते, जाता द्विसप्ततिषष्टिभागास्तेभ्यः षट्चत्वारिंशत् शुद्धाः स्थिताः पश्चात् षड्विंशति, नवोत्तराच्च मुहूर्तशतात् त्रिंशता पुष्यः शुद्धः, स्थिताः पश्चादे-कोनाशीति, ततोऽपि पञ्चदशभिर्मुहूर्तरश्लेषा शुद्धा, स्थिता पश्चाच्चतुःषष्टि, ततोऽपि त्रिंशता मघाः शुद्धाः, स्थिता चतुस्त्रिंशत्, ततोऽपि त्रिंशता पूर्वफाल्गुनी शुद्धा, स्थिताः पश्चात् चत्वारः, उत्तरफाल्गुनीनक्षत्रं द्वयर्द्धक्षेत्रमिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org