SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ २०२ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२२/९४ मुहूर्तस्य द्वाषष्टिभागं च सप्तषष्टिधा छित्वा तस्य सत्कास्त्रयस्त्रिंशत् चूर्णि- काभागाः शेषाः, तथाहि-सएव ध्रुवराशि द्वाषष्ट्या गुण्यते,जातानिमुहूर्तानांचत्वारिंशच्छतानिद्विनवत्यधिकानि एकस्य च मुहूर्तस्य द्वाषष्टिभागानां त्रीणि शतानि दसोत्तराणि एकस्य च द्वाषष्टिभागस्य द्वाषष्टि सप्तषष्टिभागाः इह पुष्यस्य दशमुहूर्तेष्वेकस्य च मुहूर्तस्याष्टादशसु द्वाषष्टिभागेष्वेकस्य च द्वाषप्टिभागस्य चतुस्त्रिंशति सप्तषष्टिभागेष्वतिक्रान्तेषु पाश्चात्ययुगं परिसमाप्तिमुपैति । तदनन्तरमन्यत् युगप्रवर्तते, पुष्यस्यापि च तावन्मात्रादतिक्रन्तात्परतो यावद्भूयोऽपि तावन्मात्रस्य पुष्यस्यातिक्रम एतावत्प्रमाणः एकः परिपूर्णो नक्षत्रपर्यायः, तस्य च प्रमाणमष्टौ शतान्येकोनविंशत्यधिकानि मुहूर्तानामेकस्य च मुहूर्तस्य चतुर्विंशतिषष्टिभागा एकस्य च द्वाषष्टिभागस्यषट्षष्टिसप्तषष्टिभागाःतत एतत्पञ्चभिर्गुणयित्वा प्रागुक्तात्ध्रुवराशेषष्टिगुणितात् शोध्यते, तच्च परिपूर्ण शुद्धयति, पश्चाच्च राशिनिर्लेपो जायते, तत आगतं पुष्यस्य सूर्येण युक्तस्य दशसु मुहूर्तेष्वेकस्य च मुहूर्तस्याष्टादशसु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशति सप्तषष्टिभागेष्वतिक्रन्तेषु एकोनविंशतौ च मुहूर्तेषु एकस्य च मुहूर्तस्य त्रिचत्वारिंशति द्वाषष्टिभागेष्वेकस्यचद्वाषष्टिभागस्य त्रयस्त्रिंशतिसप्तषष्टिभागेषुशेषेषुचरमा द्वाषष्टितमापौर्णमासी परिसमाप्तिमगमदिति। तदेवं पौर्णमासीविषयश्चन्द्रनक्षत्रयोगः सूर्यनक्षत्रयोगश्चोक्तः, सम्प्रत्यमावास्याविषयं सूर्यनक्षत्रयोगंचन्द्रनक्षत्रयोगंच प्रतिपिपादयिषुः प्रथमतःप्रथमामावास्याविषयं प्रश्नसूत्रमाह मू. (९५)ता एतेसिणं पंचण्हंसंवच्छराणं पढमं अमावासं चंदे केणं नक्खत्तेणंजोएति?, ताअस्सेसाहिं, अस्सेसाणं एक्के मुहुत्ते चत्तालीसंच बावट्ठिभागामुहुत्तस्सबावट्ठिभागंच सत्तद्विधा छेत्ता बावढि चुण्णिया सेसा, तं समयं च णं सूरे केणं नक्खत्तेणं जोएति?, ता अस्सेसाहिं चैव, अस्सेसाणं एक्को मुहुत्तो चत्तालीसंच बावट्ठिभागा मुहत्तस्स बावट्ठिभागं सत्तद्विधा छेत्ता बावट्टि चुणिया भागा सेसा । ता एएसि णं पंचण्हं संवच्छराणं दोच्चं अमावासं चंदे केणं नक्खत्तेणं जोएति?, ता उत्तराहिं फग्गुणीहि, उत्तराणं फग्गुणीणं चत्तीलीसं मुहुत्ता पणतीसं बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता पन्नदि चुण्णिया भागा सेसा, तं समयं च णं सूरे केणं नक्खत्तेणं जोएति?, ता उत्तराहिं चेव फगुणीहि, उत्तराणं फग्गुणीणं जहेव चंदस्स। ता एतेसि णं पंचण्हं संवच्छराणं तचं अमावासं चंदे केणं नक्खत्तेणं जोएति ?, ता हत्थेणं, हत्थस्स चत्तारि मुहुत्ता तीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छत्ता बावहि चुणिया, भागा सेसा, तं समयं च णं सूरे केणं नक्खत्तेणं जोएति ?, ता हत्थेणं चैव, हत्थरस जहा चंदस्स । ता एएसिणं पंचण्हं संवच्छराणं दुवालसमंअमावासं चंदे केणं नक्खत्तेणं जोएति?, अद्दाहिं अद्दाणं चत्तारि मुहत्ता दस य बावट्ठिभागा मुहुत्तस्स बावठिं च सत्तद्विधा छेत्ता चउपन्नं चुणिया भागा सेसा । तं समयं च णं सूरे केण नक्खत्तेणं जोएति ?, ता अद्दाहिं चेव, अद्दाणं जहा चंदस्स। ताएएसिणं पंचण्हं संवच्छराणं चरिमं बावढि अमावासं चंदे केणं नक्खत्तेणंजोएति?, तापुनव्वसुणा, पुनव्वसुस्स बावीसं मुहत्ता बायालीसं च बासट्ठिभागा मुहुत्तस्स सेसा । तं समयं च णं सूरे केणं नक्खत्तेणं जोएति?, ता पुनव्वसुणा व, पुनव्वसुस्स णं जहा चंदस्स। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy