________________
प्राभृतं १०, प्राभृतप्राभृतं -२२
२०५
सप्तषष्टिभागैरभिजिदादीनि रोहिणीपर्यन्तानि शुद्धानि, स्थिताः पश्चाश्चत्वारिंशन्मुहूर्ताः एकस्य चमुहूर्तस्य एकपञ्चाशत्द्वाषटिभागा एकस्य च द्वाषष्टिभागस्य त्रयोदश सप्तषष्टिभागा ततस्त्रिंशता मुहूतैर्मृगशिरः शुद्धः, स्थिताः पश्चाद्दश मुहूर्ताः, शेषं तथैव तत आगतं आर्द्रानक्षत्रस्य चन्द्रेण सह संयुक्तस्य चतुर्षु मुहूर्तेषु एकस्य च मुहूर्तस्य दशसु द्वाषष्टिभागेषु एकस्य च द्वाषटिभागस्य चतुष्पञ्चाशति सप्तषष्टिभागेषु शेषेषु द्वादशी अमावास्या परिसमाप्तिमियति।
सम्प्रति सूर्यविषये प्रश्नमाह-'तं समयं च णमित्यादि, सुगम, भगवानाह-'ता अद्दाए चेव' आर्द्रयैव युक्तः सूर्योऽपि द्वादशीममावास्यां परिसमापयति, सेषपाठविषयेऽतिदेशमाह'अदाए जहा चन्दस्स' यथा चन्द्रविषये आर्द्रायाः शेष उक्तस्तथा सूर्यविषयेऽपि वक्तव्यः, स चैवम्-'अदाए चतारि मुहुत्ता दसय वावट्ठिभागा मुहुत्तस्स बावठ्ठिभागंच सत्तट्ठिहाछेत्ता चउप्पन्न चुण्णिया भागासेसा' इति। चरमद्वाषष्टितमामावास्याविषयं प्रश्नमाह-'ता एएसिण मित्यादि, सुगम, भगवानाह-'ता पुनव्वसुणा' इत्यादि, ता इति पूर्ववत्, पुनर्वसुना युक्तश्चन्द्रश्चरमां द्वाषष्टितमामवास्यां परिसमा- पयति, तदानीं च-चरमद्वाषष्टितमामावास्यापरिसमाप्तिवेलायां पुनर्वसुनक्षत्रस्य द्वाविंशतिर्मुहूर्ताः षट्चत्वारिंशच द्वाषष्टिभागा मुहूर्तस्य शेषाः, तथाहि
सएव ध्रुवराशि द्वाषष्ट्य गुण्यते, जातानि मुहूर्तानां चत्वारिंशच्छतानि द्विनवत्यधिकानि एकस्य च मुहूर्तस्य द्वाषष्टिभागानां त्रीणि शतानि दशोत्तराणि एकस्य च द्वाषष्टि-भागस्य द्वाषष्टि सप्तषष्टिभागाः तत एतस्मात् चतुर्भि शतैर्द्विचत्वारिंश- दधिकैर्मुहूर्तानामेकस्य च मुहूर्तस्य षट्चत्वारिंशता द्वाषष्टिभागैः प्रथमंशोधनकं शुद्धं, जातानिषट्त्रिंशच्छतानि पञ्चाशदधिकानि मुहूर्तानामेकस्य च मुहूर्तस्य द्वे शते चतुःषष्ट्यधिके द्वाषष्टि- भागानामेकस्य च द्वाषष्टिभागस्य द्वाषष्टि सप्तषष्टिभागाः ततोऽभिजि-दाद्युत्तराषाढापर्यन्तसकलनक्षत्रपर्यायविषयं शोधनकमष्टौ शतान्येकोनविंशत्यधिकानि मुहूर्तानामेकस्य च मुहूर्तस्य चतुर्विंशतिद्वाषष्टिभागाः एकस्य च द्वापटिभागस्यषट्षष्टि सप्तष-टिभागाः इत्येवंप्रमाणंचतुर्भिर्गुणयित्वाशोध्यते, स्थितानिपश्चात्त्रीणि शतानि चतुःसप्तत्यधिकानि मुहूर्तानामेकस्य च मुहूर्तस्य चतुःषष्ट्यधिकंशतं द्वाषष्टिभागानामेकस्य च द्वाषटिभागस्य षट्षष्टि सप्तषष्टिभागाः ततो भूयस्त्रिभि शतैर्मुहूर्तानां नवोत्तरैरेकस्यच मुहूर्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य द्वाषष्टिभागस्य च षट्पट्या सप्तषष्टिभागैः अभिजिदादीनि रोहिणीपर्यन्तातिशुद्धानि, स्थिताः पश्चात् सप्तषष्टिर्मुर्ता एकस्य च मुहूर्तस्य षोडश द्वाषष्टिभागाः ततस्त्रिंशता मुहूर्तेर्मृगशिरः पञ्चदशभिरार्द्रा शुद्धा, स्थिताः शेषा द्वाविंशतिर्मुहूर्ताः एकस्य च मुहूर्तस्य षोडश द्वाषष्टिभागाः, तत आगतं चंद्रेण सह संयुक्तं पुनर्वसुनक्षत्रं द्वाविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्यषट्चत्वारिंशति द्वाषष्टिभागेषुशेषेषुचरमांद्वाषष्टितमाममावास्यां परिसमापयति।
सूर्यविषयं प्रश्नमाह-'तं समयं च णं० सुगम, भगवानाह- सूर्योऽपि पुनर्वसुना चैव सह योगमुपागतःचरमांद्वाषष्टितमाममावास्यां परिणमयति, शेषविषयेऽतिदेशमाह-'पुनव्वसुस्स णं' यथा चन्द्रस्य विषये पुनर्वसोः शेष उक्तः तथा सूर्यस्यापि विषये वक्तव्यः, स चैवम्'पुनव्वसुस्स बावीसं मुहुत्ता छायालीसं च बावट्ठिभागा मुहुत्तस्स सेसा' इति।
मू. (९६) ता जेणं अज्झ नरखतेणं चंदे जोयं जोएति जंसि देसंसि से णं इमाणि अट्ठ एकूणवीसाणि मुहुत्तसताई चउवीसं च बावट्ठिभागे मुहुत्तस्स बावट्टिभागं च सत्तद्विधा छेत्ता
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only