SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ १६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/५/१८ लब्धा नव मुहूर्ताः , शेषाऽवतिष्ठते सप्तविंशति, आगतं नक्षत्रमासः सप्तविंशतिरहोरात्राः नव मुहूर्ता एकस्य च मुहूर्तस्य सप्तविंशति सप्तषष्टिभागाः, तत्र सप्तविंशतिरहोरात्रा मुहूर्तकरमार्थं त्रिंशता गुण्यन्ते जातान्यष्टौ शतानि दशोत्तराणि तेषां मध्ये उपरितना नव मुहूत्ता प्रक्षिप्यन्ते, जातान्यष्टौ शतान्योकोनविंशत्यधिकानि आगतं नक्षत्रमासे मुहूर्तपरिमाणमष्टौ शतान्येकोनविंशत्यधिकान एकस्य च मुहूर्तस्य सप्तविंशति शप्तषष्टिभागा इति।। इदंचनक्षत्रमासगतमुहूर्तपरिमाणंउपलक्षणं, तेन सूर्यादिमासानामप्यहोरात्सङ्ख्यां परिभाव्य मुहूर्तपरिमाणं यथाऽऽगमं भावनीयं, तच्चैवम्-सूर्यमासा युगेषष्टिर्भवन्ति, युगे चाष्टादष शतानि त्रिंशदधिकान्यहोरात्राणां, ततस्तेषांषष्ट्या भागेहतेलब्धा त्रिंशदहोरात्राः एकस्य चाहोरात्रस्यार्द्ध, एतावत्सूर्यमासपरिमाणं त्रिंशनमुहूर्तश्चाहोरात्र इति त्रिंशत्त्रिंशता गुण्यते, जातानि नव शतानि मुहूर्तानां, अर्द्ध चाहोरात्रस्य पञ्चदश मुहूत्ताः, तत आगतं सूर्यमासे मुहूर्त्तपरिमाणं नव शतानि पञ्चदशोत्तराणि तथा युगे द्वाषष्टिश्चन्द्रमासास्ततोऽष्टादशशतानां त्रिंशदधिकानां द्वाषष्टया भागो ह्रियते, लब्धा एकोनत्रिंशदहोरात्रा द्वात्रिंशच द्वाषटिभागाअहोरात्रस्य,तत्रद्वात्रिंशद् द्वाषष्टिभागा मुहूर्तस्य करणार्थं त्रिंशत गुण्यन्ते, जातानि नव शतानि षष्ठयधिकानि तेषां द्वाषष्ट्या भागो ह्रियते, लब्धाः पञ्चदश मुहूर्ताः, शेषा तिष्ठति त्रिंशत् एकोनत्रिंशच्चाहोरात्रा मुहूर्तकरणार्थं त्रिंशता गुण्यन्ते, जातान्यष्टौ शतानि सप्तत्यदिकानि ततः पाश्चात्याः पञ्चदश मुहूर्ता एषु मध्ये प्रक्षिप्यन्ते,तत आगतंचन्द्रभासे मुहूर्तपरिमाणमष्टौ शतानि पञ्चाशीत्यदिकानि त्रिंशच द्वाषष्टिभागा मुहूर्तस्य । कर्ममासश्च त्रिंशदहोरात्रप्रमाणस्ततस्तत्र मुहूर्तपरिमाणं नव शतानि परिपूर्णानि, तदेवं मासगतंमुहूर्तपिरमाणमुक्तं, एतदनुसारेण च चन्द्रादिसंवत्सरगतंयुगगतंचमुहूर्तपरिमाणं स्वयं परिभावनीयं । तथा च सत्यवगतं मुहूर्तपरिमाणं, सम्प्रति प्रत्ययने ये दिवसरात्रिविषये मुहूर्तानां वृद्धयपवृद्धी ते अवबोद्धुकाम इदं पृच्छति मू. (१९) ता जया णं सूरिए सव्वब्भंतरातो मंडलातो सब्वबाहिरं मंडलं उवसंकमित्ता चारं चरति सव्वबाहिरातो मंडलातो सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति, एस णं अद्धा केवतियं रातिदियग्गेणं आहितेत्ति वदेजा? ता तिन्नि छावढे रातिदियसए रातिंदियग्गेणं आ० दृ. 'ता जयाणमित्यादि, तावच्छब्दार्थभावना सर्वत्रापिप्रागुक्तानुसारेण यथायोगस्वयं परिभावनीया, शेषस्य च वाक्यस्यायमर्थः-'यदा'यस्मिन् काले, णमिति वाक्यालङ्कारे, सूर्य सर्वाभ्यन्तरान्मण्डलाद्विनिर्गत्य प्रत्यहोरात्रमेकैकमण्डलचारेण यावत् सर्वबाह्यं मण्डलमुपसंक्रमय चारं चरति-परिभ्रमणमुपपद्यते, सर्वबाह्याच्च मण्डलादपसृत्य प्रतिरात्रिन्दिवमेकैकमण्डलपरिभ्रमणेन यावत्सर्वाभ्यन्तरं मण्डलमुपसंक्रभ्य चारंचरति, 'एषा एतावती, णमिति पूर्ववत् अद्धा कियता रात्रिदिवाग्रेण रात्रिदिवपरिमाणेन आख्याता इति वदेत् ?, अत्र प्रतिवचनं मू. (२०) ता एताए अद्धाए सूरिए कति मंडलाइं चरति ?, ता चुलसीयं मंडलसतं चरति, बासीति मंडलसतं दुक्खुत्तो चरति, तंजहा-निक्खममाणे चैव पवेसमाणे चेव, दुवे य खलु मंडलाइंसइं चरति, तंजहा-सव्वभंतरं चेव मंडलं सव्वबाहिरंचेव मंडलं ।। वृ. 'तातित्रि'इत्यादि, एषाअद्धा रात्रिन्दिवाग्रेण त्रिभी रात्रिदिवसशतैः षट्पष्टैः-षट्पष्टयधिकैराख्याताइति, स्वशिष्येभ्यो वदेत् । पुनः पृच्छति-'ताएयाएन'मित्यादि, 'ता' इतिपूर्ववत्, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy