________________
प्राभृतं १, प्राभृतप्राभृतं -१
१५
भगवन् ! 'ते' त्वया 'मुहूर्तानां दिवसरात्रिविषयाणां वृद्धयपवृद्धीआख्याते इतिभगवान्प्रसादमाधाय 'वदेत्' यथावस्थितं वस्तुस्वरूपं कथयेत् येन मे संशयापगमो भवति, अपगतसंशयश्च परेभ्यो निशङ्कमुपदिशामीति।अत्राह-ननु गौतमोऽपिचतुर्दशपूर्वधरः सर्वाक्षरसन्निपातीसम्मिन्नश्रोताः सकलप्रज्ञापनीयभावपरिज्ञाकुशलः सूत्रतश्च प्रवचनस्य प्रणेतासर्वज्ञदेशीय एव, उक्तं च॥१॥ "संखाईएवि भवे साहइ जं वा परो उ पुच्छेञ्जा।
नय णं अणाइसेसी वियाणई एस छउमत्थो ।" ततः कथं संशयसम्भवस्तदभावाच्च किमर्थं पृच्छतीति?,उच्यते, यद्यपि भगवान् गौतमो यथोक्तगुणविशिष्टस्तथापि तस्याद्यापिमतिज्ञानावरणीयाधुदयेवर्तमानत्वात्छद्मस्थता,छद्मस्थस्य च कदाचिदनाभोगोऽपि जायते, यत उक्तम्॥१॥ "न हि नामानाभोगश्छद्मस्थस्येह कस्यचिन्नेति।
ज्ञानावरणीयं हि ज्ञानावरणप्रकृतिकर्म ।।" ततोऽनाभोगसम्भवादुपपद्यते भगवतोऽपिसंशयः,नचैतदनार्थ, यत उक्तंउपासकश्रुते आनन्दश्रमणोपासकावधिनिर्णयविषये
"तेणं' भते! किंआनंदेणंसमणोवासाएणं तस्स ठाणस्सआलोइयव्वं जावपडिक्कमियव्यं उयाहु मए?, ततो णं गोयमादी समणे भगवं महावीरे गोयमं एवं वयासी-तुमं चेवणं तस्स ठाणस्स आलोएहि जाव पडिकमाहि, आनंदं च समणोवासयं एयमढें खामेहि, तए णं समणे भगवं गोयमे समणस्स भगवओ महावीरस्स अंतिए एयमढ़ विनएणं पडिसुणेइ, पडिसुणित्ता तस्स ठाणस्स आलोएइ जाव पडिक्कमइ, आनंदं च समणोवासयं एयमद्वं खामेइ' इति, अथवा भगवान अपगतसंशयोऽपि शिष्यसम्प्रत्ययार्थं पृच्छति, तथाहि-तमर्थं शिष्येभ्यःप्ररूप्य तेषां सम्प्रत्ययार्थं तत्समक्ष भूयोऽपिभगवन्तंपृच्छतीति यदिवाइत्यमेव सूत्ररचनाकल्प इति न कश्चिद्दोषः
एवं भगवता गौतमनेप्रश्ने कृते सति भगवान् श्रीवर्द्धमानस्वामी प्रतिवचनमभिधातुकामः सविशेषबोधाधानाय प्रथमतो नक्षत्रमासे यावन्तो मुहूत्ताः सम्भवन्ति तावतो निरूपयति- 'ता अडे'त्यादि, तावदिति शिष्योक्तपदानुवादः सच न्यायमार्गप्रदर्शनार्थं, तथाहि-सर्वेणापि गुरुणा शिष्येण प्रश्ने कृते सति शिष्यपृष्टस्य पदस्य अन्यस्य वा शिष्योक्तस्य तथाविधस्य पदस्य अनुवादपुरस्सरं प्रतिवचनमभिधातव्यं येन गुरुषु शिष्याणां बहुमानो भवति-यथाऽहं गुरूणां सम्मत इति, अन्यच्च तावच्छब्दस्यायमर्थः-आस्तामन्यप्रतिवक्तव्यमिदानीं तावदेव तवाग्ने कथयामि, एतस्मिन्नक्षत्रमासे अष्टौ मुहूर्तशतानि एकोनविंशानि-एकोनविंशत्यधिकानि एकस्य चमुहूर्तस्य सप्तिविंशति सप्तषष्टिंभागानहमाख्याता इति स्वशिष्येभ्यो वदेत्, एतेन चैतदावेदयति
इहशिष्येणसम्यगधीतशास्त्रेणापिगुर्वनुज्ञातेनसतातत्वोपदेशोऽपरस्मैदातव्यो नान्यथेति, अथ कथमेकस्मिनक्षत्रमासे अष्टौ शतान्येकोनविंशत्यधिकानि मुहूर्तानामेकस्य च मुहूर्तस्य सप्तविंशति स्पतषष्टिभागा इति?, उच्यते, इह युगे चन्द्रचन्द्राभिवद्धितचन्द्राभिवर्द्धितरूपसंवसरपञ्चकात्मके सप्तषष्टिर्नक्षत्रमासाः, युगेचोक्तस्वरूपे अहोरात्राणामष्टादशशतानि त्रिंशदधिकानि तत एतेषां सप्तषष्ट्या भागो हियते लब्धाः सप्तविंशतिरहोरात्राः, शेषा तिष्ठति एकविंशति, सा मुहूर्तानयनार्थं त्रिंशता गुण्यते, जातानि षट् शतानि त्रिंशदधिकानि तेषां सप्तषष्ट्या भागे हते
Jain Education International
For Private & Personal Use Only
For PM
www.jainelibrary.org