________________
१८३
प्राभृतं १०, प्राभृतप्राभृतं - २० चन्द्रादिभिरित्यर्थः, पूर्वगणितैः-प्राक्प्रतिसङ्ख्यातस्वरूपैःप्रतिमीयमाने प्रतिगण्यमाने मासैःसूर्यादिमासैः, शेषं सुगमम्।
"आइच्चेण उ सट्ठी मासा उउणो उ होंति एगट्ठी।
चंदेण उ वावट्ठी सत्तही होति नरखत्ते॥ सत्तावण्णं मासा सत्तय राइंदियाइं अभिचड्ढे । इक्कारस य मुहुत्ता विसट्ठिभागा य तेवीसं ॥
-सम्प्रति लक्षणसंवत्सरमाहमू. (७९) ता लक्खणसंवच्छरे पंचविहे पं०-नखत्ति चंदे उडु, आइच्चे अभिवुड्डिए। ता नक्खत्ते णं संवच्छरेणं पंचविहे पं०--
वृ. 'लखणे संवच्छरेत्यादि, लक्षणसंवत्सरः पञ्चविधः-पञ्चप्रकारः प्रज्ञप्तः, तच्चपञ्चविधत्वं प्रागुक्तमेव द्रष्टव्यं, तद्यथा-नक्षत्रसंवत्सरः चन्द्रसंवत्सरः ऋतुसंवत्सरः आदित्यसंवत्सरोऽभिवर्द्धितश्च, किमुक्तं भवति?-न केवलमेते नक्षत्रादिसंवत्सरा यथोक्तरात्रिन्दिवपरिमाणा भवन्ति किन्तु तेभ्यः पृथग्भूता अन्येऽपि वक्ष्यमाणलक्षणोपेताः, ततो लक्षणोपपन्नः संवत्सरः पृथक् पञ्चविधो भवतीति, तत्र प्रथमतो नक्षत्रसंवत्सरलक्षणमाह--'ता नक्खत्ते' त्यादि, 'ता' इति तत्र नक्षत्रसंवत्सरो लक्षणमधिकृत्य पञ्चविधः प्रज्ञप्तः, किमुक्तं भवति? -नक्षत्रसंवत्सरस्य पञ्चविधं लक्षणं प्रज्ञप्तमिति, तदेवाहमू. (८०) समगं नक्खत्ता जोयं जोएंति, समगं उदू परिणमंति।
नच्चुण्डं नाइसीए बहुउदए होइ नक्खत्ते। वृ. “समगंनक्खत्ता जोगंजोएंति समगं ऊउ परिणमंति। नचुण्ह नातिसीतो बहुउदओ होउ नक्खत्तो ॥ यस्मिन् संवत्सरे समकं-समकमेव एककालमेव ऋतुभि सहेति गम्यते नक्षत्राणिउत्तराषाढाप्रभृतीनि योगंयुञ्जन्ति-चन्द्रेण सह योगंयुञ्जन्ति सन्ति तां पौर्णमासी परिसमापयन्ति, तथा समकमेव-एककालमेव तया तया परिसमाप्यमानया पौर्णमास्या सह ऋतवोनिदाघधाद्याः परिणमन्ति-परिसमाप्तिमुपयन्ति, इयमत्र भावना-यस्मिन् संवत्सरे नक्षत्रैर्माससशनामकैस्तस्य तस्य ऋतोः पर्यन्तवर्ती मासः परिसमाप्यते, तेषु च तां तां पौर्णमासी परिसमापयत्सु तया तया पौर्णमास्या सह ऋतयोऽपि निदाघादिकाः परिसमाप्तिमुपयन्ति, यथा उत्तराषाढानक्षत्रं आपाढी पौर्णमासी परिसमापयति, तया आषाढपौर्णमास्या सह निदाघोऽपि ऋतुः परिसमाप्तिमुपैति, स नक्षत्रसंवत्सरः, नक्षत्रानुरोधेन तस्य तथा तथा परिणममानत्वात्, एतेन च लक्षणद्वयमभिहितं द्रष्टव्यं, तथा न विद्यतेऽतिशयेन उष्णं-उष्णरूपः परितापो यस्मिन् सनात्युष्णः तथा न विद्यतेऽतिशयेन शीतं यत्र स नातिशीतो बहु उदकं यत्र स बहूदकः एवंरूपैः पश्चिभि समग्रैर्लण्णैरुपेतो भवति नक्षत्रसंवत्सरः। मू. (८१) ससि समग पुन्निमासिं जोइता विसमचारिनक्खत्ता।
कडुओ बहुउदवओ य तमाहु संवच्छरं चंदं ।। वृ.
सम्प्रति चन्द्रसंवत्सरलक्षणमाह“ससिसमगपुण्णमासिंजोएंता विसमचारिनक्खत्ता कडुओबहुउदओया तमाहु संवच्छरचंदं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org