________________
१८२
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२०/७८
मासा एकषष्टि, त्रिंशद्दिनमानत्वाद् तस्य त्रिंशदधिकाया अष्टादशशत्यास्त्रिंशता भागे एकषष्ट्रेर्लाभात् चन्द्रमासा द्विषष्टिर्यत एकोनविंशत्या अहोरात्रैरेकोनत्रिंशता द्विषष्टिभागैरधिकैर्मासः, युगदिनानां तैर्भागे च द्वाषट्रेर्लाभात् कथं? त्रिंशदधिकाया अष्टादशशत्या द्विषष्टिभागकरणार्थं गुणकारे एकं लक्षं त्रयोदश सहस्राणि षष्ट्यधिकमेकं शतं, चन्द्रमासस्यापि भाकरणाय द्विषष्ट्या एकोनत्रिंशति गुणिते प्रक्षिप्ते च द्वात्रिंशति त्रिंशदधिकाया अष्टादशशत्या भावः तया भक्ते पूर्वोक्तराशी द्वाषष्ट्रेर्भावात् चन्द्रमासा द्वाषष्टिरिति । नक्षत्रमासाः सप्त, ष्टि, कथमिति चेत्, नक्षत्र- मासस्तावत् सप्तविंशत्या अहोरात्रैरेकविंशत्या च सप्तषष्टिभागैः) ।
1
तत्र सप्तविंशतिरहोरात्राः सप्तषष्टिभागकरणार्थं सप्तषष्ट्या गुण्यन्ते, जातान्यष्टादश शतानि नवोत्तराणि तत उपरितना एकविंशति सप्तष्टिभागास्तत्र प्रक्षिप्यन्ते, जातान्यष्टादश शतानि त्रिंशदधिकानि, युगस्यापि सम्बन्धिनस्त्रशदधिकाष्टादशशतप्रमाणा अहोरात्राः सप्तषट्या गुण्यन्ते, जात एको लक्ष: द्वाविंशति सहस्राणि षट् शतानि दशोत्तराणि, एतेषामष्टादशशतैस्त्रशदधिकैर्नक्षत्र माससत्कसप्तषष्टिभागरूपैर्भागो हियते, लब्धाः सप्तषष्टिर्भागाः ।
}
तथा यदि युगमभिवर्द्धितमासैः परिभज्यते तदा अभिवर्द्धितमासा युगे भवन्ति सप्तपञ्चाशत् सप्त रात्रिन्दिवानि एकादश मुहूर्त्ता एकस्य च मुहूर्त्तस्य द्वाषष्टिभागास्त्रयोविंशति, तथाहि - अभिवर्द्धितमासपरिमाणमेकत्रिंशदहोरात्रा एकविंशत्युत्तरं शतं चतुर्विंशत्यधिकतभागानामहोरात्रस्य, तत एकत्रिंशदहोरात्राश्चतुर्विंशत्तरशतभागकरणार्थं चतुर्विंशत्युत्तरेण शतेन गुण्यन्ते, जातान्यष्टात्रिंशच्छतानि चतुश्चत्वारिंशदधिकानि, तत उपरितनभेकविंशत्युत्तरं शतं भागानां तत्र प्रक्षिप्यते, जातान्येकोनचत्वारिंशच्छतानि पञ्चषष्ट्यधिकानि यानि च युगे अहोरात्रा - णामष्टादश शतानि त्रिंशदधिकानि तानि चतुर्विंशत्युत्तरेण शतेन गुण्यन्ते, जाते द्वे लक्षे षड्विंशति सहस्राणि नव शतानि विंशत्यधिकानि, तत एतेषामेकोनचत्वारिंशच्छतैः पञ्चषष्ट्यधिकैरभिवर्द्धितमाससत्कच तुर्विंशत्युत्तरशतभागरूपैर्भागो हियते, लब्धाः सप्तपञ्चाशन्मासाः, शेषाणि तिष्ठन्ति नव शतानि पञ्चदशोत्तराणि तेषामहोरात्रानयनाय चतुर्विंशत्यधि- केन शतेन भागो ह्रियते, लब्धानि सप्त रात्रिन्दिवानि शेषास्तिष्ठन्ति चतुर्विंशत्युत्तरशतभागाः सप्तचत्वारिंशत्, तत्र चतुर्भिर्भागैरेकस्य च भागस्य चतुर्भिस्त्रिंशद्भागैर्मुहूर्तो भवति, तथाहि
}
7
एकस्मिन्नहोरात्रे त्रिंशन्मुहूर्त्ता अहोरात्रे च चतुर्विंशत्युत्तरं शतं भागानां कल्पितमास्ते, ततस्तस्य चतुर्विंशत्युत्तरशतस्य त्रिंशता भागे हृते लब्धाश्चत्वारो भागाः एकस्य च भागस्य सत्काश्चत्वारस्त्रिंशदभागास्तत्र पञ्चचत्वारिंशद्भागैरेकस्य च भागस्य सत्कैश्चतुर्दशभिस्त्रिंशद्भागैरेकादश मुहूर्त्ता लब्धाः, शेषस्तिष्ठत्येको भाग एकस्य च भागस्य सत्काः षोडश त्रिंशद्भागाः, किमुक्तं भवति ? - षट्चत्वारिंशत्रिंशद्भागा एकस्य भागस्य सत्काः शेषास्तिष्ठन्ति, ते च किल मुहूर्त्तस्य चतुर्विंशत्युत्तरशतभागरूपास्ततः षट्चत्वारिंशतश्चतुर्विंशत्युत्तरशतस्य च द्विकेनापवर्त्तना क्रियते, लब्धा मुहूर्त्तस्य द्वाषष्टिभागास्त्रयोविंशति, उक्तं चैतदन्यत्रापि
|| 9 || "तत्थ पडिमिज्जमाणे पंचहिं माणेहिं सव्वगणिएहिं ।
मासेहिं विभज्जंता जइ मासा होंति ते वोच्छं ||"
अत्र 'तत्थे 'ति तत्र, 'पंचहिं माणेहि' त्ति पंचभिर्मानैः - मानसंवत्सरैः - प्रमाणसंवत्सरैरादित्य
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International