SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १७४ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२०/७७ चुण्णिया भागा सेसा, तं समयं च णं सूरे केण नक्खत्तेणं जोएइ ?, ता पुव्वाहिं फग्गुणीहिं पुव्वाणं फग्गुणीणं अट्ठावीसं च मुहुत्ता अठ्ठावी (त्ती) संच बावठ्ठिभागा मुहुत्तस्स बावट्टिभागं च सत्तट्ठिहा छेत्ता बत्तीसं चुण्णिया भागा सेसा " इति । तथा यदिचतुर्विंशत्यधिकेन पर्वशतेन पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते ततस्त्रभि किं लभामहे अत्रान्त्येन राशिना त्रिकलक्षणेन मध्यो राशि पञ्चकरूपो गुण्यते, जाताः पञ्चदश, तेषमाद्येन राशिना भागहरणं, तत्र राशेः स्तोकत्वाद् भागो न लभ्यते, ततो नक्षत्रानयनार्थमष्टादशभि शतैस्त्रिंशदधिकैः सप्तषष्टिभागैर्गुणयिष्याम इति गुण- कारच्छेदराश्योरर्द्धनापवर्त्तना, जातो गुणकारराशिर्नव शतानि पञ्चदशोत्तराणि, छेदराशिद्वषष्टि, तत्र नवभि शतैः पञ्चदशोत्तरैः पञ्चदश गुण्यन्ते, जातानि त्रयोदश सहस्राणि सप्त शतानि पञ्चविंशत्यधिकानि, तेभ्यः सप्तविंशति शतान्यष्टाविंशत्यधिकानि पुष्य- सत्कानि शोध्यन्ते, स्थितानि पश्चाद्दश सहस्राणि नव शतानि सप्तनवत्यधिकानि, छेदराशिर्द्वाषष्टिरूपः सप्तषष्ट्या गुणितो जातान्येकचत्वारिंशच्छतानि चतुष्पञ्चाशदधिकानि तैर्भागो हियते लब्धे द्वे नक्षत्रे २, ते चाश्लेषामघारूपे, अश्लेषानक्षत्रं चार्द्धक्षेत्रमित्येतद्गताः पञ्चदश सूर्यमुहूर्ता उद्धरिता वेदितव्याः । 1 7 शेषाणि तिष्ठन्ति षडूविंशति शतानि नवाशीत्यधिकानि, एतानि मुहूर्त्तानयनार्थं त्रिंशता गुण्यन्ते, जातान्यशीतिसहस्राणि षट् शतानि सप्तत्यधिकानि तेषां छेदराशिना भागो हियते, धा एकोनविंशतिर्मुहूर्त्ताः, शेषाण्यवतिष्ठन्ते सप्तदश शतानि चतुश्चत्वारिंशदधिकानि, एतनि द्वाषष्टिभागानयनार्थं द्वाषष्ट्या गुणयितव्यानीति गुणकार च्छेदराश्योर्द्वाषष्ट्याऽपवर्त्तना, जातो गुणकारराशिरेकरूपः छेदराशि सप्तषष्टि, तत्रोपरितनो राशिरेकेन गुणितस्तावानेव जातः तस्य सप्तषष्ट्या भागो हियते, लब्धाः षड्विंशति द्वषष्टिभागा एकस्य च द्वाषष्टिभागस्य द्वौ सप्तषष्टिभागौ । तत्र ये लब्धा एकोनविंशतिर्मुहूर्ताः ये चोद्धरिताः पाश्चात्याः पञ्चदश मुहूर्त्तास्ते एकत्र मील्यन्ते, जाताश्चतुस्त्रशन्मुहूर्त्ताः, तत्र त्रिंशता पूर्वफाल्गुनी शुद्धा, शेषास्तिष्ठन्ति चत्वारो मुहूर्ताः तत आगतं तृतीयं पर्व भाद्रपदगतामावास्यारूपं उत्तराफाल्गुनीनक्षत्रस्य चतुरो मुहूर्तानकस्य च मुहूर्तस्य षडविंशति द्वाषष्टिभागानेकस्य च द्वाषष्टिभागस्य द्वौ सप्तषष्टिभागौ भुक्त्वा सूर्य परिसमापयति, तथा च वक्ष्यति } ता 'ता एएसि गं पंचन्हं संवच्छराणं दोघं अमावासं चंदे केणं नक्खत्तेणं जोएइ ?, ता उत्तराहिं फग्गुणीहिं, उत्तरफग्गुणीणं चत्तालीसं मुहुत्ता पन्नत्तीसं बावट्टिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिा छेत्ता पण्णी चुण्णिया भागा सेसा, तं समयं च णं सूरे केणं नक्खत्तेणं जोएइ ?, उत्तराहिं चैव फग्गुणीहिं, उत्तराणं फग्गुणीणं चत्तालीसं मुहुत्ता पणतीसं च बावट्ठिभागा मुहुत्तस्स बावट्टिभागं च सत्तठ्ठिहा छेत्ता पण्णठ्ठी चुण्णिया भागा सेसा" इति, एवं शेषपर्वसमापकान्यपि सूर्यनक्षत्राण्यानेतव्यानि । अथवेदं पर्वसु सूर्यनक्षत्रपरिज्ञानार्थं पूर्वाचार्योपदर्शितं करणंतित्तीसं च मुहुत्ता बिसट्ठि भागो य दो मुहुत्तस्स । चुत्ती चुण्णियभागा पव्वीकया रिक्खधुवरासी ॥ इच्छापव्वगुणाओ धुवरासीओ य सोहणं कुणसु । पूसाईणं कमसो जह दिट्ठमणंतनाणीहिं ॥ उगवीसं च मुहुत्ता तेयालीसं बिसट्ठिभागाय ! 119 11 For Private & Personal Use Only ॥२ ॥ ॥३॥ Jain Education International www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy