SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ प्राभृतं १०, प्राभृतप्राभृतं - २० १७३ " पञ्चपञ्चाशत्सहस्राणि चत्वारि शतानि दशोत्तराणि तेषां प्रागुक्तेन छेदराशिना भागो हियते, लव्धास्त्रयोदश मुहूर्त्ताः शेषाणि तिष्ठन्ति चतुर्द्दश शतान्यष्टोत्तराणि ततोऽमूनि द्वापष्टिभागानयनार्थं द्वाषष्ट्या गुणवितव्यानीति गुणकारच्छेदराश्योद्वषिष्ट्याऽपवर्त्तना, तत्र गुणकारराशिरेककरूपश्छेदराशि सप्तषष्टिरूपस्तत्र एकेन गुणितो राशिस्तावानेव जातः, तस्य सप्तषष्ट्या भागो हियते, लब्धा एकविंशतिः- द्वाषष्टिभागा मुहूर्त्तस्य एकस्य च द्वापष्टिभागस्य एकः सप्तषष्टिभागः, तत आगतं युगस्यादौ प्रथमं पर्व अमावास्यालक्षण- मश्लेपानक्षत्रस्य त्रयोदश मुहूर्तानेकस्य च मुहूर्तस्य एकविंशतिं द्वाषष्टिभागानेकस्य च द्वाषष्टिभागस्य एकं सतषष्टिभागं भुक्त्वा सूर्य समापयति, तथा च वक्ष्यति - 'ता एएसि णं पंचण्हं संवच्छराणं पढमं अमावासं चंदे केण नक्खत्तेणं जोएइ ?, ता असिलेसाहि, असिलेसाणं एकमुहुत्ते चत्तालीसं बावट्ठिभागा मुहुत्तस्स वावद्विभागं च सत्ताट्टहा छित्ता छावट्टि चुण्णिआ सेसा । तं समयं च णं सूरे केणं नक्खत्तेणं जोएइ ?, ता असिलेसाहिं चेव, असिलेसाणं एको मुहुत्तो चत्तालीसं बावट्ठभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिा छेत्ता छावट्टी चुण्णिया सेसा' इति तथा यदि चतुर्विंशत्यधिकेन पर्वशतेन पञ्च सूर्यनक्षत्रपर्याचा लभ्यन्ते ततो द्वाभ्यां पर्वभ्यां किं लभामहे ? अत्रान्त्येन राशिना द्विकलक्षणेन मध्यराशि पञ्चकरूपो गुण्यते, जाता दश, तेषामाद्येन राशिना भागहरणं, ते च स्तोकत्वा द्भागं न प्रयच्छन्ति, ततो नक्षत्रानयनार्धमष्टादशभिः शतैस्त्रशदधिकैर्गुणयितव्या इति, गुणकारच्छेदराश्यो- र्द्धनापवर्त्तना, जातो गुणकारराशिर्नव शतानि पञ्चदशोत्तराणि छेदराशिद्वषष्टि, तत्र नवभि शतैः पञ्चदशीतरैः दश गुण्यन्ते, जातानि एकनवति शतानि पञ्चाशदुत्तराणि तेभ्यः सप्तविंशति शतान्यष्टाविंशत्यधिकानि पुष्यसत्कानि शोध्यन्ते, स्थितानि पश्चाच्चतुःषष्टि शतानि द्वाविंशत्यधिकानि, छेदराशिर्द्वाषष्टिरूपः सप्तषष्ट्या गुण्यते, जातान्येकच - त्वारिंशच्छतानि चतुष्पञ्चाशदधिकानि, तैर्भागो हियत, लव्धमेकं नक्षत्रं, तच्चा श्लेषा- रूपमश्लेषानक्षत्रं चार्द्धक्षेत्रं अत एतद्गताः पञ्चदश पञ्चदश सूर्यमुहूर्त्ता अधिका वेदितव्याः । F 1 1 " शेषाणि तिष्ठन्ति द्वाविंशति शतान्यष्ट्षष्ट्यधिकानि ततो मुहूर्त्तानयनार्थमेतानि त्रिंशता गुण्यन्ते, जातान्यष्टषष्टिसहस्राणि चत्वारिंशदधिकानि तेपां छेदराशिना भागो हियते, लब्धाः पोडश मुहूर्ताः शेषाण्यवतिष्ठन्ते पञ्चदश शतानि षट्सप्तत्यधिकानि तानि द्वाषष्टिभागानयनार्थं द्वापष्ट्या गुणयितव्यानीति गुणकारच्छेदराश्योर्द्वाषष्ट्या ऽपवर्त्तना, जातो गुणकारराशिरेकरूपः छेदराशि सप्तपष्टि, तत्रोपरितनो राशिरेकेन गुणित- स्तावानेव जातः, तस्य सप्तषट्वा भागे हते लव्धास्त्रयोविंशतिर्द्वाषष्टिभागाः २३ एकस्य च द्वाषष्टिभागस्य पञ्चत्रिंशत्सप्तषष्टिभागाः, तत्र ये लब्धाः षोडश मुहूर्त्ता ये चोद्धरिताः पाश्चात्याः पञ्चदश मुहूर्त्तास्ते एकत्र मील्यन्ते, जाता एकत्रिंशत्, तत्र त्रिंशता मधा शुद्धा, पश्चादुद्धरत्येकः सूर्वमुहूर्तः, तत आगतं द्वितीयं पर्व श्रावणमासभावि पौर्णमासीरूपं पूर्वफाल्गनीनक्षत्रस्यैकं मुहूर्तमेकस्य च मुहूर्त्तस्य त्रयोविंशतिं द्वापटिभागानेकस्य च द्वाषष्टिभागस्य पञ्चत्रिंशतं सप्तषष्टि- भागान् भुक्त्वा सूर्य परिसमापयतीति, तथा च वक्ष्यति"ता एएसि णं पंचण्हं संवच्छराणं पढमं पुष्णमासिं चंदे केणं नक्खत्तेणं जोएइ ?, ता धनिट्ठाहिं, धणिट्ठाणं तिन्नि मुहुत्ता एगूणवीसं च वावट्ठिभागा मुहुत्तस्स वावट्टिभागं च सत्तट्ठिहा छेत्ता पण्णट्टी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy