________________
प्राभृतं १०, प्राभृतप्राभृतं-२०
१७५
॥४॥
तेत्तीस चुण्णियाओ पूसस्स य सोहणं एवं॥ उगुयालसयं उत्तरफग्गुं उगुण दो विसाहासु । चत्तारि नवोत्तर उत्तराण साढाण सोज्झाणि ।। सव्वत्थ पुस्ससेसं सोज्झंअभिइस्स चउरउगवीसा।
बावट्ठी छटभागा बत्तीसं चुणिया भागा!! उगुणत्तरपंचसया उत्तरभद्दवय सत्त उगुवीसा ।
रोहिणि अट्टनवोत्तर पुनव्वसंतम्मि सोज्झाणि ।। ॥७॥ अट्ठसवा उगुवीसा विसट्ठिभागा य होंति चउवीसं ।
छावठ्ठी सत्तट्ठिभागा पुसस्स सोहणगं ।। एतेसां क्रमेण व्याख्या-त्रयस्त्रिंशन्मुहूर्त्ता एकस्य च मुहूर्तस्य द्वौ द्वाषष्टिभागावेकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशचूर्णिकाभागाः, एष सर्वेष्वपि पर्वसु पर्वीकृतःएकेन पर्वणा निष्पादित ऋक्षध्रुवराशि-सूर्यनक्षत्रविषयोध्रुवराशि, कथमेतस्योत्पत्तिरितिचेत्, उच्यते, त्रैराशिकात्, तच्चेदं त्रैराशिक-यदि चतुर्विंशत्यधिकेन पर्वशतेन पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते, तत एकेन पर्वणा किं लभामहे ?, अत्रान्त्वेन राशिना मध्य- राशिगुण्यते, जातः स तावानेव, एकेन गुणितं तदेव भवतीति वचनात्, ततः चतुर्विंशत्यधिकेन पर्वशतेन भागो हियते, तत्रोपरितनराशेः स्तोकत्वाद् भागोन लभ्यते, लब्धा एकस्य सूर्यनक्षत्र-पर्यायस्थपञ्च चतुर्विंशत्यधिकशतभागाः, तत्र नक्षत्राणि कुर्म इत्वष्टादशभि शतैः त्रिंशदधिकैः सप्तषष्टिभागैः पञ्च गुणयिष्याम इति गुणकारच्छेदराश्योरनापवर्तना, जातो गुणकारराशिर्नव शतानि पञ्चदशोत्तराणि , छेदराशिषिष्टि, तत्र नवभि शतैः पञ्चदशोत्तरैः पञ्च गुण्यन्ते, जातानि पञ्चचत्वारिंशच्छतानि पञ्चसप्तत्यधिकानि , एतानि मुहूर्तानयनार्थं त्रिंशता गुण्यन्ते, जातमेकं लक्षं सप्तत्रिंशत्सहस्राणि द्वे शते पञ्चाशदधिके ,छेदराशिश्च द्वाषष्टिरूपः सप्तषष्ट्या गुण्यते, जातान्येकचत्वारिंशच्छतानि चतुष्पञ्चाशदधिकानि, तैर्भागो ह्रियतेलब्यास्त्रियस्त्रशन्मुहूर्ताः,शेषं तिष्ठत्यषष्ट्यधिकंशतं, एतद्द्वाषष्टिभागानयनार्थं द्वाषष्ट्या गुणयितव्यमिति गुणकारच्छेदराश्योषिष्ट्याऽपवर्तना, जातो गुणकारराशिरेकरूपश्छेदराशि सप्तषष्टिरूपः, एकेन च गुणितं तदेव भवति, ततोऽष्टषठ्यधिकमेव शतं जातं, तस्य सप्तपट्या भागो हियते, लब्धौ द्वौ द्वाषष्टिभागी, एकस्य चद्वाषष्टिभागस्य चतुस्त्रिंशत्सप्तषष्टिभागा इति।
___ 'इच्छापव्वे त्यादि, इच्छाविषयं यत्पर्व-पर्वसङ्ख्ययानंइच्छापर्वतदगुणो-गुणकारो यस्य ध्रुवराशेस्तस्मात्, किमुक्तं भवति?-ईप्सितं यत्पर्व तत्सङ्ख्यया गुणितात् ध्रुवराशेः पुष्यादीनां नक्षत्राणां क्रमश:-क्रमेण सोधनं कुर्याद्यथा दिष्टं--यथा कथितमनन्तज्ञानिभि, कधं कथितमित्याह-'उगवीसं चे' त्यादि गाथा, एकोनविंशतिर्मुहूर्ता एकस्य च मुहूर्तस्य त्रिचत्वारिंशद् द्वाषष्टिभागा एकस्य द्वाषष्टिभागस्य त्रयस्त्रिंशचूर्णिका भागाः एतद्-एतावप्रमाणं पुष्यशोधनकं, कथमेतावतः पुष्यशोधनकस्योत्पत्तिरिति चेत्, उच्यते, इह पाश्चात्ययुगपरिसमाप्तौ पुष्यस्य त्रयोविंशति सप्तषष्टिभागागताश्चतुश्चत्वारिंशदवतिष्ठन्ते, ततस्तेमुहूर्त्तानयनार्थंत्रिंशता गुण्यन्ते, जातानित्रयोदशशतानि विंशत्यधिकानि,तेषांसप्तषष्ट्या भागोहियते, लब्धा एकोनविंशतिर्मुहूर्ताः, शेषास्तिष्ठति सप्तचत्वारिंशत्, सा द्वाषष्टिभागानयनार्थं द्वाषष्ट्या गुण्यते, जातान्येकोनत्रिंशत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org