________________
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२०/७७
तत्र द्वादशपूर्णमासीपरावर्त्ता यावता कालेन परिसमाप्तिमुपयान्ति तावान् कालविशेषश्चान्द्रः संवत्सरः, उक्तं च- 'पुण्णिमपरियट्टा पुण बारस संवच्छरो हवइ चंदो ।' एकश्च पूर्णमासीपरावर्त्त एकश्चान्द्रमासः, तस्मिंश्च चान्द्रमासे रात्रिन्दिवपरिमाणचिन्तायामेकोनत्रिंशदहोरात्रा द्वात्रिंशच्च द्वापरिभागा रात्रिन्दिवस्य, एतद् द्वादशभिर्गुण्यते, जातानि त्रीणि शतानि चतुष्पञ्चाशदधिकानि रात्रिन्दिवानां द्वादश च द्वाषष्टिभागा रात्रिन्दिवस्य एवं परिमाणश्चान्द्रः संवत्सरः, तथा यस्मिन् संवत्सरेऽधिकमाससम्भवेन त्रयोदश चन्द्रमासा भवन्ति सोऽभिवर्द्धितसंवत्सरः, उक्तं च- "तेरस य चंदमासा एसो अभिवढिओ उ नायव्वो ।
1
एकस्मिंश्चन्द्रमासे अहोरात्रा एकोनत्रिंशद्भवति द्वात्रिंशच्च द्वाषष्टिभागा अहोरात्रस्य, एतच्चानन्तरमेवोक्तं तत एष राशिस्त्रयोदशभिर्गुण्यते, जातानि त्रीण्यहोरात्रशतानि त्र्यशीत्यधिकानि चतुश्चत्वारिंशच्च द्वाषष्टिभागा अहोरात्रस्य, एतावदहोरात्रप्रमाणोऽभिवर्द्धितसंवत्सर उपजायते । कथमधिकमाससम्भवो येनाभिवर्द्धितसंवत्सर उपजायते ? कियता वा कालेन सम्भवतीति उच्यते, इह युगं चन्द्रचन्द्राभिवर्द्धितचन्द्राभिवर्द्धितरूपपञ्चसंवत्सरं सूर्यसंवत्सरापेक्षया परिभाव्यमानमन्यूनातिरिक्तानि पञ्च वर्षाणि भवन्ति, सूर्यमासश्च सार्द्धत्रिंशदहोरात्रप्रमाणञ्चन्द्रमास एकोनत्रिंशद्दिनानि द्वात्रिंशच द्वाषष्टिभागा दिनस्य ततो गणितसम्भावनया सूर्यसंवत्सरसत्कत्रिंशन्मासातिक्रमे एकश्चन्द्रमासोऽधिको लभ्यते, सच यथा लभ्यते तथा ( ज्ञापनाय ) पूर्वाचार्यप्रदर्शितयं करणगाथा
॥१॥
'चंदस्स जो विसेसो आइचस्स य हविज मासस्स । तीसइगुणिओ संतो हव हु अहिमासगो एक्को ।
अस्या अक्षरगमनिका - आदित्यसंवत्सरसम्बन्धिनो मासस्य मध्यात् चन्द्रस्य - चन्द्रमासस्य यो भवति विश्लेष, इह विश्लेषे कृते सति यदवशिष्यते दप्युपचाराद्विश्लेषः, स त्रिंशता गुणितः सन् भवत्येकोऽधिकमासः, तत्र सूर्यमासपरिमाणात् सार्द्धत्रिंशदहोरात्ररूपाच्चन्द्रमासपरिमाणमेकोनत्रिंशद्दिनानि द्वात्रिंशच्च द्वाषष्टिभागा दिनस्येत्येवंरूपं शोध्यते, ततः स्थितं पश्चाद्दिनमेकमेकेन द्वापष्टिभागास्ते त्रिंशद्दिनेभ्यः शोध्यन्ते ततः स्थितानि शेषाणि एकोनत्रिंशद्दिनानि द्वात्रिंशच्च द्वाषष्टिभागादिनस्य, एतावत्परिमाणश्चान्द्रो मास इति भवति सूर्यसंवत्सरसत्कत्रिंशन्मासातिक्रमे एकोऽधिकमासी, युगे च सूर्यमासाः षष्टिस्ततो भूयोऽपि सूर्यसंवत्सरसत्कत्रिंशन्मासातिक्रमे द्वितीयोऽधिकमासो भवति, उक्तं च
१६४
119 11 "सठ्ठीए अइयाए हवइ हु अहिमासगो जुगद्धमि । बावीसे पव्वस हवइ य बीओ जुगद्धमि ।।"
अस्याप्यक्षरगमनिका - एकस्मिन् युगेऽनन्तरोदितस्वरूपे पर्वणां - पक्षाणां षष्टी अतीतायां, पष्टिसङ्घयेषु पक्षेष्वतिक्रान्तेषु इत्यर्थः, एतस्मिन्नवसरे युगार्द्धेषु युगार्द्धप्रमाणे एकोऽधिकमासो भवति, द्वितीयस्त्वधिकमासोद्वाविंशे-द्वाविंशत्यधिके पर्वशते पक्षशतेऽतिक्रान्ते युगस्यान्तेयुगस्य पर्यवसाने भवति, तेन युगमध्ये तृतीये वत्सरेऽधिकमासः पञ्चमे वेति द्वौ युगेऽभिवर्द्धितसंवत्सरौ । सम्प्रति युगे सर्वसङ्घयया यावन्ति पर्वाणि भवन्ति तावन्ति निर्द्दिदिक्षु प्रतिवर्षं पर्वस
ह्वयामाह
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org