SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ प्राभृतं १०, प्राभृतप्रामृतं - २० १६३ मू. (७५) ताकतिणंभंते! संवच्छरे आहितातिवदेजा?, तापंच संवच्छराआहितेतिवदेज्जा, तं०-नक्खत्तसंवच्छरे जुगसंवच्छरे पमाणसंवच्छरे लक्खणसंवच्छरे सनिच्छरसंवच्छरे । वृ. 'ता कइणमित्यादि, ताइतिपूर्ववत्, कति-किंसङ्ख्याःणमिति वाक्यालङ्कारे संवत्सरा आख्याता इति वदेत् ? भगवानाह--‘ता इत्यादि, ता इति प्राग्वत्, पञ्च संवत्सराआख्याता इति वदेत्, तद्यथा-नक्षत्रसंवत्सर इत्यादि, तत्र यावता कालेनाष्टाविंशत्यापिनक्षत्रैः सह क्रमेण योगपरिसमाप्तिस्तावान् कालविशेषो द्वादशभिर्गुणितो नक्षत्रसंवत्सरः, उक्तं च-“नक्खत्तचंदजोगो बारसगुणिओयनक्खत्तो' अत्रपुनरेकोनितनक्षत्रपर्याययोगएकोनक्षत्रमासः सप्तविंशतिरहोरात्रा एकविंशतिश्च सप्तषष्टिभागा सप्तषष्टभागा अहोरात्रस्य, एष राशिर्यदा द्वादशभिर्गुण्यते तदा त्रीण्यहोरात्रशतानि सप्तविंशत्यधिकानि एकपञ्चाशच सप्तषष्टिभागा अहोरात्रस्य एतावत्प्रमाणो नक्षत्रसंवत्सरः । युगं पञ्चवर्षात्मकंततपूरकः संवत्सरोयुगसंवत्सरः । युगस्य प्रमाणहेतुः संवत्सरः प्रमाण-संवत्सरः । लक्षणेन यथावस्थितेनोपेतः संवत्सरो लक्षणसंवत्सरः। शनैश्चरनिष्पादितः संवत्सरः शनैश्चरसंवत्सरः शनैश्वर सम्भवः । तदेवं पञ्चापि शनैश्चर संवत्सरान् नामतः प्रतिपाद्य सम्प्रत्येतेषामेव संवत्सराणां यथाक्रमं भेदानाह म. (७६) ता नक्खत्तसंवच्छरे णंदुवालसविहे पन्नत्ते, सावणे भद्दवए जाव आसाढे, जं वा वहस्सतीमहग्गहे दुवालसहिं संवच्छरेहिं सव्वं नक्खत्तमंडलं समाणेति ।। वृ. 'ता नक्खत्ते त्यादि, ताइतिप्राग्वत्नक्षत्रसंवत्सरो द्वादशविधो-द्वादशप्रकारः, तद्यथा'श्रावणो भाद्रपद'इतयादि, इह एकः समस्तनक्षत्रयोगपर्यायो द्वादशभिर्गुणितो नक्षत्रसंवत्सरः, ततो ये नक्षत्रसंवत्सरस्य पूरका द्वादश समस्तनक्षत्रयोगपर्यायाः श्रावणभाद्रपदादिनामानस्तेऽप्यवयवे समुदायोपचारात् नक्षत्रसंवत्सरः, ततः श्रावणादिभेदात् द्वादशविधो नक्षत्रसंवत्सरः जवे'त्यादि, वाशब्दः पक्षान्तरसूचने, अथवायत्सर्व-समस्तंनक्षत्रमण्डलं बृहस्पतिर्महाग्रहो योगमधिकृत्य द्वादशभि संवत्सरैः सामनयति--परिभ्रमन् समापयति एष नक्षत्रसंवत्सरः, किमुक्तं भवति ?-यावता कालेन बृहस्पतिनामा भहाग्रहो योगमधिकृत्याभिजिदादीन्यष्टाविंशतिमपि नक्षत्राणि परिसमापयति तावान् कालविशेषो द्वादशवर्षप्रमाणो नक्षत्रसंवत्सरः। मू. (७७) ता जुगसंवच्छरेणं पंचविहे पन्नत्ते, तं०-चंदे चंदे अभिवष्टिए चंदे अभिवड्डिए चेव, ता पढमस्स णं चंदस्स संवच्छरस्स चउवीसं पव्वा पं०, दोबस्स णं चंदसंवच्छरस्स चउवीसं पव्या पं० । तच्चस्स णं अभिववितसंवच्छरस्स छव्वीसं पव्वा पं०, चउत्थस्स णं चंदसंवच्छरस्स चउवीसंपव्वा पं०, पंचमस्स णं अभिवष्ट्वियसंवच्छरस्स छब्बीसंपव्वापन्नत्ता, एवामेव सपुव्वावरेणं पंचसंवच्छरिए जुगे एगे चउवीसे पव्वसते भवतीति मक्खातं । वृ. 'ता जुगसंवच्छरे नमित्यादि, युगसंवत्सरो-युगपूरकः संवत्सरः पञ्चविधः प्रज्ञप्तः, तद्यथा-चान्द्रश्चान्द्रोऽभिवर्द्धितश्चान्द्रोऽभिवर्द्धितश्चैव, उक्तं च-- ॥१॥ "चंदो चंदो अभिवडिओ यचंदोऽभिवहिओचेव। पंचसहियं जुगमिणं दिहें तेलोक्कदंसीहिं ।। ॥२॥ पढमबिइया उ चंदा तइयं अभिवड्दियं वियाणाहि । चंदं चेव चउत्थं पंचममभिवड्डियं जाण ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy