SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १६२ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/१८/७१ किंप्रमाणया सङ्ख्यया भगवन् ! त्वयाआदित्यचाराआख्याता इतिवदेत् ?, भगवानाह- ‘पंचसंवच्छरिए न मित्यादि, ता इति पूर्ववत्, पञ्चसांवत्सरिके-चन्द्रादिपञ्चसंवत्सरप्रमाणे युगे-युगमध्येऽभिजन्नक्षत्रं पञ्च चारान् यावत् सूर्येण सह योगं युनक्ति, अत्राप्ययं भावार्थ- अभिजिता नक्षत्रेण संयुक्तः सूर्यो युगमध्ये पञ्चसङ्घयान्चारान् चरति, कथमेतदवगम्यते इति चेत्, उच्यते, इह योगमधिकृत्य सूर्यस्य सकलनक्षत्रमण्डलीपरिसमाप्तिरेकेन सूर्यसंवत्सरेण, सूर्यसंवत्सराश्च युगे भवन्ति पञ्च, ततः प्रतिनक्षत्रपर्यायमेकैकं वारमभिजिता नक्षत्रेण सह योगस्य सम्भवात् घटतेऽभिजिता नक्षत्रेण सह संयुक्तः सूर्यो युगेपञ्च चारान् चरति, एवं शेषनक्षत्रेष्वपि भावनाभा० प्राभृतं-१०, प्राभृतप्राभृतं-१८ समाप्तम् प्राभृतप्रामृतं-१९:वृ.तदेवमुक्तं दशमस्य प्राभृतस्याष्टादशंप्राभृतप्राभृतं, साम्प्रतमेकोनविंशतितममारभ्यते, तस्य चायमर्थाधिकारः- 'भासप्ररूपणा कर्तव्ये ति, ततस्तद्विषयं प्रश्नसूत्रमाह मू. (७२) ता कहं ते मासा आहताति वदेजा ?, ता एगमेगस्सणं संवच्छस्सबारस मासा पन्नता, तेसिं च दुविहा नामधेजा पन्नत्ता, तं०-लोइया लोउत्तरिया य, तत्थ लोइया नामा सावणे भद्दवते आसोए जाव आसाढे, लोउत्तरिया नामा व. ‘ता कहं ते' इत्यादि, पूर्ववत्, कथं?-केन प्रकारेण कया नाम्नां परिपाट्या इत्यर्थ भगवन् ! त्वया मासानां नामधेयानि आख्यातानीति वदेत्, भगवानाह “एगमेगस्स ण मित्यादि, ता इति पूर्ववत्, एकैकस्य संवत्सरस्य द्वादश मासाः प्रज्ञप्ताः, तेषां च द्वादशानामपि मासानां नामधेयानि द्विविधानि प्रज्ञप्तानि-लौकिकानि लोकोत्तराणिच, तत्र लोके प्रसिद्धानि लौकिकानि, लोकादुत्तराणि यानि न लोके प्रसिद्धानि किन्तु प्रवचन एव तानि लोकोत्तराणि, तत् लौकिकलोकोत्तराणां मध्यो लौकिकानि नामान्यमूनि, तद्यथा- 'श्रावणो भाद्रपद' इत्यादि, लोकोत्तराणि नामान्यमूनि, तद्यथामू. (७३) अभिनंदे सुपइढे य, विजये पीतिवद्धणे। सेजसे य सिवे यावि, सिसिरेवि य हेमवं ।। मू. (७४) नवमे वसंतमासे, दसमे कुसुमसंभवे। एकासमे निदाहो, वणविरोही य बारसे ।। वृ.प्रथमः श्रावणरूपोमासोऽभिनन्दः द्वितीयः सुप्रतिष्ठः तृतीयो विजयः चतुर्थप्रीतिवर्द्धनः पञ्चमःश्रेयान् षष्ठः शिवः सप्तमः शिशिरः अष्टमो हैमवान् नवमोवसन्तमासः दशमः कुसुमसम्भवः एकादशो निदाघः द्वादशो वनविरोधी ॥ प्राभृतं-१०, प्राभृतप्राभृतं-१९ समाप्तम् प्राभृतप्राभृतं-२०:वृ. तदेवमुक्तं दशमस्य प्राभृतस्य एकोनविंशतितमं प्राभृतप्राभृतं, सम्प्रति विंशतितममारभ्यते, तस्य चायमर्थाधिकार:--'यथा पञ्च संवत्सराः प्रतिपाद्या' इति, ततस्तद्विषयं प्रश्नसूत्रमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy