SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १४८ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/११/५५ तानि चन्द्रमण्डलानि यानि सदा नक्षत्रैरविरहितानि, तथा सन्ति तानि चन्द्रमण्डलानियानि सदा नक्षत्रैर्विरहितानि, तथा सन्ति तानि चन्द्रमण्डलानि यानि रविशशिनक्षत्राणां सामान्यानिसाधारणानि, किमुक्तं भवति?-रविरपि तेषु मण्डलेषु गच्छति शश्यपि नक्षत्राण्यपीति, तथा सन्ति तानिचन्द्रमण्डलानियानि सदाआदित्याभ्यां सूत्रे द्वित्वेऽपिबहुवचनं प्राकृतत्वात् विरहितानि, येषुन कदाचिदपि द्वयोः सूर्ययोर्मध्ये एकोऽपि सूर्योगच्छतीतिभावः, एवं भगवता सामान्येनोक्ते भगवान् गौतमोविशेषावगमननिमित्तंभूयः प्रश्नयति-ताएएसिणमित्यादिसुगम, भगवानाह'ता एएसिण मित्यादि, ताइति पूर्ववत् एतेषांपञ्चदशानांचन्द्रमण्डलानांमध्येयानि तानिचन्द्रमण्डलानि यानि णमिति प्राग्वत् सदा नक्षत्रैरविरहितानितान्यष्टौ, तद्यथा- 'पढमे चंदमंडले' इत्यादि, तत्र प्रथमे चन्द्रमण्डले अभिजिदादीनि द्वादश नक्षत्राणि, तथा च तत्सङग्रहणिगाथा॥१॥ 'अभिई सवण धनिट्ठा सयभिसया दो य होति भद्दवया । रेवइ अस्सिणी भरणी दो फग्गुणि साइ पढमंमि॥ तृतीयेचन्द्रमण्डले पुनर्वसुमघेषष्ठेचन्द्रमण्डले कृत्तिकासप्तमे रोहिणीचित्रे अष्टमे विशाखा दशमे अनुराधा एकादषे ज्येष्ठा पञ्चदशे मृगशिर आर्द्रापुष्यौ अश्लेषा हस्तो मूलः पूर्वाषाढा उत्तराषाढाच, तत्राद्यानिषट् नक्षत्राणि यद्यपि पञ्चदशस्य मण्डलस्य बहिश्चारं चरन्ति तथापि तानि तस्य प्रत्यासन्नानीति तत्र गण्यन्ते, ततो न कश्चिद्विरोधः, तथा तत्र-तेषां पञ्चदशानां चन्द्रमण्डलानां मध्ये यानि तानि चन्द्रमण्डलानि यानि सदा नक्षत्रैविरहितानि तानि सप्त, तद्यथा-द्वितीयं चन्द्रमण्डलमित्यादि, तथा तत्र-तेषां पञ्चदशानां चन्द्रमण्डलानां मध्ये यानि तानि चन्द्रमण्डलानि रविशशिनक्षत्राणां सामान्यानि भवन्ति तानि णमिति प्राग्वत् चत्वारि, तद्यथा- 'पढमे चंदमंडले' इत्यादि, तथा तत्र-तेषां पञ्चदशानां चन्द्रमण्डलानां मध्ये यानि तानि चन्द्रमण्डलानियानिसदा आदित्याभ्यां विरहितानितानि पञ्च, तद्यथा-'छट्टेचंदमंडले' इत्यादि सुगम, एतद्भणनाच्च यान्यभ्यन्तराणि पञ्च चन्द्रमण्डलानि, तद्यथाप्रथम द्वितीयं ततीयं चतुर्थं पञ्चमं, यानि च सर्वबाह्यानि चन्द्रमण्डलानि, तद्यथा-एकादशं द्वादशं त्रयोदशं चतुर्दशं पञ्चद-शमित्येतानि दश सूर्यस्यापि साधारणानीति गम्यते, तथा चोक्तमन्यत्र-- ॥१॥ दस चेव मंडलाइं अभितरबाहिरा रविससीणं । सामन्नाणि उ नियमा पत्तेया होति सेसाणि ॥' अस्याक्षरगमनिकापञ्चाभ्यन्तराणि पञ्च बाह्यानि सर्वसङ्ख्यया दश मण्डलानि नियमानविशशिनोः सामान्यानि-साधारणानि, शेषाणि तुवानि चन्द्रमण्डलानि षडादीनि दशपर्यन्तानि तानिप्रत्येकानि-असाधारणानिचन्द्रस्य, तेषुचन्द्र एव गच्छति नतुजातुचिदपि सूर्य इति भावः, इह किं चन्द्रमण्डलं कियता भागेन सूर्यमण्डलेन नस्पृश्यन्ते इति चिन्तायां विभागोपदर्शनं पूर्वाचार्य कृतं, ततस्तद्विनेयजनानुग्रहायोपदयते तत्र प्रथमत एतद्विभावनार्थं विकम्पक्षेत्रकाष्ठा निरूप्यते, इह सूर्यस्य विकम्पक्षेत्रकाष्ठा पञ्च योजनशतानि दशोत्तराणि, तथाहि-यदि सूर्यस्यैकेनाहोरात्रेण विकम्पो द्वे योजने एकस्वच योजनस्याष्टाचत्वारिंशदेकषष्टिभागालभ्यन्ते, ततस्त्रयशीत्यधिकेनाहोरात्रशतेन किं लभामहे?, अत्र सवर्णनार्थं द्वेयोजने एकषष्ट्या गुण्यते, गुणयित्वा चोपरितना अष्टाचत्वारिंशदेकषष्टिभागाः प्रक्षिप्यन्ते, ततोजातंसप्तत्यधिकंशतं, एतत्र्यशीत्यधिकेन शतेना www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy