________________
प्राभृतं १०, प्राभृतप्रामृतं - ११
१४९
न्यराशिना गुण्यते, जातान्येकत्रिंशत् सहस्राणिशतमेकंदशोत्तरं, तत एतस्य राशेर्योजनानयनार्थमेकषष्टया भागोहियते, लब्धानिपञ्च योजनशतानिदशोत्तराणि, एतावती सूर्यस्य विकम्पक्षेत्रकाष्ठा, चन्द्रमसः पुनर्चिक म्पक्षेत्रकाष्ठा पञ्च योजनशतानि नवोत्तराणि एकस्य च योजनस्य त्रिपञ्चाशदेकषष्टिभागाः ।
तथाहि-यदि चन्द्रमस एकेनाहोरात्रेण विकम्पः षट्त्रिंशद्योजनानि एकस्य च योजनस्य पञ्चविंशतिरेकषष्टिभागा एकस्य च एकषष्टिभागस्य चत्वारः सप्तभागा लभ्यन्तेततश्चतुर्दशभिरहोरात्रेः किं लभामहे?,अत्र सवर्णनार्थं प्रथमतः षटत्रिंशतं एकषष्ट्या गुण्यतेगुणयित्वा चोपरितनाः पञ्चविंशतिरेकषष्टिभागास्तत्र प्रक्षिप्यन्ते, जातानि द्वाविंशतिशतानिएकविंशत्यधिकानि, एतानि सप्तभिर्गुण्यन्ते, गुणयित्वा चोपरितनाश्चत्वारः सप्तभागास्तत्र प्रक्षिप्यन्ते, ततो जातानि पञ्चदश सहस्राणि पञ्च शतान्येकपञ्चाशदधिकानि , ततो योजनानयनार्थं छेदराशिरप्येकषष्टिलक्षण: सप्तभिर्गुण्यते, जातानि चत्वारि शतानि सप्तविंश- त्यधिकानि , तत उपरितनो राशिश्चतुईशभिरन्त्यराशिरूपैर्गुण्यते, ततो जातो वे लक्षे सप्तदश सहस्राणि सप्तदशानि चतुर्दशाधिकानि, ततश्छेद्यच्छेदकराश्योः सप्तभिरपवर्तना, जात उपरितनो राशिरेकत्रिंशत्सहस्राणिशतमेकंद्वयुत्तरं छेदराशिरेकषष्टिस्ततस्तया भागे हृते लब्धानि पञ्च योजनशतानि नवोत्तराणि एकस्य च योजनस्य त्रिपञ्चाशदेकषष्टिभागाः एतावती चन्द्रमसो विकम्पक्षेत्रकाष्ठा, सूर्यमण्डलस्य २ च परस्परमन्तरं द्वे द्वे योजने चन्द्रमण्डलस्य चन्द्रण्डलस्य च परस्परं अन्तरं पञ्चत्रिंशद्योजनानि एकस्य च योजनस्य त्रिंशदेकषष्टिभागा एकस्य च एकषष्टिभागस्य चत्वारः सप्तभागाः, उक्तंचजम्बूद्वीपप्रज्ञप्तौ
“सूरमंडलस्स णं भंते ! सूरमंडलस्स एस णं केवइयं अबाहाए अंतरे पन्नत्ते?, गोअमा दो जोयणाई सूरमंडलस्स सूरमंडलरस अबाहाए अंतरे पन्नत्ते” तथा “चंदमंडलस्स णं भंते ! चंदमंडलस्स एस णं केवइए अबाहाए अंतरे पन्नत्ते?, गोयमा ! पनत्तीसे जोयणाई तीसंच एगट्ठिभागा जोअणस्स एगंच एगविभागं सत्तहा छित्ता चत्तारिअचुन्निआभागा सेसा चंदमंडलस्स अवाहाए अंतरे पन्नत्ते" इति, एतदेव च सूर्यमण्डलस्य चन्द्रमण्डलस्य च स्वस्वमण्डलविष्कम्भपरिमाणयुक्तं सूर्यस्य चन्द्रमसश्च विकम्पपरिमाणमवसेयं, तथा चोक्तम्॥१॥ "सूरविकंपो एक्की समंडला होइ मंडलंतरिया ।
चंदविकंपो व तहा समंडला मंडलंतरिया ।।" अस्या गाथाया अक्षरगमनिका-एकः सूर्यविकम्पो भवति ‘मंडलंतरियत्ति अन्तरमेव आन्तर्य, भेषजादित्वात् स्वार्थे यण, ततः स्त्रत्वविक्षायांडीप्रत्यये आन्तरी आन्तर्येव आन्तरिका मण्डलस्य मण्डलस्वान्तरिका मण्डलान्तरिका 'समंडल'त्ति इह मण्डलशब्देन मण्डलविष्कम्भ उच्यते, परिमाणे परिमाणवत उपचारात्, ततः सह मण्डलेन-मण्डलविष्कम्भपरिमाणेन परिमाणेन वर्तते इति समण्डला, किमुक्तंभवति? - एकस्य सूर्यमण्डलान्तरस्य यत्परिमाणं योजनद्वयलक्षणं तदेकसूर्यमण्डलविष्कम्भपरिमाणेन अष्टाचत्वारिंशदेकपष्टिभागलक्षणेन सहितमेकस्य सूर्यमण्डलस्यविकम्पपरिमाणमिति, तथा मण्डलान्तरिकाचन्द्रमण्डलान्तरपरिमाणं पञ्चत्रिंशत् योजनानि एकस्य च योजनस्य त्रिंशदेकषष्टिभागा एकस्य चैकपष्टिभागस्य चत्वारः सप्तभागा इत्येवंरूपं “समंडल'त्ति मण्डलविष्कम्भपरिमाणेन सहिता एकश्चन्द्रविकम्पो भवति, यस्तु
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org