SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ प्राभृतं १०, प्राभृतप्राभृतं - ११ तथा च प्रागेवोक्तम्- 'पुव्वासाढे चउत्तारे पन्नत्ते' इति, तत्र द्वे द्वे तारे सर्वबाह्यस्य पञ्चदशस्य मण्डलस्याभ्यन्तरतो द्वे द्वे बहि, तथा चोक्तं करणविभावनायाम्- “पुव्युत्तराण आसाढाणं दो दो ताराओ अब्भितरओ दो दो बाहिरओ सव्वबाहिरस्स मंडलस्स' इति, ततो ये द्वे द्वे तारे अभ्यन्तरतस्तयोर्मध्येन चन्द्रो गच्छतीति तदपेक्षया प्रमर्द्द योगं युङ्क्तः इत्युच्यते, ये तु द्वे द्वे तारे बहिस्ते चन्द्रस्य पञ्चदशेऽपि मण्डले चारंचरतः सदा दक्षिणदिगव्यवस्थिते ततस्तदपेक्षया दक्षिणेन योगं युक्त इत्युक्तं, सम्प्रत्येतयोरेव प्रमर्द्दयोगभावनार्थं किञ्चिदाह 'ताओ य सव्यबाहिरे' त्यादि, ते च पूर्वाषाढोत्तराषाढारूपे नक्षत्रे चन्द्रेण सह योगमयुङ्क्तां युक्तौ योक्ष्यते वा सदा सर्वबाह्ये मण्डले व्यवस्थिते, ततो यदा पूर्वाषाढोत्तराषाढाभ्यां सह चन्द्रो योगमुपैति तदा नियमतोऽभ्यन्तरतारकाणां मध्येन गच्छतीति तदपेक्षया प्रमर्द्दमपि योगं युङ्क्तं इत्युक्तं, तथा तत्र - तेषामष्टाविंशतेर्नक्षत्राणां मध्ये यत्तन्नक्षत्रं यत्सदा चन्द्रसय प्रमर्द्द - प्रमर्द्दरूपं योगं युनक्ति सा एका ज्येष्ठा । तदेवं मण्डलगत्या परिभ्रमणरूपाश्चन्द्रमार्गा उक्ताः, सम्प्रति मण्डलरूपान् चन्द्रभार्गा- नभिधित्सुः प्रथमतस्तद्विषयं प्रश्नसूत्रमाह १४७ मू. (५५) ता कति ते चंदमंडला प० ?, ता पन्नरस चंदमंडला पं०, ता एएसि णं पन्नरसहं चंदमंडलाणं अत्थि चंदमंडला जे णं सया नक्खत्तेहिं विरहिया, अत्थि चंदमंडला जे णं रविससिणक्खत्ताणं सामन्ना भवति, अत्थि मंडला जे णं सया आदिच्छेहिं विरहिया । ता एतेसि णं पन्नर सण्हं चंदमंडलाणं कयरे चंदमंडला जे णं सता नक्खत्तेहिं अविरहिया, जाव कयरे चंदमंडला जे णं सदा आदिच्चविरहिता ?, ता एतेसि णं पन्नरसहं चंदणंडलाणं तत्थ जे ते चंदमंडला जे गं सदा नक्खत्तेहिं अविरहिता ते णं अट्ठ, तं०- पढमे चंदमंडले ततिए चंदमंडले छडे चंदमंडले सत्तमे चंदमंडले अट्ठमे चंदमंडले दसमे चंदमंडले एकादसे चंदमंडले पन्नरसमे चंदमंडले । तत्थ जे ते चंदमंडला जे णं सदा नक्खत्तेहिं विरहिया ते णं सत्त, तं० - बितिए चंदमंडले चउत्थे चंदमंडले पंचमे चंदमंडले नवमे चंदमंडले बारसमे चंदमंडले तेरसमे चंदमंडले चउद्दसे चंदमंडले । तत्थ जे ते चंदमंडले जे गं ससिरविनक्खत्ताणं समाणा भवंति, ते णं चत्तारि, तंजहा- पढमे चंदमंडले बीए चंदमंडले इक्करसमे चंदमंडले पन्नरसमे चंदमंडले । तत्थ जे ते चंदमंडला जे णं सदा आदिच्चविरहिता ते णं पंच, तं०--छट्टे चंदमंडले सत्तमे चंदमंडले अट्ठमे चंदमंडले नवमे चंदमंडले दसमे चंदमंडले । वृ. ' ताकइण 'मित्यादि, ता इति पूर्ववत्, कतिसङ्ख्यानि णमिति वाक्यालङ्कारे, चन्द्रमण्डलानि प्रज्ञप्तानि ?, भगवानाह - 'ता पन्नरसे त्यादि, ता इति प्राग्वत्, पञ्चदश चन्द्रमण्डलानि प्रज्ञप्तानि, तत्र पञ्च चन्द्रमण्डलानि जम्बूद्वीपे शेषाणि च दश मण्डलानि लवणसमुद्रे, तथा चोक्तं "जंबूद्वीपप्रज्ञप्ती - 'जंबुद्दीवे णं भंते! दीवे केवइयं ओगाहित्ता केवइया चंदमंडला पन्नत्ता ?, गोयमा ! जंबुद्दीवे दीवे असीयं जोयणसयं ओगाहित्ता एत्थ णं पंच चंदमंडला पन्नत्ता, लवणे णं भंते! समुद्दे केवइयं ओगाहित्ता केवइया चंदमंडला पन्नत्ता ?, गोयमा ! लवणे णं समुद्दे तिन्नि तीसाई जोयणसयाई ओगाहित्ता एत्थ णं दस चंदमंडला पन्नत्ता, एवामेव सपुव्वावरेणं जंबुद्दीवे लवणे य पन्नरस चंदमंडला भवन्तीति अक्खायं' 'ता' इत्यादि, 'ता' इति तत्र - एतेषां पञ्चदशानां चन्द्रमण्डलानां मध्ये 'अत्थि' त्ति सन्ति For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy