SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १४६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/११/५४ उत्तरतः प्रमर्द्दतो यदिवा सूर्यनक्षत्रैर्विरहिततया अविरहित तथा चन्द्रस्य मार्गा-चन्द्रस्य मण्डलगत्या परिभ्रमणरूप मण्डलरूपा वा मार्गा आख्याता इति वदेत्, भगवानाह - 'ता एएसि ण' मित्यादि, ता इति पूर्ववत्, एतेषामष्टाविंशतिनक्षत्राणां मध्येऽस्तीति निपातत्वादार्षत्वाद् सन्ति तानि नक्षत्राणि यानि णमिति वाक्यालङ्कारे सदा चन्द्रस्य दक्षिणेन - दक्षिणस्यां दिशि व्यवस्थितानि योगं युञ्जन्ति-कुर्वन्ति, तता सन्ति तानि नक्षत्राणि यानि सदा चन्द्रस्य उत्तरेण- उत्तरस्यां दिशि व्यवस्थितानि योगं युञ्जन्ति, तथा सन्ति तानि नक्षत्राणि यानि चन्द्रस्य दक्षिणस्यामपि दिशि स्थितानि उत्तरस्यामपि दिशि स्थितानि योगं युञ्जन्ति, प्रमर्द्दमपि - प्रमर्द्दरूपमपि योगं कुर्वन्ति तथा सन्ति तानि नक्षत्राणि यानि चन्द्रस्य दक्षिणस्यामपि दिशि व्यवस्थितानि योगं युञ्जन्ति प्रमर्द्दरूपमपि योगं युञ्जन्ति, अस्ति तन्नक्षत्रं यत्सदा चन्द्रस्य प्रमर्द्दरूपं योगं युनक्ति, एवं सामान्येन भगवतोक्ते भगवान् गौतमो विशेषावगमनिमित्तं भूयः प्रश्नयति- 'ता एएसिणमित्यादि, सुगमं, भगवानाह - 'ता एएसि ण' मित्यादि, ता इति पूर्ववत्, एतेषामनन्तरोदितानामष्टाविंशतिनक्षत्राणां मध्ये यानि नक्षत्राणि सदा चन्द्रस्य दक्षिणस्यां दिशि व्यवस्थितानि योगं कुर्वन्ति तानि षट्, तद्यथा--मृगशिर आर्द्रा पुष्योऽश्लेषा हस्तो मूलश्च, एतानि हि सर्वाण्यपि पञ्चदशसय चन्द्रमण्डलस्य बहिश्चारं चरन्ति, तथा चोक्तं करणविभावनायां- 'पन्नरसमस्स चंदमंडलस्स बाहिरओ मिगसिर अद्दा पुस्सो असिलेहा हत्य मुलो य' जम्बूद्वीप-प्रज्ञप्तावप्युक्तम्"संठाण अद्द पुरसोऽसिलेस हत्थो तहेव मूलो य । बाहिरओ बाहिरमंडलस्स छप्पे य नक्खत्ता ॥' ॥ १ ॥ ततः सदैव दक्षिणदिग्व्यवस्थितान्येव तानि चन्द्रेण सह योगं युञ्जन्त्युपपद्यन्ते नान्यथेति, तथा तत्र तेषामष्टाविंशतेर्नक्षत्राणां मध्ये यानि तानि नक्षत्राणि यानि सदा-सर्वकालं चन्द्रस्योत्तरेणउत्तरस्यां दिशि व्यवस्थितानि योग युजन्ति-कुर्वन्ति तानि द्वादश, तद्यथा - 'अभिई' इत्यादि, एतानि हि द्वादशापि नक्षत्राणि सर्वाभ्यन्तरे चन्द्रमण्डले चारं चरन्ति, तथा चोक्तं करणविभावनायां"से पढमे सव्वभंतरे चंदमंडले नक्खत्ता इमे, तंजहा -- अभिई सवणो धणिट्ठा सयभिसया पुव्वभद्दवया उत्तरभद्दवया रेवई अस्सिणी भरणी पुव्वफग्गुणी उत्तरफग्गुणी साई" इति यदा चैतैः सह चन्द्रस्य योगस्तदा स्वभावाच्चन्द्रः शेषेष्वेव मण्डलेषु वर्त्तते, ततः सदैवैतान्युत्तरदिग्व्यवस्थितान्येव चन्द्रमसा सह योगमुपयन्तीति, तथा तत्र तेषामष्टाविंशतेर्नक्षत्राणां मध्ये यानि तानि नक्षत्राणि यानि चन्द्रस्य दक्षिणस्यामपि दिशि व्यवस्थितानि योगं युञ्जन्ति उत्तरस्यामपि दिशि व्यवस्थितानि योगं युञ्जन्ति प्रमर्द्दरूपमपि योगं युञ्जन्ति तानि सप्त, तद्यथा- कृत्तिका रोहिणी पुनर्वसु मघा चित्रा विशाखा अनुराधा, केचित् पुनज्येष्ठानक्षत्रमपि दक्षिणोत्तरप्रमर्द्दयोगि मन्यन्ते, तथा चोक्तं लोकश्रियाम्- 'पुणव्वसु रोहिणिवित्तामह जेट्टणुराह कत्तिय विसाहा' । चंदस्स उभव - जोगी' त्ति, अत्र 'उभयजोगि 'त्ति व्याख्यानयता टीकाकृतोक्तं- एतानि नक्षत्राणि उभययोगीनि - चन्द्रस्योत्तरेण दक्षिणेन च युज्यन्ते, कदाचिद् भेदमप्युपयान्तीति, तच्च वक्ष्यमा ज्येष्ठासूत्रेण सह विरोधीति न प्रमाणं, तथा तत्र तेषामष्टाविंशतेर्नक्षत्राणां मध्ये ये ते नक्षत्रे ये सदा चन्द्रस्य दक्षिणेनापि - दक्षिणस्यामपि दिशि व्यवस्थिते योगं युङ्क्तः, प्रमर्द्दच - प्रमर्द्दरूपं च योगं युक्तः, ते णमिति वाक्यालङ्कारे, द्वे आपाढे पूर्वाषाढोत्तराषाढारूपे, ते हि प्रत्येकं चतुस्तारे, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy