________________
प्राभृतं १०, प्राभृतप्राभृतं - ६
१३१
द्वाषष्टिभागस्य षट्षष्टया सप्तषष्टिभागैरेको नक्षत्रपर्यायः शुद्धयति, स्थितानि पश्चात्रीणि शतानि नवाशीत्यधिकानि मुहूर्तानां एकस्य च मुहूर्त्तस्य चतुःपञ्चाशद् द्वाषष्टिभागाः एकस्य च द्वाषष्टिभागस्य षडविंशति सप्तषष्टिभागाः, ततो भूयस्त्रभिर्नवोत्तरैर्मुहूर्तशतैरेकस्य च मुहूर्त्तस्य चतुर्विंशत्या द्वापष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षटया सप्तषष्टिभागैरभिजिदादीनि रोहिणिकापर्यन्तानि शोध्यन्ते, स्थिताः पश्चान्मुहूर्त्ता अशीति एकस्य च मुहूर्त्तस्य एकोनत्रिंशद् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य सप्तविंशति सप्तषष्टिभागाः, ।
ततस्त्रिंशता मुहूर्तैर्मृगशिरः शुद्धं स्थिताः पश्चात्पञ्चाशन्मुहूर्त्ताः, ततः पञ्चदशभिरार्द्रा शुद्धा, स्थिताः पञ्चत्रिंशत्, आगतं पुनर्वसुनक्षत्रं पञ्चत्रिंशति मुहूर्त्तेषु एकस्य च मुहूर्त्तस्यै- कोनत्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य सप्तविंशतौ सप्तषष्टिभागेषु गतेषु तृतीयां श्राविष्ठीममावास्यां परिसमापयति, एवं चतुर्थी श्राविष्ठीसमावास्यामश्लेषानक्षत्रं प्रथमस्य मुहूर्तस्य सप्तसु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्यैकचत्वारिंशति सप्तषष्टिभागेषु गतेषु परिसमापयति
पञ्चमीं श्राविष्ठीममावास्यां पुष्यनक्षत्रं त्रिषु मुहूर्तेष्वेकस्य मुहूर्तस्य द्विचत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य चतुःपञ्चाशति सप्तषष्टिभागेषु गतेषु । परिणमयति, 'एव' मित्यादि, एवमुक्तेन प्रकारेण एतेन - अनन्तरोदितेन अभिलापेन - आलापकेन शेषमप्यमावास्याजातं नेतव्यं, विशेषमाह - ‘पोट्ठवयं दो नक्खत्ता जोएति,' अत्र चैवं सूत्रपाठ:--'ता पोट्ठवइन्नं अमावासं कइ नक्खत्ता जोति ?, ता दोत्रि नक्खत्ता जोएंति, तंजहापुव्वफग्गुणी उत्तरफग्गुणी य' इदमपि व्यवहारत उच्यते, परमार्थतः पुनस्त्रीणि नक्षत्राणि प्रोष्ठपदीममावास्यां परिसमापयन्ति, तद्यथा - मघा पूर्वफाल्गुनी उत्तरफाल्गुनीच, तत्र प्रथमां प्रोष्ठपदीमभावास्यामुत्तरफाल्गुनीनक्षत्रं चतुर्षु मुहूर्तेषु एकस्य च मुहूर्त्तस्य षड्विंशतौ द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य द्वयोः सप्तषष्टिभागयोः अतिक्रान्तयोः, द्वितीयां प्रोष्ठपदीममावास्यां पूर्वफाल्गुनीनक्षत्रं सप्तसु मुहूर्त्तेष्वेकस्य च मुहूर्तस्य एकषष्टौ द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चदशसु सप्तषष्टिभागेषु गतेषु तृतीयां प्रोष्ठपदीममावास्यां मधानक्षत्रमेकादशसु मुहूर्तेष्वेकस्य च मुहूर्त्तस्य चतुस्त्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्याष्टाविंशतौ सप्तषष्टिभागेषु गतेषु, चतुर्थी प्रोष्ठपदीममावास्यां पूर्वफाल्गुनीनक्षत्रमेकविंशतौ मुहूर्तेष्वेकस्य च मुहूर्त्तस्य द्वादशसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य द्विचत्वारिंशति सप्तषष्टिभागेषु गतेषु पञ्चमीं प्रोष्ठपदीममावास्यां मघानक्षत्रं चतुर्विंशती मुहूर्तेष्वेकस्य च मुहूर्त्तस्य सप्तचत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य पञ्चपञ्चाशति सप्तषष्टिभागेष्यतिक्रन्तेषु । परिसमापयति ।
'आसोइं दोन्नी' त्यादि, अत्राप्येवं पाठः - 'ता आसोइन्नं अमावासं कइ नक्खत्ता जोएंति ता दोन्नि नक्खत्ता जोएंति, तंजहा - हत्थो चित्ता य' एतदपि व्यवहारतो, निश्चयतः पुनराश्वयुजीममावास्यां त्रीणि नक्षत्राणि परिसमापयन्ति, तद्यथा - उत्तरफाल्गुनी हस्तः चित्रा च तत्र प्रथमामाश्वयुजीममावास्यां हस्तनक्षत्रं पञ्चविंशतौ मुहूर्तेष्वेकस्य च मुहूर्त्तस्य एकत्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रिषु सप्तषष्टिभागेषु गतेषु द्वितीयामाश्वयुजीममावास्यामुत्तरफाल्गुनीनक्षत्रं चतुश्चत्वारिंशति मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य चतुर्षु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य षोडशसु सप्तषष्टिभागेषु गतेषु, तृतीया - माश्वयुजीममावास्यां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org