________________
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/६/४८
उत्तरफाल्गुनी नक्षत्रं सप्तदशसु मुहूर्तेषु एकस्य च मुहूर्त्तस्य एकोनचत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य एकोनत्रिंशति सप्तषष्टिभागेषु गतेषु, चतुर्थीमाश्वयुजीममावास्यां हस्तनक्षत्रं द्वादशसु मुहूर्तेषु एकस्य च मुहूर्त्तस्य सप्तदशसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रिचत्वारिंशति सप्तषष्टिभागेषु । गतेषु पञ्चमीमाश्वयुजीममावास्यां उत्तरफाल्गुनीनक्षत्रं त्रिंशति मुहूर्तेषु एकस्य च मुहूर्तस्य द्विपञ्चाशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य चतुःपञ्चाशति सप्तषष्टिभागेषु गतेषु परिसमापयति ।
१३२
'कत्तियन्नं साई विसाहा य’'त्ति, अत्राप्येवं सूत्रपाठ:- 'ता कत्तियन्नं अमावासं कइ नक्खत्ता जोएंति ?, ता दोन्नि नक्खत्ता जोइंति, तंजहा - 'साईविसाहा य'त्ति एतदपि व्यवहारनय-मते, निश्चयतः पुनस्त्रणि नक्षत्राणि कार्त्तिकीममावास्यां परिसमापयन्ति, तद्यथा - स्वातिर्विशाखा चित्रा च, तत्र प्रथमां कार्त्तिकीममावास्यां विशाखानक्षत्रं षोडशसु मुहूर्तेषु एकस्य च मुहूर्तस्य षटत्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य चतुर्षु सप्तषष्टिभागेषु गतेषु, द्वितीयां कार्त्तिकीममावास्यां स्वातिनक्षत्रं पञ्चसु मुहूर्तेष्वेकस्य च मुहूर्तस्य द्वाविंशतौ द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य सप्तदशसु सप्तषष्टिभागेषु गतेषु, तृतीयां कार्त्तिकीममावास्यां चित्रानक्षत्रमष्टसु मुहूर्त्तेषु एकस्य च मुहूर्तस्य चतुश्चत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रिंशति सप्तषष्टिभागेषु गतेषु, चतुर्थी कार्तिकीममावास्यां विशाखानक्षत्रं त्रयोदशसु मुहूर्त्तेषु एकस्य च मुहूर्तस्य द्वाविंशतौ द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य चतुश्चत्वारिंशति सप्तषष्टिभागेषु गतेषु, पञ्चमीं कार्त्तिकीममावास्यां चित्रानक्षत्रं एकविंशतौ मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य सप्तपञ्चाशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य सप्तपञ्चाशति सप्तषष्टिभागेषु गतेषु समाप्तिमुपनयति ।
'मग्गसिरं तिन्नि, तंजहा - अणुराहा जिट्ठा मूलो' इति, – 'ता मग्गसिरं अमावासं कइ नक्खत्ता जति ?, ता तिन्नि नक्खत्ता जोएंति, तंजहा - अनुराहा जिट्ठा मूलो य' इति, एतदपि व्यवहारतो निश्चयतः पुनरिमानि त्रीणि नक्षत्राणि मार्गशीर्षीममावास्यां परिसमापयन्ति, तद्यथा - विशाखा अनुराधा ज्योष्ठा च, तत्र प्रथमां मार्गशीर्षीममावास्यां ज्येष्ठानक्षत्रं सप्तसु मुहूर्तेषु एकस्य च मुहूर्त्तस्यैकचत्वारिंशति द्वाषष्टिभागेष्वेकस्य च मुहूर्त्तस्य चतुर्द्दशसु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्याष्टादशसु सप्तषष्टिभागेषु गतेषु, तृतीयां मार्गशीर्षीममावस्यां विशाखा नक्षत्रमेकोनत्रिंशति मुहूर्तेष्वेकस्य च मुहूर्त्तस्य एकोनपञ्चाशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य एकत्रिंशति सप्तषष्टिभागेष्वतिक्रन्तेषु, चतुर्थी मार्गशीर्षीममावास्यामनुराधानक्षत्रं चतुर्विंशती मुहूर्तेष्वेकस्य च मुहूर्तस्य सप्तविंशतौ द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभा गस्य पञ्चचत्वारिंशति सप्तषष्टिभागेषु गतेषु पञ्चमीं मार्गशीर्षीममावास्यां विशाखानक्षत्रं त्रिचत्वारिंशति मुहूर्तेष्वेकस्य च मुहूर्त्तस्य सम्बन्धिनो द्वाषष्टिभागस्थाष्टापञ्चाशति सप्तषष्टिभागेषु गतेषु । परिस० 'पोसिं च दोन्नि - पुव्वासाढा उत्तरासाढा यत्ति, अत्रैवं सूत्रालापकः 'ता पोसि अमावासं कइ नक्खत्ता जोएंति ?, ता दोन्नि नक्खत्ता जोएंति, तंजहा - पुव्वासाढा य उत्तरासाढा य'त्ति, एतदपि व्यवहारत उक्तं, निश्चयतः पुनस्त्रीणि नक्षत्राणि परिसमापयन्ति, तद्यथा-मूलं पूर्वाषाढा उत्तराषाढा च, तथाहि-प्रथमां पौषीममावास्यां पूर्वाषाढानक्षत्रमष्टाविंशती मुहूर्तेष्वेकस्य च मुहूर्त्तस्य षट्चत्वारिशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य षट्सु सप्तषष्टिभागेषु गतेषु द्वितीयां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org