________________
१३०
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/६/४८ च द्वाषष्टिभागस्य एकः सप्तषष्टिभाग इति प्रमाणो ध्रियते, धृत्वा चैकेन गुण्यते, प्रथमाया अमावास्यायाः पृष्टत्वात्, एकेन गुणितं तदेव भवतीति राशिस्तावानेव जातः, ततस्तस्माद् द्वाविंशतिर्मुहूर्ता एकस्य च मुहूर्त्तस्य षटचत्वारिंशद् द्वाषष्टिभागा इत्येवंपरिमाणं पुनर्वसुशोधनकं शोध्यते, तत्र षट्षष्टेर्मुहूर्तेभ्यो द्वाविंशतिर्मुहूताः शुद्धाः स्थिताः पञ्चाञ्च्चतुश्चत्वारशत्, तेभ्य एक मुहूर्त्तमपकृष्य तस्या द्वाषष्टिर्भागाः क्रियन्ते, कृत्वा च ते द्वाषष्टिभागराशिमध्ये प्रक्षिप्यन्ते, जाताः सप्तषष्टि, तेभ्यः षट्चत्वारिंशत् शुद्धाः, शेषास्तिष्ठन्त्येकविंशति, त्रिचत्वारिंशतो मुहूर्तेभ्यस्त्रिंशता मुहूतैः पुष्यः शुद्धः, स्थिताः पश्चात् त्रयोदश मुहूर्त्ताः, अश्लेषानक्षत्रं च द्विक्षेत्रमिति पञ्चदश मुहूर्त्तप्रमाणं, तत इदमागतं – अश्लेषानक्षत्रमेकस्मिन् मुहूर्त्ते एकस्य च मुहूर्त्तस्य चत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य सप्तषष्टिधाछिन्नस्य षटषष्टिसङ्घयेषु भागेषु शेषेषु प्रथमाऽमावास्या समाप्तिमुपगच्छति, तथा च वक्ष्यति - 'ता एएसिं पंचहं संवच्छराणं पढमं अमावासं चंदे केणं नक्खत्तेणं जोएइ ?, ता असिलेसाहि, असिलेसाणं एक्को मुहुत्तो चत्तालीसं बावठ्ठिभागा मुहुत्तस्स बावट्टिभागं च सत्तट्ठिहा छेत्ता छावट्ठी चुन्नि अभागा सेसा' इति, यदा तु द्वितीयामावास्या चिन्त्यते तदा सा युगस्यादित आरभ्य त्रयोदशीति स ध्रुवराशि ।
त्रयोदशभिर्गुण्यते, जातानि मुहूर्तानामष्टौ शतन्यष्टापञ्चाशदधिकानि एकस्य च मुहूर्त्तस्य पञ्चषष्टिर्द्वापष्टिभागा एकस्य च द्वाषष्टिभागस्य सत्कास्त्रयोदश सप्तषष्टिभागाः, तत्र 'चत्तारिय बायाला अह सोज्झा उत्तरासाढा' इति वचनात् चतुर्भिर्द्विचत्वारिंशदधि- कैर्मुहूर्त्तशतैः षट्चत्वारिंशता च द्वाषष्टिभागैरुत्तराषाढापर्यन्तानि नक्षत्राणि शुद्धानि, स्थितानि पश्चान्मुहूर्तानां चत्वारिशतानि षोडशोत्तराणि एकस्य च मुहूर्त्तस्य एकोनविंशतिर्द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य सत्कास्त्रयोदश सप्तषष्टिभागाः । तत एतस्मात् त्रीणि शतानि नवनवत्यधिकानि मुहूर्त्तानामेकस्य च मुहूर्त्तस्य चतुर्विंश - तिर्द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य षटषष्टि सप्तषष्टिभागाः इति शोधनीयं तत्र षोडशोत्तरेभ्यश्चतुः शतेभ्यः त्रीणि शतानि नवनवत्यधिकानि शुद्धानि, स्थिताः पश्चात् सप्तदश मुहूताः, तेभ्यः एकं मुहूर्त गृहीत्वा तस्य द्वाषष्टिर्भागाः क्रियन्ते, कृत्वा च द्वाषष्टिभागराशी प्रक्षिप्यन्ते, जाता एकाशीति, तस्याश्ञ्चतुर्विंशति शुद्धाः, स्थिताः पश्चात् सप्तपञ्चाशत्, तस्या रूपमेकमादाय सप्तषष्टिर्भागाः क्रियन्ते, तेभ्यः षट्षष्टि शुद्धाः, पश्चादेकोऽवतिष्ठते, स सप्तषष्टिभागराशीप्रक्षिप्यते, जाताश्चतुर्द्दश सप्तषष्टिभागाः आगतं पुष्यनक्षत्रं - षोडशसुमुहूर्तेष्वेकस्य च मुहूर्त्तस्य षट्पञ्चाशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य चतुर्द्दशसु सप्तषष्टिभागेष्वतिक्रन्तेषु द्वितीयं श्राविष्ठीममावास्यां परिसमापयति, यदा तु तृतीया श्राविष्ठयमावास्या चिन्त्यते सा युगादित आरभ्य पञ्चविंशतितमेति स ध्रुवराशि |
ワ
पञ्चविंशत्या गुण्यते, जातानि पोडश शतानि पञ्चाशदधिकानि मुहूर्त्तानां एकस्य च मुहूर्त्तरय पञ्चविंशं द्वापष्टिभागशतं । एकस्य द्वापष्टिभागस्य पञ्चविंशति सप्तषष्टिभागाः ।
तत्र चतुर्भिर्द्विचत्वारिंशदधिकैर्मुहूर्तशतैरेकस्य च मुहूर्त्तस्य पटचत्वारिंशता द्वाषष्टिभागैः प्रथममुत्तराषाढापर्यन्तं शोधनकं शुद्धं स्थितानि पश्चान्मुहूर्तानां द्वादश शतान्यष्टोत्तराणि षष्टिभागाश्च मुहूर्तस्य एकोनाशीति एकस्य च द्वाषष्टिभागस्य पञ्चविंशति सप्तषष्टिभागाः, ततोऽष्टभि शतैरेकोनविंशत्यधिकैः मुहूर्त्तानामेकस्य मुहूर्त्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org