________________
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/४/४६ मित्यभेदोपचारात् तदपि समक्षेत्रमुपकल्प्य समक्षेत्रमित्युक्तं, सातिरेकैकोनचत्वारिंशन्मुहूर्तप्रमाणे, तथाहि - सातिरेका नव मुहूर्त्ता अभिजितास्त्रिशन्मुहूर्त्ताः श्रवणस्येत्युभयमीलने यथोक्तं मुहूर्तपरिमाणं भवति, तठप्रथमतया - चन्द्रयोगस्य प्रथमतया सायं-विकालवेलायां, इह दिवसस्य कतित- माच्चरमाद्भागादारभ्य यावद्रात्रेः कतितमो भागो यावन्नाद्यापि परिस्फुटनक्षत्रमम्डलालोकस्तावान् कालविशेषः सायमिति विवक्षितो द्रष्टव्यः, तस्मिन् सायंसमये चन्द्रेण सार्द्ध योगं युङ्क्तः, इहाभिजिन्नक्षत्रं यद्यपि युगस्यादौ प्रातश्चन्द्रेण सह योगमुपैति तथापि श्रवणेन सह सम्बद्धमिह तद्विवक्षितं श्रवणनक्षत्रं च मध्याह्नादूर्ध्वमपसरति दिवसे चन्द्रेण सह योगमुपादत्ते ततस्तत्साहचर्यात् तदपि सायंसमये चन्द्रेण युज्यमानं विक्षित्वा सामान्यतः सायं चन्द्रेण 'सद्धिं 'जोगं जुंजति' इत्युक्तं, अथवा युगस्यादिमतिरिध्यान्यदा वाहुल्यमधिकृत्येदमुक्तं ततो न कश्चिद्दोषः, 'ततो पच्छा' इत्यादि, पश्चात् - तत ऊर्ध्वं अपरमन्यं सातिरेकं दिवसं यावत्, एतदेवोपसंहारव्याजेन व्यक्तीकरोति
११४
'एवं खलु' इत्यादि, एवमुक्तेन प्रकारेण खल्विति निश्चये अभिजिच्छ्रवणे द्वे नक्षत्रे सायंसमयादारभ्य एकां रात्रिं एकं च सातिरेकं दिवसं चन्द्रेण सार्द्ध योगं युङ्क्तः, एतावन्तं च कालं योगं युक्त्वा तदनन्तरं योगमनुपरिवर्त्तयते, आत्मनश्चयावयत इत्यर्थः, योगं चानुपरिवर्त्य सायं दिवसस्य कतितमे पञ्चाद्भागे चन्द्रं धनिष्ठायाः समर्पयतस्तदवमभिजिच्छ्रवणधनिष्ठाः सायंसमये चन्द्रेण सह प्रथमतो योगं युञ्जन्ति, तेनाभूनि त्रीण्यपि पश्चाद्भागान्यवगन्तव्यानि, 'ता' इत्यादि, ततः समर्पणादनन्तरं धनिष्ठा खलु नक्षत्रं पश्चाद्भागं, सायंसमये तस्य प्रथमतश्चन्द्रेण सह युज्यमानत्वात्, समक्षेत्रं त्रिंशन्मुहूर्त तत्प्रथमतया सायंसमये चन्द्रेण सह योगं युनक्ति, चन्द्रेण सह योगं युक्त्वा ततः सायंसमयादूर्ध्वं ततः पश्चाद्रात्रिमपरं च दिवसं यावद्योगं युनक्ति, एतदेवोपसंहारव्याजेन व्याचष्टे - 'एवं खल्वि' त्यादि सुगमं, यावद्योगमनुपरिवर्त्य सायंसमये चन्द्रं शतभिषजः समर्पयति प्रायः परिस्फुटनक्षत्रमण्डलावलोके, तत इदं नक्षत्रं नक्तंभागं द्रष्टव्यं, तथा चाह - 'ता' इत्यादि, ता इति ततः समर्पणादनन्तरं शतभिषक् नक्षत्रं खलु नक्तंभागमपार्द्धक्षेत्रं पञ्चदशमुहूर्त्त तत्प्रथमतया चन्द्रेण सार्द्ध योगं युनक्ति, तच तथायुक्तं च सन्न लभते अपरं दिवसं, पञ्चदशमुहूर्त्तप्रमाणत्वात्, किन्तु रात्र्यन्तरेव योगमधिकृत्य परिसमाप्तिमुपैति तथा चाह-
'एवं खल्वि' त्यादि सुगमं, यावद्योगमनुपरिवर्त्य प्रातश्चन्द्रं पूर्वयोः प्रोष्ठपदयोः- भाद्रपदयोः समर्पयति, इह पूर्वप्रोष्ठपदानक्षत्रस्य प्रातश्चन्द्रेण सह प्रथमतया योगः प्रवृत्त इतीदं पूर्वभागमुच्यते, तथा चाह-'ता पुव्वे 'त्यादि, ततः समर्पणादनन्तरं पूर्वप्रोष्ठपदानक्षत्रं खलु पूर्वभागं समक्षेत्रं त्रिंशन्मुहूर्त तव्यथमतया प्रातश्चन्द्रेण सह योगं युनक्ति, तच्च तथायुक्तं सत् ततः प्रातः समयादूर्ध्वं तं सकलं दिवसमपरां च रात्रिं यावद्वर्त्तते, एतदेवोपसंहारव्याजेनाह
‘एवं खल्वि' त्यादि सुगमं यावद्योगमनुपरिवर्त्य प्रातश्चन्द्रमुत्तरयोः प्रोष्ठपदयोः समर्पयति, इदं किलोत्तराभद्रपदाख्यं - नक्षत्रमुक्तप्रकारेण प्रातश्चन्द्रेण सह योगमधिगच्छति, केवलं प्रथमान् पञ्चदश मुहूर्तान् अधिकानपनीय समक्षेत्रं कल्पयित्वा यदा योगश्चिन्त्यते तदा नक्तमपि योगोऽस्तीत्युभयभागमवसेयं, तथा चाह- 'ता' इत्यादि, ततः समर्पणादनन्तरं (उत्तरं प्रोष्ठपदानक्षत्रं लूभयभागं द्व्यर्द्धक्षेत्रं पञ्चचत्वारिंशन्मुहूर्त्त तद्यथमतया योगप्रथमतया प्रातञ्चन्द्रेण सार्द्ध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org