SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ प्राभृतं १०, प्राभृतप्राभृतं - ४ ११५ योगं युनक्ति, तच्च तथायुक्तं सत् तं सकलमपि दिवसमपरां च रात्रिं ततः पश्चादपरं दिवसं यावद् वर्त्तते, एतदेवोपसंहारव्याजेन व्यक्तीकरोति यावद्योगमनुपरिवर्त्य सायंसमये चन्द्रं रेवत्याः समर्पयति, तत्र रेवतीनक्षत्रं सायंसमये चन्द्रेण सह योगमधिगच्छति, ततस्तत्पश्चाद्भागमवसेसं, तथा चाह- 'ता रेवई', 'ता' इति ततः समर्पणादनन्तरं शेषं सुगमं, इदंच चन्द्रेण सह युक्तं सत्सायंसमयादूर्द्धं सकलां रात्रिं अपरंच दिवसं यावच्चन्द्रेण सह युक्तमतिष्ठते, तत इदमप्यश्विनीनक्षत्रं सायंसमये चन्द्रेण सह युज्यमानत्वात् पश्चाद्भागमवसेयं, तथा चाह - 'ता' इत्यादि सुगमं, नवरमिदमपि अश्विनीनक्षत्रं समक्षेत्रत्वात् सायंसमयादारभ्य तां सकलां रात्रिमपरं च दिवसं यावच्चन्द्रेण सह युक्तम, एतदेवोपसंहारव्याजेनाह 'एवं खल्वि' त्यादि सुगमं, यावद्योगमनुपरिवर्त्य सायं प्रायः परिस्फुटनक्षत्रमण्डलालोकसमये चन्द्रं भरण्याः समर्पयति, इदं च भरणीनक्षत्रमुक्तयुक्त्या रात्रौ चन्द्रेण सह योगमुपैति, ततो नक्तंभागमवसेयं, तथा चाह- 'ता भरणी' त्यादि, पाठसिद्धं, नवरमिदमपार्द्धक्षेत्रत्वाद्रात्रावेव योगं परिसमापयति, ततो न लभते चन्द्रेण सह युक्तमपरं दिवसं एतदेवोपसंहारव्याजेन परिस्फुटयति- 'एवं खल्वि' त्यादि सुगमं, यावद्योगमनुपरिवर्त्य प्रातश्चन्द्रं कृत्तिकानां समर्पयति, इदं च कृत्तिकानत्रमुक्तयुक्त्या प्रातश्चन्द्रेण सह योगमुपैति, ततः पूर्वभागमवसेयं, एतदेवाह - 'ता कत्तिये' त्यादि सुगमं, नवरमिदं समक्षेत्रत्वात् प्रातः समयादूर्ध्वं सकलं दिवसं ततः पश्चाद्रात्रिं परिपूर्णा चन्द्रेण सह युक्तं वर्त्तते, एतदेवोपसंहारव्याजेन व्यक्तीकरोति 'एवं खलु' इत्यादि सुगमं, यावद्योगमनुपरिवर्त्य प्रातश्चन्द्रं रोहिण्याः समर्पयति, इदं च कृत्तिकानक्षत्रं द्व्यर्द्धक्षेत्रं, अतः प्रागुक्तयुक्तिवशादुभयभागं प्रतिपत्तव्यं, 'रोहिणी जहा उत्तरभद्दवय'त्ति रोहिणी यथा प्रागुत्तरभाद्रपदा उक्ता तथा वक्तव्या, सा चैवम्- 'ता रोहिणी खु नक्खत्ते उभयभागे दिवखेत्ते पणयालीसमुहुत्ते तप्पढमयाए पातो चंदेण सद्धिं जोयं जोएइ अवरंच राई ततो पच्छा अवरं दिवसं, एवं खलु रोहिणीनक्खत्ते दो दिवसे एगं च राई चंदेण सद्धिं जोयं जोएइ, २ ता, जोगं अणुपरियहेइ, २ त्ता, सायं चंद मिगसिरस्स समप्पेइ' 'मिगसिरं जहा धणिट्ठ' त्ति मृगशिरो नक्षत्रं यथा प्राग् धनिष्ठोक्ता तथा वक्तव्या, तद्यथा 'ता मिगसिरे नक्खत्ते पच्छंभागे तीसइमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोगं जोएइ, सायं चंद्रेण सद्धि जोगं जोएत्ता ततो पच्छा अवरं दिवसं, एवं खलु मिगसिरे नक्खत्ते एगं राई एगं च दिवसं चन्देण सद्धिं जोयं जोएइ, २ त्ता जोगं अणपरियट्टेइ, २ त्ता सायं चंदं अद्दाए समप्पेइ' अत्र सायमिति प्रायः परिस्फुटनक्षत्रमण्डलालोकसमये अत एवैतन्नक्तं भागं, तथा चाह- अद्दा जहा सर्याभिसया' आर्द्रा यथा प्राक् शतभिषगभिहिता तथाऽभिधातव्या, सा चैवम् 'ता अद्दा खलु नक्खत्ते नत्तंभागे अवढखेत्ते पन्नरसमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोअं जोएइ, नो लभेइ अवरं दिवसं, एवं खलु अद्दा एगं राई चंदेण सद्धिं जोगं जोएइ, जोयं जोएत्ता जोयं अणुपरियट्टेइ, जोयं अणुपरियट्टित्ता पाओ चंदं पुणव्वसूणं समप्पेइ' इदं च पुनर्वसुनक्षत्रं द्व्यर्द्धक्षेत्रत्वात् प्रागुक्तयुक्तेः उभयभागमवसेयं, तथा चाह- 'पुनव्वसू जहा उत्तरभद्दवया' पुनर्वसुनक्षत्रं यथा प्राकू उत्तरभद्रपदा नक्षत्रमुक्तं तथा वक्तव्यं, तचैवम् 'ता पुनव्वसू खलु नक्खत्ते उभयभागे दिवढखेत्ते पणयालीसमुहुत्ते तप्पढमयाए पाओ For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy