________________
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२/४४
नक्खत्ता जेणं वीसं अहोरत्ते तिन्नि य मुहुत्ते सूरेण सद्धिं जोयं जोएंति ते णंछ, तं०उत्तराभद्दवता रोहिणी पुनव्यसू उत्तरफग्गुणी विसाहा उत्तरासाढा ।
वृ. 'ता एएसि णमित्यादि, ता इति पूर्ववत्, एतेषामनन्तरोदितानामष्टाविंशतेर्नक्षत्राणां मध्येऽस्ति तन्नक्षत्रं यच्चतुरोऽहोरात्रान् षट् च मुहूर्त्तान् यावत् सूर्येण सांर्द्ध योगमुपैति तथा अस्तीति सन्ति तानि यानि षट् अहोरात्रान् एकविंशतिं च मुहूर्तान् सूर्येण सार्द्ध योगं युञ्जन्ति, तथा सन्ति तानि नक्षत्राणि यानि त्रयोदश अहोरात्रान् द्वादश मुहूर्त्तान् यावत्सूर्येण सहयोगमुपयान्ति, तथा सन्ति तानि नक्षत्राणि यानि विंशतिमहोरात्रान् त्रीन् मुहूर्तान् यावत्सूर्येण समं योगं युञ्जन्ति, एवं भगवता सामान्येनोक्ते विशेषावगमनिमित्तं भूयोऽपि भगवान् गौतमः पृच्छति
११०
'ता एएसि ण' मित्यादि, सुगमं, भगवान् निर्वचनमाह - 'ता एएसि न 'मित्यादि, ता इति पूर्ववत्, एतेषामष्टाविंशतेर्नक्षत्राणां मध्ये यन्नक्षत्रं चतुरोऽहोरात्रान् षट् च मुहूर्त्तान् सूर्येण सार्द्धं योगं युनक्ति तदेकमभिजिनक्षत्रमवसेयं, तथाहि - सूर्ययोगविषयं पूर्वाचार्यप्रदर्शितमिदं प्रकरणं"जं रिक्खं जावइए वच्चइ चंदेण भाग सत्तट्ठी । तं पणभागे राईदियस्स सूरेण तावइए ॥”
119 11
अस्या अक्षरगमनिका - यत् ऋक्षं - नक्षत्रं यावतो रात्रिन्दिवस्य - अहोरात्रस्य सम्बन्धिनः सप्तषष्टिभागान् चन्द्रेण सह योगं व्रजति तन्नक्षत्रं रात्रिन्दिवस्य पञ्चभागान् तावतः सूर्येण समं व्रजति, तत्राभिजिदेकविंशतिं सप्तषष्टिभागान् चन्द्रेण समंवर्त्तते, तत एतावतः पञ्चभागानहोरात्रस्य सूर्येण समं वर्त्तमानमवसेयं, एकविंशतिश्च पञ्चभिर्भागे हृते लब्धाश्चत्वारोऽहोरात्राः एकः पञ्चमो भागोऽवतिष्ठते, स मुहूर्त्तानयनाय त्रिंशता गुण्यते, जाता त्रिंशत्तस्याः पञ्चभिर्भागे हते लब्धाः षण्मुहूर्ता इति उक्तं च
119 11
“अभिई छच्च मुहुत्ते चत्तारि य केवले अहोरते । सूरण समं वच्चइ इत्तो सेसाण वुच्छामि ॥"
तथा तत्र - तेषामष्टाविंशतेर्नक्षत्राणां मध्ये यानि नक्षत्राणि षट् अहोरात्रानेकविंशतिं च मुहूर्त्तान् यावत् सूर्येण समं योगमुपयन्ति तानि षट्, तद्यथा - 'सयभिसया' इत्यादि, तथाहि - एतानि नक्षत्राणि प्रत्येकं चन्द्रेण समं सार्द्धान् त्रयस्त्रिंशत्याकान् सप्तषष्टिभागानहोरात्रस्य व्रजन्ति अपार्द्धक्षेत्रत्वादेतेषां तत एतावतः पञ्चभागानहोरात्रस्य सूर्येण समं व्रजन्तीति प्रत्येयं प्रागुक्तकरणप्रामाण्यात्, त्रयस्त्रिंशतश्च पञ्चभिर्भागे हते लब्धाः षट् अहोरात्राः, पश्चादवतिष्ठन्ते सार्द्धास्त्रयः पञ्चभागाः, ते सवर्णनायां जाताः सप्त, मुहूर्त्तानयनाय त्रिंशता गुण्यन्ते, जाते द्वे शते दशोत्तरे, एते च मुहूर्त्तार्द्धगते, ततः परिपूर्णमुहूर्त्तानयनाय दशभिर्भागो हियते, लब्धा एकविंशतिर्मुहूत्ताः, उक्तं च
11911
"सयभिसया भरणीओ अद्दा अस्सेस साइ जिट्ठाय । वांति मुहुत्ते इक्क वीस छचेवऽहोरत्ते ॥”
तथा तत्र तेषामष्टाविंशतेर्नत्रत्राणां मध्ये यानि नक्षत्राणि त्रयोदश अहोरात्रान् द्वादश च मुहूर्त्तान् यावत् सूर्येण समं योगं युञ्जन्तितानि पञ्चदश तद्यथा - 'सर्वणो' इत्यादि, तथाहि - अमूनि परिपूर्णान् सप्तषष्टिभागान् चन्द्रेण समं व्रजन्ति, ततः सूर्येण सह एतानि पञ्चभागानप्यहोरात्रस्य
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org