SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ प्राभृतं १०, प्राभृतप्राभृतं -३ १११ सप्तषष्टिसङ्घयान् गच्छन्ति, सप्तषप्टेश्च पञ्चभिर्भागे लब्धास्त्रयोदश अहोरात्राः, शेषौ च द्वौ भागौ तिष्ठतः, तौ त्रिंशता गुण्येते, जाताः षष्टि, तस्याः पञ्चमिभगिहतेलब्धा द्वादश मुहूताः, उक्तंच॥१॥ "अवसेसा नक्खत्ता पन्नरसवि सूर सहगया जंति। बारस चेव मुहुत्ते तेरस य समे अहोरत्ते॥" तथा तत्र-तेषामष्टाविंशतिर्नक्षत्राणांमध्ये यानि नक्षत्राणि विंशतिमहोरात्रान्त्रीन्मुहूर्तान् यावत्सूर्येण समं योगमश्रूवते तानि षट्, तद्यथा- 'उत्तरभद्दवया इत्यादि, एतानि हि षडपि नक्षत्राणि प्रत्येकं चन्द्रेण समं सप्तषष्टिभागानां शतमेकस्य च सप्तषष्टिभागस्यार्द्धव्रजन्ति, तत एतावतः पञ्चभागान् अहोरात्रस्य सूर्येणसमंव्रजनमवगन्तव्यं, शतस्य च पञ्चभिर्भागे हते लब्धा विंशति अहोरात्राः, यदपि चैकस्य पञ्चभागस्यार्द्धमुद्धरति तदपि त्रिंशता गुण्यते, जाता त्रिंशत्, तस्या दशभिर्भागे हृते लब्धास्त्रयो मुहूर्ता इति ॥ प्राभृतं-१० प्राभृतप्राभृतं-२ समाप्तम् -:प्राभृतप्राभृतं-३:वृ. उक्तं दशमस्य प्राभृतस्य द्वितीयं प्राभृतप्राभृतं, सम्प्रति तृतीयमारभ्यते, तस्य चायमर्थाधिकारः-‘एवंभागानि नक्षत्राणि वक्तव्यानी' ततस्तद्विषयं प्रश्नसूत्रमाह मू. (४५)ता कहं ते एवंभागा आहितातिवदेजा?, ता एतेसिणं अट्ठावीसाएनक्खत्ताणं अस्थि नक्खत्ता एवं भागा समखेत्ता पं०, अस्थि नक्खत्ता पच्छंभागासमक्खेतातीसमुहत्ता प०, अस्थि नक्खत्ता नतंभागा अवड्डखेत्ता पन्नरसमुहत्तापं०, अस्थि नक्खत्ता उभयंभागा दिवइखेत्ता पणतालीसंमुहुत्ता पं०/ताएएसिणं अट्ठावीसाए नक्खत्ताणं कतरहे नक्खत्तापुब्वंभागा समखेत्ता तीसतिमुहत्ता पं० कतरे०२ कतरे नक्खत्ता उभयंभागा दिवट्खेत्ता पणतालीसतिमुहत्ता पं०, ता एतेसिणं अट्ठावीसाए नक्खत्ताणं तत्थजे ते नक्खत्ता पुव्वंभागा समखेतातीसतिमुत्ता पं० तेणं छ, तंजहा-पुव्वापोट्ठवता कत्तिया मघा पुव्वाफग्गुणी मूलो पुव्वासाडा, तत्थ जे नक्खत्ता पच्छंभागा समखेत्ता तीसतिमुत्ता पं०, ते णं दस, तंजहा अभिई सवणो धणिट्ठा रेवती अस्सिण मिगसिरं पूसो हत्थो चित्ता अनुराधा, तत्थ जे ते नखत्ताणत्तंभागा अद्धद्धखेत्ता पन्नरसमुहुत्ता पं० ते णंछ, तंजहा सयभिसया भरहणी अद्दाअस्सेसा साती जेट्ठा, तत्थजेते नक्खत्ता उभयंभागादिवड्डखेत्ता पन्नतालीसं मुहत्ता पं० ते णंछ, तंजहा उत्तरापोट्टवता रोहिणी पुणव्वसू उत्तराफग्गुणी विसाहा उत्तरासाढा ।। वृ. 'ता कहं ते' इत्यादि, ता इति पूर्ववत्, कथं ?-केन प्रकारेण भगवन् ! त्वया एवंभागानि-वक्ष्यमाणप्रकारभागानि नक्षत्राणिआख्यातानि इतिभगवान् वदेत्?,एवमुक्तेभगवानाह_ 'ता एएसिणमित्यादि, 'ता' इति पूर्ववत्, एतेषामष्टाविंशतेनक्षत्राणांमध्येऽस्तीति सन्ति तानि नक्षत्राणि यानि पूर्वभागानि-दिवसस्य पूर्वभागश्चन्द्रयोगस्यादिमधिकृत्य विद्यते येषांतानि पूर्वभागानि । 'समक्खेत्ता' इति समं-पूर्णमहोरात्रप्रमितं क्षेत्रं चन्द्रयोगमधिकृत्यास्ति येषां तानि समक्षेत्राणि अत एव त्रिंशन्मुहूर्तानि प्रज्ञप्तानि, तथा सन्ति तानि नक्षत्राणि यानि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy