SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ प्राभृतं १०, प्राभृतप्राभृतं 9 तं० - अभिई सवणो जाव उत्तरासाढा ।। वृ. 'ता जोगेति वत्थुस्से' त्यादि, ता इति आस्तां तावदन्यत्कथनीयं सम्प्रत्येतावदेव कथ्यतेयोग इति वस्तुनो - नक्षत्रजातस्य 'आवलिकानिवायो' त्ति आवलिकया क्रमेण निपातः - चन्द्रसूर्यै सह सम्पात आख्यातो मयेति वदेत् स्वशिष्येभ्यः, एवमुक्ते भगवान् गौतमः पृच्छति - 'ता कहंते' इत्यादि, ता इति पूर्ववत्, कथं - केन प्रकारेण भगवान् त्वया योग इति योगवस्तुनो - नक्षत्रजातस्यावलिकानिपातः स आख्यात इति वदेत् ?, भगवानाह - १०७ 'तत्थ खलु', तत्र - तस्मिन्नक्षत्रजातस्यावलिकानिपातविषये खल्विमाः पञ्च प्रतिपत्तयः- परतीर्थिकाभ्युपगमरूपाः प्रज्ञप्ताः, -तेषां पञ्चानां परतीर्थिकानां मध्ये एके परतीर्थिका एवमाहुःता इति पूर्ववत् सर्वाण्यपि नक्षत्राणि कृत्तिकादीनि भरणिपर्यवसानानि प्रज्ञप्तानि, सूत्रे पुंस्त्वनिर्द्देशः प्राकृतत्वात्, अत्रैवोपसंहारः - 'एगे एवमाहंसु' १, एवं शेषप्रतिपत्तिचतुष्टयगतान्यपि सूत्राणि परिभावनीयानि, तदेवं परप्रतिपत्तीरुपदर्श्य सम्प्रति स्वमतमुपदर्शयति 'वयं पुण' इत्यादि, वयं पुनरेवं वक्ष्यमाणेन प्रकारेण वदामः, तमेव प्रकारमाह-- 'ता सव्वेऽविण' मित्यादि, ता इति पूर्ववत्, सर्वाण्यपि नक्षत्राणि अभिजिदादीनि उत्तराषाढापर्यवसानानि प्रज्ञप्तानि, कस्मादिति चेत् ?, उच्यते, इह सर्वेषामपि सुषमसुषमादिरूपाणां कालविशेषाणामादि युगं 'एए उ सुसमसुसमादयो अद्धाविसेसा जुगादिणा सह पवत्तंति जुगतेण सह समप्पंती' ति श्रीपादलिप्तसूरिवचनप्रामाण्यात्, युगस्य चादि प्रवर्तते श्रावणमासि बहुलपक्षे प्रतिपदि तिथौ बालवकरणे अभिजन्नक्षत्रे चन्द्रेण सह योगमुपागच्छति, तथा चोक्तं ज्योतिष्करण्डके119 LE "सावण बहुलपडिवए बालवकरणे अभीइनक्खत्ते । सव्वत्थ पढमसमये जुगस्स आई वियाणाहि ।।" अत्र सर्वत्र भरतैरवते महाविदेहे च, शेषं सुगमं, ततः इत्थं सर्वेषामपि कालविशेषाणामादौ चन्द्रयोगमधिकृत्याभिजिन्नक्षत्रस्य वर्त्तमानत्वादभिजिदादीनि नक्षत्राणि प्रज्ञप्तानि तान्येव तद्यथेत्यादिनोपदर्शयति- 'अभिई सवणे' त्यादि ॥ प्राभृतं - १० प्राभृतप्राभृतं - १ समाप्तम् -: प्राभृत प्राभृतं - २ : वृ. तदेवमुक्तं दशमस्य प्राभृतस्य प्रथमं प्राभृतप्राभृतं सम्प्रति द्वितीयमारभ्यते, तस्य चायमर्थाधिकारो 'नक्षत्रविषयं मुहूर्त्तपरिमाणं वक्तव्य' मिति, ततस्तद्विपयं प्रश्नसूत्रमाह मू. (४३) ता कहं ते मुहुत्ता य आहितेति वदेज्जा ?, ता एतेसि णं अट्ठावीसाए नक्खत्ताणं अस्थि नक्खत्ते जेणं नव मुहुत्ते सत्तावीसं च सत्तठ्ठिभागे मुहुत्तस्स चंदेणं सद्धिं जोयं जोएंति, अन्थि नक्खत्ता जेणं पन्नरसमुहुत्ते चंदेणं जीयं पजोएंति, अत्थि नक्खत्ता जे गं पणतालीसे मुहुत्ते चंदेणं सद्धिं जोएंति, ता एएसि णं अट्ठावीसाए नक्खत्ताणं कयरे नक्खत्ते जे णं नवमुहुत्ते सत्तावीसं च सत्तट्ठिभाए मुहुत्तस्स चंदेणं सद्धिं जोएं, कयरे नक्खत्ता जेणं पन्नरसमुहुत्ते चंदेणं सद्धि जोगं जोएंति, कतरे नक्खत्ता जे णं तीसं मुहुत्ते चंदेण सद्धिं जोगं जोइंति, कतरे नक्खत्ता जेणं पणयालीसं मुहुत्ते चंदेण सद्धिं जोयं जोइति ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy