SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् ९/-/४१ १०६ भागे शेषे ?, भगवानाह - 'ता' इति पूर्ववत्, दिवसस्य पञ्चमे भागे गते वा भवति, शेषे वा पञ्चमे भागे, 'एवमित्यादि, एवमुक्तेन प्रकारेण अर्द्धपौरुषीं - अर्द्धपुरुषप्रमाणां छायां क्षिप्तवा २ पृच्छा-पृच्छासूत्रं द्रष्टव्यं, 'दिवस भागं' ति पूर्वपूर्वसूत्रापेक्षया एकैकमधिकं दिवसभां क्षिप्तवा २ व्याकरणं-उत्तरसूत्रं ज्ञातव्यं, तच्चैवम्- 'बिपोरिसी गं छाया किं गए वा सेसे वा ?, ता छभागगए वा सेसे वा, ता अड्डाइज्जपोरिसी णं छाया किंग वा सेसेवा ?, सत्तभागगए वा सेसे वा' इत्यादि, एतच्च एतावत् तावत् यावत् 'ता उगुणट्ठी' त्यादिसुगमं, सातिरेकैकोनषष्टिपौरुषी तु छाया दिवसस्य प्रारम्भसमये पर्यन्तसमये वा, तत आह- 'ता नत्थि किंचि गए वा सेसे वा' इति, सम्प्रति छायाभेदान् व्याचष्टे 'तत्थे' त्यादि, तत्र तस्यां छायायां विचार्यमाणायां खल्वियं पञ्चविंशतिविधाः छायाः प्रज्ञप्ताः तद्यथा 'खंभछाये' त्यादि, प्रायः सुगमं, विशेषव्याख्यानं चामीषां पदानां शास्त्रान्तराद्यथासम्प्रदायं वाच्यं, गोलछायेत्युक्तं ततस्तामेव गोलछायां भेदत आह- 'तत्थे' त्यादि, तत्र - तासां पञ्चविंशतिच्छायानां मध्ये खल्वियं गोलछाया अष्टविधा प्रज्ञप्ता, तद्यथा - 'गोलछाया' गोलमात्रस्य छाया गोलछाया, अपार्द्धस्य- अर्द्धमात्रस्य गोलस्य छाया अपार्द्धगोलछाया, गोलानामावलिर्गोलावलिस्तस्या छाया गोलावलिच्छाया अपार्द्धायाः - अपार्द्धमात्राया गोलावलेश्छाया अपार्द्धगोलावलिच्छाया, गोलानां पुञ्ज गोलपुञ्ज गोलोत्कर इत्यर्थ तस्य छाया गोलपुञ्चछाया, अपार्द्धस्य - अर्द्धमात्रस्य गोलपुञ्जस्य चाया अपार्द्धगोलवलिच्छाया, गोलानां पञ्ज गोलपुञ्जो गोलोत्कर इत्यर्थ तस्य छाया गोलपुञ्जछाया, अपार्द्धस्य - अर्द्धमात्रस्य गोलपुञ्जस्य छाया अपार्द्धगोल पुञ्जच्छाया ।। प्राभृतं - ९ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता प्रज्ञापनाउपाङ्ग सूत्रे नवमप्राभृतस्य मलयगिरिआचार्येण विरचिता टीका परिसमाप्ता । प्राभूतं - १० वृ. तदेवमुक्तं नवमं प्राभृतं, सम्प्रति दशममारभ्यते, तस्य चामयमर्थाधिकारो यथा 'योग इति किं भगवन् ! त्वया समाख्यायते' इति, तत्स्तद्विषयनिर्वचनसूत्रमाह -: प्राभूतं १० प्राभृत प्राभृतं - १ : - मू. (४२) ता जोगेति वत्थुस्स आवलियाणिवाते आहितेति वदेज्जा, ता कहं ते जोगेति वत्थुस्स आवलियाणिवाते आहितेति वदेना ! तत्थ खलु इमाओ पंच पडिवत्तीओ पन्नत्ताओ । तत्थेगे एवमाहंसु ता सव्वेवि णं नक्खत्ता कत्तियादिया भरणिपजवसाणा एगे एवमाहंसु एगे पुण एवमाहंसु, ता सव्वेवि णं नक्खत्ता महादीया अस्सेसपज्जवसाणा पन्नत्ता, एगे एवमाहंसु, एगे पुण एवमाहंसु, ता सव्वेविणं नक्खत्ता धणिट्ठादीया सवणपजवसाणा पन्नत्ता, एगे एवमाहंसु ३, एगे पुण एवमाहंसु, ता सव्वेवि णं नक्खत्ता अस्सिणी आदीया रेवतिपज्जवसाणा प०, एगे एवमाहंसु ४, एगे पुण एवमाहंसु-सव्वेवि णं नक्खत्ता भरणीआदिया अस्सिणीपज्जवसाणा एगे एवमाहंसु । वयं पुण एवं वदामो, सव्वेवि णं नक्खत्ता अभिईआदीया उत्तरासाढापजवसाणा पं० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy