SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ प्राभृतं ९, प्राभृतप्राभृतं १०५ सूर्यप्रतिधेः-सूर्यप्रतिधानात्सूर्यनिवेशादित्यर्थ वहिनिसृता या लेश्यास्ताभि ‘ताडिज्जमाणाहिति ताड्यमानाभिरस्या रत्नप्रभायाः पृथिव्या बहुसमरमणीया भूमिभागाद्यावति सूर्यऊर्ध्वमुच्चैस्त्वेन व्यवस्थित एतावताऽध्वना, सूत्रे चाध्वशब्दस्य स्त्रत्वेन निर्देशः प्राकृतत्वात्, एकेन च छायानुमानप्रमाणेन प्रकाश्यस्य वस्तुनो यदुद्देशतः प्रमाणमनुमीयते तेन, इहाकाशदेशे सूर्यसमीपे प्रकाश्यस्य वस्तुनःप्रमाणं नैव साक्षात् परिग्रहीतुं शक्यतेकिन्तुदेशतोऽनुमानेन ततश्छायानुमानप्रमाणेनोत्युक्तं, 'उमाए'त्ति अवमितः परिच्छिन्नो यो देशः-प्रदेशो यस्मिन् प्रदेशे आगतः सन् सूर्वएकपौरुषी पुरुषग्रहणस्योपलक्षणत्वात्सर्वस्य प्रकाश्यस्य वस्तुनः प्रमाणभूतांछायांनिर्वर्तयति, इयमत्र भावना-प्रथमत उदयमाने सूर्ये या लेश्या विनिर्गत्य प्रकाशमाश्रितास्ताभि प्रकाश्यवस्तुदेशेऊर्द्धक्रयमाणाभिः किञ्चित्पूर्वाभिमुखमवनताभिप्रकाश्येन चवस्तुनायः सम्भाव्यते परिच्छिन्न आकाशप्रदेशः तत्रागतः सूर्य प्रकाश्यवस्तुप्रमाणां छायां निवर्तयति, एवमुत्तरत्रापि भावना कार्या, 'तत्थे'त्यादि, तत्र ये ते वादिन एवमाहुः--अस्ति स देशो यस्मिन् देशे समागतः सूर्यो द्विपौरुषी छायां निवर्तयति त एवं स्वमतविस्फारणार्थमाहु:-'ता सूरियस्स णमित्यादि, ताइति पूर्ववत् सूर्यस्य सर्वाधस्तात् सूर्यप्रतिधेः-सूर्यनिवेशाहिर्निसृताभिर्लेश्याभिस्ताडयमानाभिरस्या रत्नप्रभायाः पृथिव्या बहुसमरमणीयाभूमिभागादूर्ध्वमुच्चत्वेनव्यवस्थितः एतावद्भयां द्वाभ्यामद्धाभ्यांद्वाभ्यां छायानुमानप्रमाणाभ्यांप्रकाश्यवस्तुप्रमाणाब्यामवमितः-परिच्छिन्नो यो देशस्तत्र समागतः सूर्यो द्विपौरुषी-प्रकाश्यवस्तुनो द्विगुणां छायां निवर्तयति, एवमेकैकप्रतिपत्तावेकैकच्छायानुमानप्रमाणवृद्धया तावन्नेतव्यं यावत्पन्नवतितमा प्रतिपत्ति, तद्गतानि च सूत्राणि स्वयं परिभाव-नीयानि, सुगमत्वात्, तदेवमुक्ताः परतीर्थिकप्रतिपत्तयः। सम्प्रतिस्वमतमुपदर्शयति-'वयं पुण'इत्यादि, वयं पुनरेवं-वक्ष्यमाणेन प्रकारेण वदामः, तमेव प्रकारमाह-'सातिरेगे'त्यादि, सूर्य उद्गमसमवेअस्तमनसमयेच सातिरेकैकोनषष्टिपुरुषप्रमाणां छायां निवर्तयति-एतदेव विभावयिषुराह-'ता अवड्डे' इत्यादि, अपगतमर्द्ध यस्याः सा अपार्द्धा सा चासौ पौरुषी च अपार्द्धपौरुषीछाया पुरुषग्रहणस्योपलक्षणत्वात् सर्वस्यापि वस्तुनः प्रकाश्य स्वार्द्धप्रमाणा छाया, एवमुत्तरत्राप्युपलक्षणव्याख्यानं द्रष्टव्यं, दिवसस्य किंगते-कतमे भागे गते शेषे वेति-कतितमे भागे शेषे भवति?, भगवानाह __ 'ता'इत्यादि, ता इति पूर्ववत्, दिवसस्य त्रिभागे गते भवति, दिवसस्य त्रिभागे वा शेषे, 'ता'इत्यादि, पौरुपी पुरुषप्रमाणा, प्रकाश्यस्यवस्तुनः स्वप्रमाणा इत्यर्थ, छाया किंगते-कतितमे भाग गते शेपे वेति-कतितमे वा भागे शेषे भवति?, दिवसस्य चतुर्भागे गते चतुर्भागे शेषेवा, प्रकाश्यस्य वस्तुनः स्वप्रमाणभूता छाया अन्यत्र ग्रन्थान्तरे सर्वाभ्यन्तरं मण्डलमधिकृत्योक्ता, तथा च नन्दिचूर्णिग्रन्थः-"पुरिसत्ति संकू पुरिससरीरं वा, ततो पुरिसे निप्फन्ना पोरिसी, एवं सव्वस्स वत्थुणो यदा स्वप्रमाणाछाया भवति तदा पोरिसी हवइ, एयं पोरिसिप्रमाणं उत्तरायणस्स अंते दक्खिणायणस्स आईए इक्क दिनं भवइ, अतो परं अद्धएगसट्ठिभागा अंगुलस्स दक्खिणयणे वर्ल्डति, उत्तरायणे इस्संति, एवं मंडले २ अन्ना पोरिसी" इति, तत इदं सकलमपि पौरुषीविभागप्रमाणप्रतिपादनं सर्वाभ्यन्तरं मण्डलमधिकृत्यावसेयं, तथा 'ता'इति पूर्ववत्, द्व्यर्द्धपौरुषीसार्द्धपुरुषप्रमाणा छाया दिवसस्य किंभागे-कतितमे भागे गते भवति, किं शेषे वा कतितमे वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy