SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ प्राभृतं ८, प्राभृतप्राभृतं ९९ दक्षिणदिकचारिभिर्जम्बूद्वीपलवणसमुद्रधातकीखण्डगतैः सह समश्रेण्या सम्बद्धा एकविंशतिरुत्तरदिक्चारिभिः तत उदयविधिर्दिवसरात्रिविभागश्च क्षेत्रविभागेन तथैव वेदितव्यः । साम्प्रतमभ्यन्तरपुष्कवरार्द्धवक्तव्यतामाह - 'ता अभितरपुक्खरद्धे' इत्यादि, इदमपि सूत्रं सुगमं, 'तहेव' त्ति तथैव जम्बूद्वीप इव वक्तव्यं, नवरमत्र सूर्या द्वासप्तति, तत्र षटत्रिंशद्दक्षिणदिक चारिभिर्जम्बूद्वीपादिगतैः सह समश्रेण्या प्रतिबद्धाः पटत्रिंशदुत्तरदिकचारिभि, तत उदयविधिर्दिवस रात्रिविभागश्च क्षेत्रविभागेन प्राग्ववसेयः, तथा चाह - 'ता जया ण' मित्यादि, सुगमम् ॥ प्राभृतं -८ समाप्तम् प्राभूतं - ९ वृ. तदेवमुक्तमष्टमं प्राभृतं सम्प्रति नवममारभ्यते तस्य चायमर्थाधिकारः - 'कतिकाष्ठा पौरुषीच्छाये 'ति ततस्तद्विषयं प्रश्नसूत्रमाह- मू. (४०) ता कतिकट्टं ते सूरिए पोरीसीच्छायं निव्यत्तेति आहितेति वदेज्जा ?, तत्थ खलु इमाओ तिन्नि पडिवत्तीओ पन्नत्ताओ । तत्थेगे एवमाहंसु-जेणं पोग्गला सूरियस्स लेसं फुसंति ते णं पोग्गला संतप्पंति, ते णं पोग्गला संतप्पमाणा तदनंतराई बायराइं पोग्गलाई संतावेंतीति एस से समिते तावक्खेत्ते एगे एवमाहंसु । एगे पुण एवमाहंसु-ता जेणं पोग्गला सूरियस्स लेसं फुसंति ते णं पोग्गला नो संतप्पंति, ते णं पोग्गला असंतप्पमाणा तदनंतराई बाहिराई पोग्गलाई नो संतावेंतीति एस णं से समिते तावक्खेते एगे एव० २ । एगे पुण एव० ता जे णं पोग्गला सूरियस्स लेसं फुसंति ते णं पोग्गला अत्थेगतिया नो संतप्पति अत्थे० संतप्पंति, तत्थ अत्थेग० संतप्पमाणा तदनंतराई बाहिराई पोग्गलाई अत्येग० संतावेति अत्येग० नो संतावेति, एस णं से समिते तावखेत्ते, एगे एव०३ । वयं पुण एवं वदामो, ता जाओ इमाओ चंदिमसूरियाणं देवाणं विमाणेहिंतो लेसाओ बहित्ता (उच्छूढा) अभिनिसट्टाओ पतावेति, पतावेति, एतासि णं लेसाणं अंतरेसु अन्नतरीओ छिन्नलेसाओ संमुच्छंति, तते णं ताओ छिन्नलेस्साओ संमुच्छियाओ समाणीओ तदनंतराई वाहिराई पोग्गलाई संतावेतीति एस णं से समिते तावक्खेत्ते ॥ वृ. 'ता कइकडं ते' इत्यादि पूर्ववत् 'कति' किंप्रमाणा काष्ठा-प्रकर्षो यस्याः सा कतिकाष्ठा तां कतिकाष्ठां - किंप्रमाणां ? 'ते' तव मते सूर्य 'पौरुषीं' पुरुषे भवा पौरुषी तां पौरुषीं छायां निर्वर्त्तयति, निर्वर्त्तयन्त्राख्यात इति वदेत् ?, किंप्रमाणां पीरुपीछायामुत्पादवन् सूर्यो भगवान् त्वया आख्यात इति वदेदिति सङ्क्षेपार्थः, एवं प्रश्ने कृते भगवानेतद्विषये यावन्त्यः प्रतिपत्तयस्तावतीरुपदर्शयति- 'तत्थे'- तस्याः पौरुष्याः छायायाः प्रमाणचिन्तायां मध्ये एके । प्रथमा एवमाहुः - 'ता जेण' मित्यादि, ता इति पूर्ववत्, ये णमिति वाक्यालङ्कारे पुद्गलाः सूर्यस्य लेश्यां स्पृशन्ति ते पुद्गलाः सूर्यलेश्यसंस्पर्शतः सन्तप्यन्ते - सन्तापमनुभवन्ति, सन्तप्यन्त इति कर्म्मकर्त्तरि प्रयोगः, तेच पुद्गलाः सन्तप्यमानाः तदनन्तरान्- तेषां सन्तप्यमानानां पुद्गलानामव्यवधानेन ये स्थिताः पुद्गलास्ते तदनन्तरास्तान् बाह्यान् पुद्गलान्, सूत्रे च नपुंसकनिर्देशः प्राकृतत्वात्, सन्तापयन्ति, इतिशब्दः प्रस्तुतवक्तव्यतापरिसमाप्तिसूचकः, 'एस ण'मित्यादि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy