________________
१००
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् ९/-१४० एतत्-एवंस्वरूपं से तस्य सूर्यस्य समितं उपपन्नंतापक्षेत्रं, अत्रोपसंहारमाह-एगेएवमाहंसु १ ।
एके पुनरेवमाहुः, 'ता' इति पूर्ववत्, येणमिति प्राग्वत् पुद्गलाः सूर्यस्य लेश्यां स्पृशन्ति ते पुद्गला न सन्तप्यन्ते-न सन्तापमनुभवन्ति, यश्च पीठफलकादीनांसूर्यलेश्यासंस्पृष्टानां सन्ताप उपलभ्यतेस तदाश्रितानांसूर्यलेश्यापुद्गलानामेव स्वरूपेण, न पीठफलकादिगतानांपुद्गलानामिति न प्रत्यक्षविरोधः, ते णमिति प्राग्वत्, पुद्गला असन्ताप्यमानास्तदनन्तरान् वाह्यान् पुद्गलान्न सन्तापयन्ति-नोष्णीकुर्वन्ति, स्वतस्तेषामसन्तप्तत्वात्, इतिशब्दः प्राग्वत्, पुद्गला असन्ताप्यमानास्तदनन्तरान् बाह्यान् पुद्गलान सन्तापयन्ति-नोष्णीकुर्वन्ति, स्वतस्तेषामसन्तप्तत्वात्, इतिशब्दः प्राग्वत् व्यक्तः, 'एस णमित्यादि, एतत्-एवंस्वरूपं 'से' तस्य सूर्यस्य तापक्षेत्रं समितं-उपपन्नमिति, अत्र उपसंहारमाह-‘एगे एवमाहंसु' २ ।
___ एके पुनरेवमाहुः, 'ता' इति पूर्ववत्, णमिति प्राग्वत् ये पुद्गलाः सूर्यस्य लेश्यां स्पृशन्ति ते पुद्गलाअस्तीति प्राकृतत्वान्निपाततवाद्वा सन्ति एककाः केचनपुद्गलाये सूर्यलेश्यासंस्पर्शतः सन्तप्यन्ते-सन्तापमनुभवन्ति, तथा सन्त्येककाः केचन पुद्गला ये न सन्तप्यन्ते, तत्रयेसन्त्येककाः सन्तप्यमानास्ते तदनन्तरान् वाह्यान् पुद्गलान् अस्त्येतत् यत् एककान्-कांश्चित्सन्तापयन्ति, असत्येतद्यदेककान्–कांश्चिन्नसन्तापयन्ति, इतिशब्दः पूर्ववत्, एस णमित्यादि, एतत्-एवंस्वरूपं 'से' तस्य सूर्यस्य समितं-उपपन्नं तापक्षेत्रं, अत्रोपसंहारमाह-“एगे एवमाहंसु'३।
एतास्तिम्रोऽपिप्रतिपत्तयोमिथ्यारूपास्तथाच एताव्युदस्य भगवान् भिन्नंस्वमतमाह-'वयं पुण'इत्यादि, वयं पुनरेवं-वक्ष्यमाणेन प्रकारेण वदामः, तमेव प्रकारमाह-"ता जईए' (जाओ इमाओ) इत्यादि, ताइति पूर्ववत्, या इमाः प्रत्यक्षत उपलभ्यमानाश्चन्द्रसूर्याणां देवानां सत्केभ्यो विमानेभ्यो लेश्या उच्छूढाः, एतदेव व्याचटे-अभिनिसृतास्ताः प्रतापयन्ति-बाह्यं यथोचितमाकाशवर्ति प्रकाश्यं प्रकाशयन्ति, एतासां चेत्थं विमानेभ्यो निसृतानां लेश्यानामन्तरेषुअपान्तरालेष्वन्यतराश्छिन्नलेश्याः सम्मूछन्ति, ततस्ता मूलच्छिन्ना लेश्याः सम्मूर्छिताः सत्यस्तदनन्तरान्वाह्यान्पुद्गलान् संतापयन्ति, इतिशब्दः पूर्ववत्, ‘एस न'मित्यादि, एतत्-एवंस्वरूप, 'से' तस्य सूर्यस्य समितं-उपपत्रं तापक्षेत्रमिति । तदेवं तापक्षेत्रस्य स्वरूपसम्भव उक्तः, सम्प्रति किंप्रमाणां पोरुषीछायां निवर्तयतीत्येतत्वो कामः पृच्छन्नाह
मू. (४१) ता कतिकडे ते सूरिए पोरीसीच्छायं निव्वत्तेति आहितेति वदेज्जा ?, तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पन्नत्तओ, तत्थेगे एवमाहंसुता अणुसमयमेव सूरिएपोरिसिच्छायं निव्वत्तेइ आहितेति वदेजा, एगे एवमाहंसु १, एगे पुण एवमाहंसु ता अणुमुहुत्तमेव सूरिए पोरिसिच्छायंनिव्वत्तेति आहितेति वदेता। एतेणं अभिलावणंणेतब्वं, ताजाओवेव ओयसंटितीए पणुवीसं पडिवत्तीओ ताओ चेव नेतव्बाओ, जाव अनुउस्सप्पिणीमेव सूरिए पोरिसीए च्छायं निव्वत्तेति आहिताति वदेजा, एगे एवमाहंसु।
वयं पुण एवं वदामो-ता सूरियस्स णं उच्चत्तं च लेसं च पडुच छाउद्देसे उच्चत्तं च छायंच पडुच्चं लेसुद्देसे लेसं च छायं च पडुच्च उच्चत्तोडेसे, तत्थ खलु इमाओ दुवे पडिवत्तीओ प० ।
तत्थेगे एवमाहंसु-ता अस्थि णं से दिवसे जंसिणं दिवसंसि सूरिए चउपोरिसीच्छायं निव्वत्तेइ, अस्थिणं से दिवसे जंसिणंदिवसंसि सूरिए दुपोरिसीच्छायंनिव्वत्तेति एगेएवमाहंसु १ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org