SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् ८/-/३९ 'ता जया णमित्यादि, तत्र यदा जम्बद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणार्द्धेऽवसर्पिणी प्रतिपद्यते - परिपूर्णा भवति तदा उत्तरार्द्धेऽपि अवसर्पिणी प्रतिपद्यते, यदा उत्तरार्द्धे अवसर्पिणी प्रतिपद्यते - परिपूर्णा भवति, तदा दक्षिणार्थेऽपि अवसर्पिणी प्रतिपद्यते - प्रतिपूर्णा भवति, यदा उत्तरार्द्धेऽपि अवसर्पिणी प्रतिपद्यते तदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वस्यामपरस्यां च दिशि नैवास्त्यवसर्पिणी नाप्युत्सर्पिणी, कुत इत्याह-अवस्थितो णमिति खलु तत्र पूर्वस्यामपरस्यां च दिशि कालः प्रज्ञप्तो मया शेषैश्च तीर्थकरैः है श्रमणायुष्मन् ! ततस्तत्रावसर्पिण्युत्सर्पिण्यभावः 'एवमुस्सप्पिणीवित्ति, एवमुक्तेन प्रकारेणोत्सर्पिण्यपि उत्सर्पिण्यालापकोऽपि वक्तव्यः, स चैवम्- 'ता जया णं जंबुद्दीवे दीवे दाहिणद्धे पढमा उस्सप्पिणी पडिवञ्जइ तया णं उत्तरद्धेवि पढमा उस्सप्पिणी पडिवज्जइ, जयाणं उत्तरद्धेवि पढमा ओसप्पिणी पडिवजइ तथा णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमपञ्च्चत्थिमेणं नेव अस्थि अवसप्पिणी णेवत्थि उस्सप्पिणी अवट्टिए णं तत्थ काले पत्रत्ते समणाउसो !' तदेवं जंबूद्वीपवक्तव्यतोक्ता, सम्प्रति लवणसमुद्रवक्तव्यतामाह ९८ 'लवणेणं समुद्दे' इत्यादि, 'तहेव' त्ति यथा जम्बूद्वीपे उद्गमविषये आलापक उक्तः तथा लवणसमुद्रेऽपि वक्तव्यः, स चैवम्- 'लवणेणं सूरिया उईणपाईणमुग्गच्छ पाईणदाहिणभागच्छंति, पाईणदाहिणमुग्गच्छ दाहिणपाईणमागच्छंति, दाहिणपाईणमुग्गच्छ पाईणउईणमागच्छंति, पाईणुईणमुग्गच्छ उईणपाईणमागच्छंति' इदं च सूत्रं जम्बूद्वीपगतोदगमसूत्रयत् स्वयं परिभावनीयं, नवरमंत्र सूर्याश्चत्वारो वेदितव्याः, 'चत्तारिय सागरेलवणे' इति वचनात्, तेच जम्बूद्वीपगतसूर्याभ्यां सह समश्रेण्या प्रतिबद्धाः, तद्यथा - द्वौ सूर्यौ एकस्य जम्बूद्वीपगतस्य सूर्यस्य श्रेणया प्रतिबद्धौ द्वौ द्वितीयस्य जम्बूद्वीपगतस्य सूर्यस्य, तत्र यदैकः सूर्यो जम्बूद्वीपे दक्षिणपूर्वस्यामुदगच्छति तदा तत्सम श्रेण्या प्रतिबद्धौ द्वौ सूर्यौ लवणसमुद्रे तस्यामेव दक्षिणपूर्वस्यामुदयमागच्छतस्तदैव जम्बूद्वीपगते सूर्येण सह तत्सम श्रेण्या प्रतिबद्धौ द्वावपरौ लवणसमुद्रे अपरोत्तरस्यां दिशि उदयमासादयतः, तत उदयविधिरपि द्वयोर्द्वयोः सूर्ययोर्जम्बूद्वीपसूर्ययोरिव भावनीयः, तेन दिवसरात्रिविभागोऽपि क्षेत्रविभागेन तथैव द्रष्टव्यः, तथा चाह 'ता जया णमित्यादि सुगमं, नवरं 'जहा जंबुद्दीवे दीवे' इत्यादि, यथा जम्बूद्वीपे द्वीपे 'पुरच्छिमपञ्चच्छिमे णं राई भवइ' इत्यादिकं सूत्रमुक्तं यावदुत्सर्पिण्यवसर्पिण्यालापस्तथा लवणसमुद्रेऽप्यनातिरिक्तं समस्तं भणितव्यं, नवरं जम्बूद्वीपे द्वीपे इत्यस्य स्थाने लवणसमुद्रे इति वक्तव्यमिति शेषः । तदेवं लवणसमुद्रगताऽपि वक्तव्यतोक्ता, सम्प्रति धातकीखण्डविषयां तामाह- 'धावइसंडे णं सूरिया' इत्यादि, अत्राप्युदगमविधि प्राग्वद् नवरमत्र सूर्याद्वादश, 'धायइसंडे दीवे वारस चंदाच सूराय' इति वचनात्, ततः पट् सूर्या दक्षिणदिकचारिभिरजम्बूद्वीप- गतलवणसमुद्रगतैः सूर्ये सह समश्रेण्या प्रतिबद्धाः षट् उत्तरदिक्चारिभिः सम्प्रत्यत्रापि क्षेत्रविभागेन दिवसरात्रिविभागमाह - 'ता जया ण 'मित्यादि, यदा धातकीखण्डे द्वीपे दक्षिणार्द्धे दिवसो भवित तदा उत्तरार्द्धेऽपि दिवसो भवति, यदा उत्तरार्द्धेऽपि दिवसस्तदा धातकीखण्डे मन्दरयोः पर्वतयोः पूवार्द्धपश्चिमार्द्धगतयोः प्रत्येकं पूर्वस्यामपरस्यां च दिशि रात्रिर्भवति, एवमित्यादि, एवमुक्तेन प्रकारेण यथा लवणेऽभिहितं तथैवाभिधातव्यं, नवरं कालोदे सूर्या द्विचत्वारिंशत्, तत्रैकविंशति 7 For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy