________________
पदं - २, उद्देशक : -, द्वारं
सहस्राणि भवनानां ततः सर्वसंख्याया यथोक्तं भवनसंख्यानं भवति,
'ते णं भवणा' इत्यादि, तानि 'णं' इति वाक्यालङ्कारे, पुंस्त्वं प्राकृतत्वात् भवनानि बहिर्वृतानि - वृत्ताकाराणि अन्तः समचतुरस्राणि अधस्तनभागे पुष्करकर्णिकासंस्थानसंस्थितानि कर्णिका नाम उन्नतसमचित्रबिन्दुकिनी 'उक्किन्नंतर विउलगंभीरखातफलिहा' इति उत्कीर्णमिवोत्कीर्णमतीव व्यक्तमित्यर्थः, उत्कीर्णमन्तरं यासां खातपरिखाणां ता उत्कीर्णान्तराः, किमुक्तं भवति ?--
९३
खातानां च परिखाणां च स्पष्टवैविक्त्योन्मीलनार्थमपान्तराले महती पाली समस्तीति, खातानि च परिखाश्च खातपरिखाः उत्कीर्णान्तरा विपुला विस्तीर्णा गम्भीरा-अलब्धमध्यभागा खातपरिखा येषा भवनाना परितस्तानि उत्कीर्णान्तरविपुलगम्भीरखातपरिखानि, खातपरिखानां चायं प्रतिविशेषः - परिखा उपरि विशाला अधः संकुचिता, खातं तु उभयत्रापि सममिति, 'पागारट्टालयकवाडतोरणपडिदुवारादेसभागा' इति, प्रतिभवनं प्राकारेषु- सालेषु अट्टालककपाटतोरणप्रतिद्वाराणि - अट्टालककपाटतोरणप्रतिद्वाररूपा देशभागा - देशविशेषा येषु तानि प्राकाराट्टालककपाटतोरणप्रतिद्वारदेशभागानि, तत्राट्टालकाः - प्राकारस्येपरिभृत्याश्रयविशेषाः कपाटानि - प्रतोलीद्वारसत्कानि, एतेन प्रतोल्यः सर्वत्र सूचिताः, अन्यथा कपाटानामसंभवात्, तोरणानि प्रतोलीद्वारेषु प्रतिद्वाराणि - स्थूलद्वारापान्तरालवर्तीनि लघुद्वाराणि,
तथा 'जंतसयग्धिमुसलमुसंढिपरिवारिया' इति यन्त्राणि - नानाप्रकाराणि शतघ्नयोमहायष्टयो महाशिला वा याः' पातिताः सत्यः पुरुषाणां शतानि घ्नन्ति मुशलानि - प्रतीतानि मुसण्ढयः - प्रहरणविशेषाः तैः परिवारितानि - समन्ततो वेष्टितानि, अत एवायोध्यानिपरैर्योद्धुमशक्यानिअयोध्यत्वादेव च 'सदाजयानि' सदा-सर्वकालं जयो येषु तानि सदाजयानि, सर्वकालं जयवन्तीत्यर्थः, तथा सदा सर्वकालं गुप्तानि प्रहरणैः पुरुषैश्च योद्ध भिः सर्वतः - समन्ततो निरन्तरं परिवारिततया परेषामसहमानानां मनागपि प्रवेशासंभवात्, 'अडयालकोट्ठगरइया' इति अष्टचत्वारिंशद्भेदभिन्नविच्छित्तिकलिताः कोष्ठका - अपवरका रचिताः स्वयमेव रचनां प्राप्ता येषु तानि अष्टचत्वारिंशत्कोष्ठकरचितानि, सुखादिदर्शनात् पाक्षिको निष्ठान्तस्य परनिपातः,
तथा अष्टचत्वारिंशंभेदभिन्नविच्छित्तयः कृता वनमाला येषुतानि अष्टचत्वारिंशत्कृतवनमालानि, अन्ये त्वमिदधति - अडयाल शब्दो देशीवचनत्वात् प्रशंसावाची, ततोऽयमर्थ:प्रशस्तकोष्ठकरचितानि प्रशस्तकृतवनमालानीति तथा क्षेमाणि - परकृतोपद्रवरहितानि, शिवानि - सदामङ्गलोपेतानि, तथा किङ्कराः किङ्करभूता येऽमरास्तैर्दण्डैः कृत्वोपरक्षितानि सर्वतः समन्ततो रक्षितानि किङ्करामरदण्डोपरक्षितानि, 'लाउल्लोइयमहिया' इति लाइयं नाम-यद् भूमेर्गोमयादिनोपलेपनं उल्लोइयं कुड्यानां मालस्य च सेटिकादिभिः संमृष्टीकरणं, लाउल्लोइयाभ्यां महितानि - पूजितानि लाउल्लोइयमहितानि, तथा गोशीर्षेण-गोशीर्षनामकचन्दनेन सरसरक्तचन्दनेन च दर्दरेण - बहलेन चपेटाप्रकारेण वा दत्ताः पञ्चाङ्गुलयस्तला - हस्तका येषु तानि गोशीर्षसरसरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितलानि, तथा उपचिता- निवेशिताः चन्दनकलशा - माङ्गल्यकलशा येषु तानि उपचितचन्दनकलशानि, 'चन्दनघडसुकयतोरणपडिदुबारदेसभागा' इति चन्दनघटैःचन्दनकलशैः सुकृतानि सुष्ठुकृतानि शोभितानीति तात्पर्यार्थः यानि तोरणानि तानि चन्दनघटसुकृततोरणानि प्रतिद्वारदेशभागे येषु तानि चन्दनघटसुकृततोरणप्रतिद्वारदशभागानि तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
--