________________
९४
प्रज्ञापनाउपाङ्गसूत्र-१-२/-1-२०३ 'आसत्तोसत्तविउलवट्टवग्धारियमलावा' इति आ-अवाङ्अधोभूमी सक्त आसक्तो भूमौ लग्न इत्यर्थः ऊर्ध्वं सक्त उत्सक्तः उल्लोचकले उपरि संबद्ध इत्यर्थः विपुला-विस्तीर्णः वृत्तो-वर्तुलः 'वग्धारिय' इतिप्रलम्बितोमाल्यदामकलापः-पुष्पमालासमूहोयेषुतान्यासक्तोसक्तविपुलवृत्तप्रलम्बितमाल्यदामकलापानि, तथा पञ्चवर्णेन सुरभिणा मुक्तेन-क्षिप्तेन पुष्पपुञ्चलक्षणेन उपचारेण-पूजया कलितानिपञ्चवर्णसुरभिमुक्तपुष्पपुओपचारकलितानि, ___'कालागुरुपवरकुन्दुरुक्कतुरुक्कधूवमधमधंतगन्धुद्भूयाभिरामे' इति कालागुरुः प्रसिद्धः प्रवरः-प्रदानः कुन्दुरुक्कः-चीडातुरुष्कं-सिल्हकंकालागुरुश्चप्रवरकुन्दुरुक्कतुरुष्केच कालागुरुप्रवरकुन्दुरुक्कतुरुष्काणितेषांधूपस्य यो मघमघायमानो गन्ध उद्भूत-इतस्ततो विप्रसृतस्तेनाभिरामाणि-रमणीयानि कालागुरुप्रवरकुनदुरुक्कतुरुष्कधूपमघमघायमानगन्धोद्भूताभिरामाणि, तथा शोभनो गन्धोयेषांते सुगन्धाः तेचतेवरगन्धाश्च-वासाः सुगन्धवरगन्धास्तेषां गन्धः स एष्वस्तीति सुगन्धवरगनधगन्धिकानि, “अतोऽनेकस्वरात्" इति इकप्रत्ययः, अत एव गन्धवर्तिभूतानिसौरभ्यातिशयाद् गन्धद्रव्यगुटिकाकल्पानीति भावः, तथा अप्सरोगणानां संघः-समुदायः तेन सम्यक् रमणीयतायविकीर्णानि व्याप्तानि अप्सरोगणसङ्घविकीर्णानि, तथा दिव्यानांत्रुटितानाम्आतोद्यानां वेणुवीणामृदङ्गादीनां ये शब्दास्तैः संप्रणदितानि-सम्यक्-श्रोतृमनोहारितया प्रकर्षण सर्वकालं नदितानि-शब्दवन्ति, ___'सर्वरत्नमयानि’ सर्वात्मना-सामस्त्येन न त्वकदेशेन रत्नमयानि समस्तरलमयानि वा, अच्छानि-आकाशस्फटिकवदतिस्वच्छानि, श्लक्ष्णानि-लक्ष्णपुद्गलस्कन्धनिष्पन्नानि श्लक्ष्णदलनिष्पन्नपटवत्, 'लण्हानि' मसृणानि घुण्टितपटवत्, ‘घट्टा' इति घृष्टानीव घृष्टानि खरशाणया पाषाणप्रतिमावत्, ‘मट्ठा' इति, मृष्टानि, सुकुमारशाणया पाषाणप्रतिमेव,
__ अतएव नीरजांसिस्वाभाविकरजोरहितत्वान्निर्मलानि आगन्तुकमलाभावानिष्पकानिकलङ्गविकलानि कर्दमरहितानि वा 'निक्कंकडच्छाया' इति निष्कङ्कटा निष्कवचा निरावरणा निरुपघातेतिभावार्थः छाया-दीप्तिर्येषांतानि निष्कङ्कटच्छायानि, सप्रभाणि-स्वरूपतः प्रभावन्ति, समरीचीनिबहिर्विनिर्गतकिरणजलानि, सोद्योतानि-बहिव्यवस्थितवस्तुस्तोमप्रकाशनकराणि, 'प्रसादीयानि' प्रसादाय–मनःप्रसत्तये हितानि प्रसादीयानि-मनःप्रसत्तिकारीणीति भावः, तथा दर्शनीयानि-दर्शनयोग्यानि यानि पश्यतः चक्षुषी न श्रमं गच्छत इति ततापत्यार्थः 'अभिरूपा' इति अभि-सर्वेषां द्रष्टृणां मनःप्रसादानुकूलतया अभिमुखं रूपं येषां तानि अभिरूपाणि अत्यन्तकमनीयानीत्यर्थः,अत एव 'पडिरूवा' इति प्रतिविशिष्टं रूपं येषां तानि प्रतिरूपाणि, अथवा प्रतिक्षणं नवं नवं रूपं येषां तानि प्रतिरापाणि । मू. (२०४) असुरा नाग सुवन्ना विज्जू अग्गी य दीव उदही य।
सिपवणथणियनामा दसहा एए भवणवासी॥ मू. (२०५) चूडामणिमउडरयणभूसणणागफडगरुलवइरपुत्रकलसंकउप्फेसा सीहमवरगयंक- अस्सवरवद्धमाणनिजुत्तचित्तचिंधगता सुरुवा महष्टिया महज्जुइआ महब्बला महायसा महानुभावा महासोक्खा हारविराइअवच्छा कडगतुडियधभियभुआ अंगदकुंडलमट्टगंडतलकनपीढधारी विचित्तहत्थाभरणा विचित्तमालामउलिमउडा कल्लाणगपवरत्थपरिहिया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org