________________
पदं-२, उद्देशकः-, द्वारं
__८३ तृतीयं समुद्राणां न विद्यते इतीदं विशेषणं द्वीपानां द्रष्टव्यं, द्वीपाश्च समुद्रौ च द्वीपसमुद्रा स्तेषु 'निधिातेन’ व्याघातस्याभावो निव्याघातं तेन निव्याधातेन “वातृतीयायाः" इतिपाक्षिकोऽमादेशाभावः, व्याधाताभावेनेत्यर्थः, ‘पञ्चदशसु कर्मभूमिषु पञ्चभरतपञ्चैरावतपञ्चमहाविदेहरूपासु 'व्याधातं प्रतीत्य' व्याघाते सतीति भावः पञ्चसु महाविदेहेषु, इयमत्र भावना-व्याघातो नाम अतिस्निग्धोऽतिरुक्षो वा कालः, तस्मिन् सत्यग्निव्यवच्छेदात्, ततोयदापञ्चसुभरतेषुपञ्चस्वैरावतेषु सुषमसुषमासुषमासुषमदुष्पमा वा वर्तते तदाऽतिस्निग्धः कालः दुष्षमदुष्षमायां चातिरुक्ष इत्यस्ति व्यवच्छेदः तस्मिन् सति पञ्चसु महाविदेहेषु, शेषकालं पञ्चदशस्वपिकर्मभूमिषु, _ 'एत्थ णं' इत्यादि, अत्र-एतेषु स्थानेषु वादरतेजःकायिकानां स्थानानि प्रज्ञप्तानि, 'उववाएणं इत्यादि, उपपातेन' यथोक्तस्थानप्राप्तयाऽऽभिमुख्येन, अपान्तरालगतावपीतिभावः, चिन्त्यमाना लोकस्यासंख्येये भागे, स्तोकत्वात्, समुद्घातेनेनापि चिन्त्यमाना लोकस्यासंख्येये भागे, मारणान्तिकसमुद्घातवशतो विक्षिप्तात्मप्रदेशदण्डानामपि स्तोकतया लोकासंख्येयभागमात्रव्यापित्वात्, स्वस्थानेन लोकस्यासंख्येयभागे, मनुष्यक्षेत्रस्य पञ्चत्वारिंशदयोजनलक्षप्रमाणायामविष्कम्भतया लोकासंख्येयभागमात्रत्वात्, ।
अपर्याप्तबादरतेजःकायिकस्थानानि पृच्छति-'कहिणं भंते!' इत्यादि प्रश्नसूत्रं गता), भगवानाह-“गोयमा !' इत्यादि, गौतम ! यत्रैव बादरतेजः-कायिकानां पर्याप्तानां स्थानानि तत्रैव वादरतेजःकायिकानामपर्याप्तानामपि स्थानानि प्रज्ञप्तानि, पर्याप्तनिश्रयैवापर्याप्तानामवस्थानात्, ‘उववाएणं लोगस्स दोसु उद्यकवाडेसु तरियलोयतट्टे य' इति, इहार्धतृतीयद्वीपसमुद्रनिः-सृते अर्द्धतृतीयद्वीपसमुद्रप्रमाणबाहल्ये पूर्वापरदिणोत्तरस्वयम्भूरमणपर्यन्ते वे कपाटे केवलिसमुद्घातकपाटवकत्ऊर्ध्वंपिलोकान्तं स्पृष्टेते अधोऽपिचलोकान्तं स्पृष्टेतेऊर्ध्वंकपाटे तयोः ऊर्द्धकपाटयोः, तथा तिरियलोयतट्टेय' इति, तट्टे-स्थालं तिर्यग्लोकेतट्टमिव तिर्यग्लोकतढें तस्मिंश्च स्वयम्भूरमणसमुद्रवेदिकापर्यन्ते अष्टादशयोजनशतबाहल्ये, समस्ततिर्यग्लोके चेत्यर्थः,
उपपातेन बादरतेजः कायिकानामपर्याप्तानां स्थानानिप्रज्ञप्तानि, केचित् 'तिरियलोयतले य' इत्येवं व्याचक्षते-तयोः-कपाटयोः स्थितः तिर्यग्लोकश्चासौ तस्थः, तयोरूबँकपाटयोरन्तवर्तितिर्यग्लोक इत्यर्थः तस्मिंश्च, किमुक्तं भवति?-द्वयोरूबँकपाटयोर्यथोक्तस्वरूपयोस्तिर्यग्लोकेऽपि च तयोरेव कपाटयोरन्तर्गते नान्यत्र, शेषतिर्यग्लोककव्यवच्छेदपरमेतद् वाक्यं, न विधानपरं, विधानस्य कपाटग्रहणेनैव सिद्धत्वात्, तत्त्वंपुनः केवलिना विशिष्टश्रुतविदा वागम्यं,
इयमत्र भावना-इह त्रिविधा बादरपर्याप्ततेजःकायिकाः,तधया एकभविका बद्धायुषोऽभिमुखनामगोत्राश्च, तत्र ये एकस्माद् विवक्षिताद् भवादनन्तरं बादरापर्याप्ततेजःकायिकत्वेनोत्पत्स्यन्ते ते एकभविकाः, ये तु पूर्वभवत्रिभागादिसमयैर्बद्धवादशपर्याप्ततेज.कावर दुसरते वद्धायुषः, ये पुनर्बादरापर्याप्ततेजःकाविकानुर्नामगोत्राणि पूवभवमोचनानन्तरंसाक्षाद्वेदयन्ते तेऽभिमुखनामगोत्राः, तत्रैकभविका वद्धायुषश्च द्रव्यतो वादरापर्याप्ततेजःकायिका न भावतः, तदाऽऽयुरनागगोत्रवेदनाभावात्, ततो न तैरिहाधिकारः, किन्तुअभिमुखनामगोत्रैः, तेषामेवोपपातस्य स्वस्थानप्राप्तयाभिमुख्यलक्षणस्य लभ्यमानत्वात्, तत्र यद्यपि ऋजुसूत्रनयदर्शनेन
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org