________________
प्रज्ञापनाउपाङ्गसूत्र-१-२/-1-1१९२ देवनैरयिकवर्जेषुशेषेषु सर्वेष्वपिस्थानेषुगच्छन्ति, ततोऽपान्तरालगतावपि वर्तमानाअमी गृह्यन्ते, अतिप्रभूताश्च स्वभावतोऽपी (तोऽभी इ)त्युपपातेन समुद्घातेन (च) सर्वलोके वर्तन्ते ।
अन्ये त्वभिदधति-स्वभावत एवामीवहव इतिउपपातेन समुद्घातेनच सर्वलोकव्यापिनः, तत्रोपपातः केषांचिद् ऋजुगत्या केषांचिद् वक्रगत्या । तत्र ऋजुगतिः सुप्रतीता, वक्रस्थापना चैवम्,अत्रयदैव परथमंवक्रमेके संहरन्ति तदैवापरेतद्वक्रदेशमापूरयन्ति, एवं द्वितीयवक्रदेशसंहरणेऽपि वक्रोत्पत्तावपि प्रवाहतो निरन्तरमापूरणं भावनीयम्।
सट्ठाणेणं लोगस्स असंखेजइभागे' इति यथा पर्याप्तानां भावितं तथाऽपर्याप्तानामपि भावनीयम्, तन्निश्रया तेषामुत्पादभावात् ।
सूक्ष्मपृथिवीकायिकपर्याप्तापर्याप्तसूत्रे 'जे पज्जत्ता अपज्जत्ता ते सव्वे एगविहा अविसेसा अनाणता सवलोलयपरियावनगा' इति सूक्ष्मपृथिवीकायिका ये पर्याप्ता ये चापर्याप्ताः ते सर्वेष्येकविधाः-एकप्रकाराः, प्राक्कृतं स्वस्थानादिविचारमधिकृत्य भेदाभावात्, अविशेषाविशेष-रहिताः, यथा पर्याप्तस्तथेतरेऽपीति भावः 'अनानात्वा' नानात्ववर्जिताः, देशभेदेनालक्षितनानात्वा इत्यर्थः, किमुक्तं भवति ?-एष्वाधारभूतेष्वाकाशप्रदेशेषु एके तेष्वेव इतरेऽपीति, सर्वलोकपर्यापन्नाः-सर्वलोकव्यापिनः, उपपातसमुद्घातस्वस्थानैः प्रज्ञप्ताः मया अन्यैश्च ऋषभादिभिस्तीर्थकृभिः ,अनेन आगमस्य कथंचिद् नित्यत्वमावेदितम्, हे श्रमण! हे आयुष्मन् आमन्त्रणमिदं भगवत्प्रयुक्तं गौतमस्य ।। . एवमप्कायिकसूत्राण्यपिबादरसूक्ष्मविषयाणि । नवरं-पर्याप्तबादराप्कायिकसूत्रे ‘सत्तसु घनोदहिवलएसुत्ति' सप्तधनोदधिवलयानि स्वस्वपृथिवीपर्यन्तवेष्टकानिवलयाकाराणि । 'अहोलोए पायालेसुत्ति' पातालकलएसुत्ति' सप्तधनोदधिवलयानिस्वस्वपृथिवीपर्यन्तवेष्टकानि वलयाकाराणि 'अहोलोए पायालेसुत्ति' पातालकलशेषु वलयामुखभृतिषु, वलयामुखप्रभृतिषु, तेष्वपि द्वितीये त्रिभागे देशतः, तृतीयेत्रिभागेसर्वाला जलभावात् । भवनेषु कल्पेषु विमानेषुचजलं वाप्यादिषु, विमानादीनि चात्र कल्पगतानि वेदितव्यानि, ग्रैवेयकादिषु वापीनामसंभवतो जला संभवात् । अवटाः कूपाः । तडागानि प्रतीतानि । नद्यो गङ्गासिन्धुप्रभृतयः । इदाः पद्मदादयः । वाप्यश्चतुरनकाराः। ता एववृत्ताकाराः पुष्करिण्यः, यदिवा पुष्कराणि पद्मानि विद्यन्ते यासुताः पुष्करिण्यः ।दीर्धिका ऋजुलधनुधः ता एव वक्रागुंजालिका । बहूनि केवलकेवलानि पुष्पावकीर्णानमि सरांसीत्युच्यन्ते । तथा बहूनि सरांसि एकपङ्कतया व्यवस्थितानि सरपङ्कितस्ता बह्वयः सरःपङ्तयः । तथा येषु सरःसु पङ्क्तया व्यवस्तितेषु कूपोदकं प्रणालिकया संचरति सा सरःसरः पङ्कक्तः, ताबह्वयः सरःसरःपङ्कतयः । बिलानीव बिलानि स्वभावनिष्पना जगत्यादिषुकूपिकास्तेषां पङ्कतयो विलपङ्तयः । उज्झरागिरिष्वम्भसांप्रम्नवाः । ते एवसदावस्थायिनोनिर्झराः । छिल्लराणिअखाताः स्तोकजलाश्रयभूता भूप्रदेशा गिरिप्रदेशा वा । पल्वलानि अखातानि सरांसि । वप्राः
किंबहुना?,सर्वेष्वेव जलाशयेषु, एतदेळ व्याचष्टे--जलस्थानेषु ।शेषभावना प्राग्वत्, ___ अधुना बादरपर्याप्ततेजःकायिकस्थानानि पृच्छति-'कहि गं भंते ! वादरतेउकाइयाणं' इत्यादिप्रश्नसूत्रं सुगम, भगवानाह-'गोयमा!' इत्यादि, गौतम! 'स्वस्थानेन' स्वस्थानमङ्गीकृत्य अन्तर्मनुष्यक्षेत्रे मनुष्यक्षेत्रमध्ये इत्यर्थः, अर्द्धतृतीयं येषांतेअर्द्धतृतीयाः तत्रान्तर्मनुष्यक्षेत्रस्यार्द्ध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org