SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ पदं-२, उद्देशक:-, द्वारं ग्रैवेयकसंबन्धिषु प्रकीर्णकरूपेषु, विमानावलिकासु - आवलिकाप्रविष्टेषु ग्रैवयकादिविमानेषु, विमानप्रस्तटेषु विमानभूमिकारूपेषु, अत्रापि प्रस्तटग्रहणं विमानापान्तरालभाविनामपि यथासंभवभाविनां वादरपर्याप्तपृथ्वीकायिकानां स्थानपरिग्रहार्थं, तथा तिर्यग्लोके टङ्केषु० - छित्रटङ्केषु कूटेषु - सिद्धायतनकूटप्रभृतिषु शैलेषु - शिखरहींनपर्वतेषु शिखरिषु - शिखरयुक्तेषु पर्वतेषु प्राग्भारेषु - ईषत्कुनेषु विजयेषु - कच्छादिषु वक्षस्कारेषु - विद्युत्प्रभादिषु पर्वतेषु वर्षेषु भरतादिषु वर्षधरेषु - हिमवदादिपर्वतेषु वेलासु- समुद्रादिपानीयरमणभूमिषु वेदिकासु-जम्बूद्वीपजगत्यादिसंबन्धिनीषु द्वारेषु - विजयादिषु तोरणेषु - द्वारादिसंबन्धिषु, किंबहुना ?, सामस्त्येन सर्वेषु द्वीपेषसर्वेषु समुद्रेषु, 'एत्थणं' इत्यादि, अत्रैतेषु स्थानेषु बादरपृथ्वीकायिकानां पर्याप्तानां स्थानानि प्रज्ञप्तानि मया अन्यैश्च तीर्थकृद्भिः, 'उवधाएणं' इत्यादि उपपतनमुपपातः, वादरपृथ्वीकायिकानां पर्याप्तानां यदनन्तरमुक्तं स्थानं तत्प्राप्तयाभिमुख्यमिति भावः, तेनोपपातेन, उपपातमङ्गीकृत्येति भावः, लोकस्य चतुर्दशर-ज्यात्मकस्यासंख्येये भागे, अत्रैके व्याचक्षते - ऋजुसूत्रनयो विचित्रः ततो यदा परिस्थूरऋजुसूत्रनय-दर्शनेन वादरपृथ्वीकायिकाः पर्याप्ताश्चिन्त्यन्ते तदा ये स्वस्थानप्राप्ता आहारादिपर्याप्तिपरिसमाप्तया विशिष्टविपाकतो बादरपर्याप्तपृथ्वीकायिकायुर्वेदयन्ते ते एव द्रष्टव्याः, नापान्तरालगतावपि तदानीं विपाकायुर्वेदनासंभवात्, स्वस्थानं च तेषां रत्नप्रभादिकं समुदितमपि लोकस्यासंख्येयभागे वर्तते, तत उपपातेनापि लोकस्यासंख्येयभागता वेदितव्या, अन्ये त्वमिदधति पर्याप्ता हि नाम बादरपृथ्वीकायिकाः सर्वस्तोकाः, ततस्तेऽपान्तरालगतावपि परिगृह्यमाणा लोकस्यासंख्येयभागे एवेति न कश्चिद्दोषः, तथा च समुद्घातेनापि लोकस्यासंख्येयभागे एव वक्ष्यन्ते, अन्यथा समुद्घातावस्थायामपि स्वस्थानातिरेकेण क्षेत्रान्तरवर्तित्वसंभवादसंरख्येयभागवर्तिता नोपपद्यते इति, तत्त्वं पुनः केवलिनो विदन्ति विशिष्टश्रुतविदो वा । तथा 'समुग्धाएणं ० इति समुद्घातेन समुद्घातमधिकृत्य लोकस्यासंख्येयभागे, इयमत्र भावना-यदा बादरपर्याप्ताः पृथ्वीकायिकाः सोपक्रमायुषो निरुपक्रमायुषो त्रिभागाद्यवशेषायुषः पारभविकमायुर्बद्धा मारणान्तिकसमुद्घातेन समवहन्यन्ते तदा ते विक्षिप्तात्मप्रदेशदण्डा अपि लोकस्यासंख्येयतमे एव भागे वर्तन्ते, स्तोकत्वाद्, बादरपृथ्वीकायिकपर्याप्तायुश्चाद्याप्यक्षीणमिति पर्याप्तबादरपृथ्वीकायिका अपि लभ्यन्ते । ८१ इह पूर्वं पृथ्व्यादिषु स्वस्थानमात्रमुक्तम्, इदानीं स्वस्थानेनानपि कियति लोकस्य भागे वर्तन्ते इति निरूपयति- 'सद्वाणेणं लोगस्स असंखिजे भागे' इति, स्वस्थानं रत्नप्रभादि, तच्च समुदितमपि लोकस्यासंख्येयभागवर्ति, तथाहि - रत्नप्रभा अशीतियोजन सहस्राधिकलक्षणप्रमाणपिण्डभावा, एवं शेषा अपि पृथ्व्यः स्वस्वधनभावेन वक्तव्याः पातालकलशा अपि योजनलक्षावगाहा नरकावासाः त्रिसहस्रयोजनोच्छ्रयाः विमानान्यपि द्वात्रिंशद्योजनशतबाहल्यानि ततः सर्वेषामपि परिमितभावात् समुदितानामप्यसंख्येयभागवर्तितैवेति । बादपर्याप्तपृथ्वीकायिकसूत्रे 'उववाएणं सव्वलोए समुग्धाएणं सव्वलोएइति, इहापर्याप्ता बादरपृथ्वीकायिका अपान्तरालगतावपि स्वस्थानेऽपि चापर्याप्तबादरपृथ्वीकायिकायुविशिष्टविपाकतो वेदयन्ततथा देवनैरयिकवर्जेभ्यः शेषसर्वकायेभ्यश्चोत्पद्यन्ते, उद्वृत्ता अपिच 1016 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy