SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ८० प्रज्ञापनाउपाङ्गसूत्र-१-२/-1-1१९२ कहि णं भंते ! बायरतेउकाइयाणं अपजत्तगाणं ठाणा पं०, गोयमा ! जत्थेव बायरतेउकाइयाणं पज्जत्तगाणं ठाणा तत्थेव बायरतेउकाइयाणं अपज्जतगाणंठाणा पं०, उववाएणं लोयस्स दोसुउड्डकवाडेसुतिरियलोयतद्दे यसमुग्धाएणंसव्वलोएसटाणेणं लोयस्स असंखेजइभागे कहि णं भंते ! सुहुमतेउकाइयाणं पञ्जत्तगाण य अपञ्जत्तगाण य ठाणा प०?, गोयमा ! सुहुमतेउकाइआ जे पज्जत्तगा जे अपञ्जत्तगा ते सव्वे एगविहा अविसेसा अनाणत्ता सव्वलोयपरियावनगा प० समणाउसो!! वृ. 'कहिंति कस्मिन्, णंशब्दो वाक्यालङ्कारे, भदन्तेति परमगुर्वामन्त्रणे, बादरपृथ्वीकायिकानां पर्याप्तानां स्थानानि-स्वस्थानादीनि 'प्रज्ञप्तानि ?' प्ररूपितानि, एवं गौतमस्वामिना प्रश्ने कृते भगवानाह वर्धमानस्वामी-'गोयमा! सहाणेणं' इत्याति, ननु गौतमोऽपि भगवानुपचितकुशलमूलो गणधरः तीर्थकरभाषितमातृकापदश्रवणमात्रावाप्तप्रकृष्टश्रुतज्ञानावरणक्षयोपशमश्चतुर्दशपूर्ववत्सर्वाक्षरसन्निपातीति विवक्षितार्थप्रतिज्ञानसमन्वित एव ततः किमर्थं पृच्छति?,नहिचतुर्दशपूर्वविदः सर्वोत्कृष्टश्रुतलब्धिसमन्वितस्य किञ्चिाज्ञापनीयमविदितमस्ति, यत उक्तम्॥१॥ . “संखाईए विभवे साहइ जंवा परो उ पुच्छेना । नयणं अणाइसेसी वियाणई एस छउमत्यो" सत्यमेतत्, केवलं जाननेव गौतमस्वामी भगवानन्यत्र विनेयेभ्यः प्रतिपाद्य तत्संप्रत्ययनिमित्तं विवक्षितमर्थं पृच्छति, यदिवा प्रायः सर्वत्र गणधरप्रश्नतीर्थकरनिर्वचनरूपं सूत्रमतो भगवानार्यश्यामोऽपिइत्थमेव सूत्रंरचयति, अथवा संभवति तस्यापिगणभृतो गौतमस्वामिनोऽनाभोगः, छद्मस्थत्वात्, उक्तंच॥१॥ "न हि नामानाभोगश्छद्मस्थस्येह कस्यचिद् नास्ति । ज्ञानावरणीयं हि ज्ञानावरणप्रकृति कर्म ।।" ततो जातसंशयः सन् पृच्छतीति न कश्चिद् दोषः, 'गोयमा' इति लोकप्रथितमहाविशिष्टगोत्राभिधायकोऽयमामन्त्रणध्वनिः, हे गौतमगोत्रेति भावार्थः । _ 'सहाणेणं' इति स्वस्थानं यत्रासते बादरपृथ्नवीकायिकाः पर्याप्ताः आसीनाश्च वर्णादिविभागेनादेष्टुं शक्यन्ते तत्स्वस्थानमिति भावः, स्वस्थानग्रहणमुपपातसमुद्घातस्थाननिवृत्त्यर्थ, तेन स्वस्थानेन स्वस्थानमङ्गीकृत्येति भावः। अष्टासुपृथ्वीषु सर्वत्र बादरपृथ्वीकायिकानां पर्याप्तानां स्थानानीति योगः,ता एव अष्टौ पृथ्वीनामग्राहमाह-'तंजहा' इत्यादि रत्नप्रभायां यावदप्टम्यामीषत्याग्भारायाम, तथाऽधोलोके पातालेषु पातालकलशेषुवलयामुखप्रभृतिषुभवनेषु-भवनपतिनिकायावासरूपेषु, भवन-प्रस्तटेषु-भवनभूमिकारूपेषु, इह भवनग्रहणेन भवनानामेव केवलानां ग्रहणं, भवनप्रस्तटग्रहणेन तु भवनानामपान्तरालस्यापि तथा नरकेषु-प्रकीर्णकरूपेषु नरकावासेषु, नरकावलिकासु-आवलिकाव्यवस्थितेषु नरकावासेषु, नरकप्रस्तटेषु-नरकभूमिरूपेषु, अत्रापि नरकनरकावलिकाग्रहणेन केवला एव नरकावासाः परिगृह्यन्ते, नरकप्रस्तटग्रहणेन तु नरकापान्तरालमपि । ऊयलोके कल्पेषु-सौधर्मिकादिकल्पेषु, अनेन द्वादशदेवलोकपरिग्रहः, विमानेषुप-- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy