________________
पदं-१, उद्देशकः-, द्वार
७३ नोत्सर्पिण्यवसर्पिणीरूपे तु चतुर्थारकप्रतिभागकाले न संभवन्ति, महाविदेहक्षेत्रे तेषामसंभवात् २१ चारित्रद्वारे-संयमस्थानद्धारेण मार्गणा, तत्र सामायिकस्य छेदोपस्थापनस्य च चारित्रस्य यानि जघन्यानि संयमस्थानानि तानि परस्परं तुल्यानि, समापरिणामत्वात्, ततोऽसंख्येयलोका-काशप्रदेशप्रमाणनि संयमस्थानान्यतिक्रम्योर्ध्वं यानि संयमस्थानानि तानि परिहारविशुद्धिक- योग्यानि, तान्यपि च केवलिप्रज्ञया परिभाव्यमानानि असंख्येयलोकाकाशप्रदेशप्रमाणानि, तानि प्रथमद्वितीयचारित्राविरोधीनि, तेष्वपि संभवात्, तत ऊध्वं यानि संख्यातीतानि संयमस्थानानि तानि सूक्ष्मसंपराययथाख्यतचारित्रयोग्यानि, उक्तंच॥१॥ "तुल्ला जहन्नठाणे संजमठाणाणि पढमबिइयाणं ।
तत्तो असंखलोए गंतुं परिहारियट्ठाण ॥ ॥२॥ . तेऽवि असंखा लोगा अविरुद्धा चेव पढमविइयाणं।
उपरिपितउ असंखा संजमठाणा उ दोण्हंपि।।" तत्र परिहारविशुद्धिककल्पप्रतिपत्तिः स्वकीयेष्वेव संयमस्थानेषु वर्तमानस्य भवति न शेषेषु, यदा त्यतीतनयमधिकृत्य पूर्वप्रतिपन्नो विवक्ष्यते तदा शेषेष्वपि संयमस्थानेषु भवति, परिहारविशुद्धिकल्पसमाप्तयनन्तरमन्येष्वपि चारित्रेषु संभवात्, तेष्वपि च वर्तमानस्यातीतनयमपेक्ष्य पूर्वप्रतिपन्नत्वाविरोधात्, उक्तंच॥१॥ “सट्ठाणे पडिवत्ती अनेसुवि होज पुव्वपडिवनो।
तेसुवि वढ्तो सो तीतनयं पप्प वुचति उ ।। ३। तीर्थद्वारेपरिहारविशुद्धिको नियमतस्तीर्थेप्रवर्तमाने एव सतिभवति, न तछेदे नानुत्पत्त्यां वातदभावे जातिस्मरणादिना, उक्तंच॥१॥ “तित्थत्ति नियमतोचतिय होइ स तिथंमि न उण तदभावे ।
विगएऽणुप्पन्ने वा जाइसरणाइएहितो॥४। पर्यायद्वारे-पर्यायो द्विधा-गृहस्थपर्यायो यतिपर्यायश्च, एकैकोऽपि द्विधा-जघन्यत उत्कतृष्टश्च, तत्र गृहस्थपर्यायो जधन्यत एकोनत्रिंशद् वर्षाणि, यतिपर्यायो विंशतिः, द्वावपिच उत्कर्षतो देशोनपूर्वकोटिप्रमाणौ, उक्तंच॥१॥ “एयस्स एस नेओ गिहिपज्जओ जहन्निगुणतीसा।
जइपज्जाओ वीसा दोसुवि उक्कोस देसूणा ॥५॥ आगमद्वारे-अपूर्वमागमंसनाधीते, यस्मात्तंकल्पमधिकृत्य प्रगृहीतोचितयोगाराधनत एव स कृतकृत्यतां भजते, पर्वाधीतं तु विनतसिकाक्षयनिमित्तं नित्यमेवैकाग्रमनाः सम्यक् प्रायेणानुस्मरति, आह च॥१॥ "अप्पुववं नाहिजइ आगममेसो पडुच्च तं कप्पं ।
जमुचियपगहिअजोगाराहणओ चेव कयकियो ।। ॥२॥ पुबाहीयं तु तयं पायमनुसरइ निच्चमेवेस।
एगग्गमणो सम्मं विस्सोयसिगाइखव्हेऊ ।।६। वेदद्वारे-प्रवृत्तिकाले वेदतः पुरुष वेदो का भवेत् नपुंसकवेदो वा, न स्त्रीवेदः, स्त्रियाः
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org