SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ७४ प्रज्ञापनाउपाङ्गसूत्र-१-१/-1-1१९१ परिहारविशुद्धिकल्पप्रतिपत्त्यसंभवात्, अतीतनयमधिकृत्य पुनः पूर्वप्रतिपन्नश्चिन्त्यमानः सवेदो वा भवेत् अवेदोवा, तत्रसदेदः श्रेणिप्रतिपत्त्यभावे उपशमश्रेणिप्रतिपत्तौवा, क्षपकश्रेणिप्रतिपत्ती त्ववेद इति, उक्तं च॥१॥ "वेदो पवित्तिकाले इत्थीवज्जो उ होइ एगयरो । पुव्वपडिववन्नगो पुण होज्ज सवेदो अवेदो वा ॥७।" कल्पद्वारे-स्थितकल्पे एवायं नास्थितकल्पे, “ठियकप्पमि य नियमा" इति वचनात्, तत्राचेलक्यादिषु दशस्वपिस्थानेषुवे स्थिताः साधवः तत्कल्पः स्थितकल्प उच्यते, ये पुनश्चतुर्यु शय्यातरपिण्डादिष्वस्थितेषु कल्पेषु स्थिताः शेषेषु चाचेलक्यादिषु षट्स्वस्तिताः तत्कल्पोऽस्थितकल्पः, उक्तंच॥१॥ “ठिययाठियओ य कप्पोआचेलक्काइएसु ठाणेसु । सव्वेसु ठिया पठमो चउ ठिय छसु अहिया बीओ।।" -आचेलक्यादीनि च दश स्थानान्यमूनि॥१॥ "आचेलकुद्देसियसेजायररायपिंडकिइकम्मे । वयजेठ्ठपडिक्कमणे मासं पज्जोसवणकप्पो।।" __ -चत्वारश्चावस्थिताः कल्पा इमे॥१॥ “सेजायरपिडम्मी चाउचामे य पुरिसजेडे य । किइकम्मस्स य करणे चत्तारि अवट्ठिया कप्पा ।। ८।" लिङ्गद्वारे-नियमतो द्विविधेऽपि लिङ्गे भवति, तद्यथा-द्रव्यलिङ्गे भावलिङ्गेच, एकेनापि विना विवक्षितकल्पोचितसामाचार्ययोगात् ९।। लेश्याद्वारे-तेजःप्रभृतिकासूत्तरासु तिसृषु विशुद्वासु लेश्यासु परिहारविशुद्धिकं कल्पं प्रतिपद्यते, पूर्वप्रतिपन्नः पुनः सर्वास्वपि कथञ्चिद् भवति, तत्रापीतरास्वविशुद्धलेश्यासु नात्यन्तसंक्लिष्टासुवर्तते, तथाभूतासु वर्तमानो(ऽपि)न प्रभूतकालमवतिष्ठते, किंतु स्तोकं, यतः स्ववीर्यवशात् झटित्येवताभ्योव्यावर्तते, अथ प्रथमतएवकस्मात्प्रवर्तते?, उच्यते, कर्मवशात्, उक्तं च॥१॥ “लेसासु विसुद्धासुं पडिवजइ तीसुन उण सेसासु । पुव्वपडिवन्नओ पुन होज्जा सव्वासुवि कहंचि ॥ ॥२॥ नऽच्चंतसंकिलिवासु थेवं कालं च हंदि इयरासु। चित्ता कम्माण गई तहा विवरीयं फलं देइ ।।" १०। ध्यानद्वारे-धर्मध्यानेन प्रवर्धमानेन परिहारविशुद्धिकं कल्पं प्रतिपद्यते, पूर्वप्रतिपन्नः पुनरातरौद्रयोरपि भवति, केवलं प्रायेण निरनुबन्धः, आह च॥१॥ "झाणंमिवि धम्मेणं पडिवज्झइ सो पवढभाणेणं । इयरेसुवि झाणेसुं पुवपवन्नो न पडिसिद्धो ।। ॥२॥ एवं च झाणजोगे उद्दामे तिव्वकम्मपरिणामा। रोहऽद्देसुवि भावो इमरस पावं निरनुबन्धो ।" ११ । गणनाद्वारे-जघन्यतःत्रयोगणाःप्रतिपद्यन्ते, उत्कर्षतस्तुशतसंख्याः, पूर्वप्रतिपत्राजधन्यत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy