________________
पदं-१, उद्देशक:-, द्वारं
एव सामायिकं विनयादेराकृतिगणतया “विनयादिभ्यः" इत्यनेन स्वार्थिक इकणू, तच्च सर्वसावद्यविरतिरूपं, यद्यपि च सर्वमपि चारित्रमविशेषतः सामायिकं तथाऽपि छेदादिविशेषैर्विशेष्यमाणमर्थःतशब्दान्तरतश्च नानात्वं भजते, प्रथमं पुनरविशेषणात् सामान्यशब्दएवावतिष्ठते सामायिकमिति, तच्च द्विधा- इत्वरं यावत्कथिकं च, तत्रेत्वरं भरतैरावतेषु कथमपश्चिमतीर्थकरतीर्थथेष्वनारोपितमहाव्रतस्य शैक्षकस्य विज्ञेयं यावत्कथिकं प्रव्रज्याप्रत्तिपत्तिकालादारभ्याप्राणोपरमात्, तच्च भरतैरावतभाविमध्यद्वाविंशतितीर्थकरतीर्थान्तरगतानां विदेहतीर्थकरतीर्थान्तरगतानां च साधूनवामवसेयं, तेषामुपस्थापनाया अभावात्, उक्तं च“सव्वमिणं सामाइय छेयाइविसेसियं पुन विभिन्नं । अविसेसं सामाइय चियमिह सामन्त्रसन्नाए । “सावज्जजोगविरइत्ति तत्थ सामाइयं दुहा तं च । इत्तरमावकहंति य पढमं पढमंतिमजिणाणं ।। तित्थेसु अणारोवियवयस्स सेहरस धोवकालीयं । सेसाणमावकहियं तित्थेसु विदेहयाणं च ॥”
-
॥१॥
॥३॥
ननु च इत्वरमपि सामायिकं करोमि भदन्त ! सामायिकं यावज्जीवमित्येवं यादवदायुरागृहीतं, तत उपस्थापनाकाले तत्परित्यजतः कथं न प्रतिज्ञाभङ्गः ?, उच्यते, ननुप्रागेवोक्तं सर्वमेवेदं चारित्रमविशेषतः सामायिकं, सर्वत्रापि सावद्ययोगविरतिसद्भावात्, केवलं छेदादिविशुद्धिविशेषैर्विशेष्यमणमर्थतः शब्दान्तरतश्च नानात्वं भजते, ततो यथा यावत्कथिकं सामायिकं. छेदोपस्थापनं च परमविशुद्धिवेशेषरूपसूक्ष्मसंपरायादिचारित्रावाप्तौ न भङ्गमास्कन्दति तथेत्वरमपि सामायिकं विशुद्धिविशेषरूपच्छेदोपस्थापनावाप्तौ, यदि हि प्रव्रज्या परित्यज्यते तर्हि तद् भङ्गमापद्यते, न तस्यैव विशुद्धिविशेषावाप्तौ, उक्तं च
119 11
"उन्निक्खमओ भंगो जो पुन तं चिय करेइ सुद्धयरं ।
॥२॥
७१
सन्नमेत्तविसिट्टं सुहुमंपिव तस्स को भंगो ? ||
तथा छेदः पूर्वपर्यायस्य उपस्थापना च महाव्रतेषु यस्मिन् चारित्रे तच्छेदोपस्थापनं, तच्च द्विधा - सातिचारं निरतिचारं च, तत्र निरतिचारं यदित्वसामायिकतवः शैक्षकस्यारोप्यते तीर्थान्तरसंक्रान्तौ वा, यथा पारअश्वनाथतीर्थाद् वर्द्धमानतीर्थं संक्रामतः पञ्चयामप्रतिपत्तौ, सातिचारं यन्मूलगुणाधातिनः पुनर्व्रतोच्चारणं, उक्तं च
119 11
"सेहस्स निरइयारं तित्थन्तरसंकमे व तं होज्जा । मूलगुणघाइणो साइयारमुभयं च ठियकप्पे ॥”
'उभयं चेति' सातिचारं निरतिचारं च 'स्थितकल्पे' इति प्रथमपश्चिमतीर्थकरतीर्थकाले । तथा परिहरणं परिहारः- तपोविशेषः तेन विशुद्धिर्यस्मिन् चारित्रे तत्परिहारविशुद्धिकं, तच्च द्विधा - निर्विशमानकं निर्विष्टकायिकं च, तत्र निर्विशमानका विवक्षितचारित्रासेवकाः, निर्विष्टकायिका आसेवितविवक्षितचारित्रकायाः, तदव्यतिरेकाच्चारित्रमप्येवमुच्यते । इह नवको गणः- चत्वारो निर्विशमानकाश्चत्वारश्चानुचारिणः एकः कल्पस्थितो वाचनाचार्यः, यद्यपि च सर्वेऽपि श्रुतातिशयं संपन्नाः तथाऽपि कल्पत्वात् तेषामेकः कश्चित् कल्पस्थितोऽवस्थाप्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org