________________
६६
प्रज्ञापनाउपाङ्गसूत्र-१-१/-1-1१८५ द्वन्द्वः तस्मिन् तथा तपसि विनये च तथा सर्वासु समितिषु-ईसिमित्यादिषु सर्वासु च गुप्तिषुमनोगुप्तिप्रभृतिषु यः क्रियाभावः स क्रियारुचिः, किमुक्तं भवति ?-यस्य भावतो दर्शनाद्याचारानुष्ठाने रुचिरस्ति स खलु क्रियारुचिर्नाम । मू. (१८६) अनभिगहियकुदिट्ठी संखेवरुइत्ति होइ नायव्यो।
अविसारओ पवयणे अनभिग्गहिओ य सेसेसु ।। वृ. संक्षेपरुचिमाह- 'अनभिग्गहिय' इत्यादि, नाभिगृहीता कुत्सिता प्टिरप्येनासावनभिगृहीतकुष्टिः, अविशारदः प्रवचने जिनप्रणीतेशेषेषुच कपिलादिप्रणीतेषुप्रवचनेषु अनभिगृहीतो - न विद्यते आभिमुख्येनोपादेयतया गृहीतं-ग्रहणमस्य इत्यनभिगृहीतः, पूर्वमनभिगृहीतकुष्टिरित्यनेनदर्शनान्तरपरिग्रहः प्रतिषिद्धः अनेनपरदर्शनपरिज्ञानमात्रमपि निषिद्धमिति विशेषः, स इत्थंभूतः संक्षेपरुचिरिति ज्ञातव्यः ।। मू. (१८७) जो अस्थिकायधम्म सुयधम्म खलु चरित्तधम्मंच।
सद्दहइ जिनाभिहियं सो धम्मरुइत्ति नायब्बो॥ वृ.धर्मरुचिमाह-'जोअस्थिकाय' इत्यादि, यःखलुजीवोऽस्तिकायानांधर्मास्ति-कायादीनां धर्म-गत्युपष्टम्भकत्वादिरूपं स्वभावंश्रुतधर्मंचारित्रधर्मंच जिनाभिहितं श्रद्दधाति स धर्मरुचिरिति ज्ञातव्यः॥ मू. (१८८) परमत्थसंथवो वा सुदिट्टपरमत्थसेवणा वावि।
वावन्नकुदंसणवजणा य सम्मत्तसद्दहणा॥ वृतदेवं निसर्गाद्युपादिभेदाद् दशधा रुचिरूपं दर्शनमुक्तं, सम्प्रति थैलिङ्गरिदमुत्पन्नमस्ति इति निश्चीयते तानि लिङ्गान्युपदर्शयन्नाह–'परमत्थसंथवो वा' इत्यादि, परमाश्च-तात्त्विकाश्च तेऽर्थाश्च-जीवादयस्ते परमार्थः तेषु संस्तवः-परिचयः, तात्पर्येण बहुमानपुरस्सरं जीवादिपदा-विगमायाभ्यास इतियावत्, वाशब्दः समुच्चये, सुष्टु-सम्यग्रीत्या दृष्टाः परमार्थाः-जीवादयो यैस्ते सुदृटपरमार्थाः तेषां सेवना-पर्युपास्तिः सुदृष्टपरमार्थसेवनं, स्त्रीत्वं प्राकृतत्वात्, वाशब्दोऽ- नुक्तसमुच्चये, यथाशक्ति तद्वैयावृत्यप्रवृत्तिश्च, अपिः समुच्चये, तथा 'वावन्नकुदंसणत्ति' दर्शनशब्दः- प्रत्येकमभिसंबध्यते, व्यापन्न-विनष्टं दर्शनं येषांत व्यापन्नदर्शनाः-निलवादयः तथा कुत्सितं दर्शनं येषां ते कुदर्शनाः-शाक्यादयस्तेषां वर्जनं व्यापनकुदर्शनवर्जनम्, 'सम्मत्त सद्दहणा' इति सम्यकत्वश्रद्धानं, एतैः परमार्थसंस्तवादिभिः सम्यकत्वमस्तीति श्रद्धीयते इत्यर्थः । मू. (१८९) निस्संकिय निरखिय निवितिगिच्छा अमूढदिट्ठी य।
उववूहथिरीकरणे वच्छल्लपभावणे अट्ठ।। __ वृ. अस्य च दर्शनस्याचारा अष्टौ, ते च सम्यक् परिपालनीयाः, तदतिक्रमेण दर्शनस्याप्यतिक्रमभावात्, अतस्तानुपदर्शयितुमाह-निस्संकिय' इत्यादिशङ्कनंशङ्कितं, देशशङ्का सर्वशङ्का चेत्यर्थः, निर्गतंशङ्कितंयस्मादसौ निःशङ्कितः, देशर्वसङ्कारहित इतिभावार्थः, तत्रदेशशङ्का-समाने जीवत्वे कथमेको भव्यः अपरस्त्वभव्य इति?, सर्वशङ्का-प्राकृतनिवन्धत्वात्सकलमेवेदं प्रवचनं परिकल्पितं भविष्यतीति, नचेयं देशशङ्का सर्वशङ्का वा युक्ता, यतइह द्विविधा भावाः, तद्यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org