________________
पदं-१, उद्देशक:-, द्वारं
६७
॥ १ ॥
हेतुग्राह्या अहेतुग्राह्याश्च तत्र हेतुग्राहाय जीवास्तित्वादयः, तत्साधकप्रमाणसद्भावात्, अहेतुग्राह्या अभव्यत्वादयः, अस्मदाद्यपेक्षया तत्साधकहेतूनामसंभवात्, प्रकृष्टज्ञानगोचरत्वात् तद्धेतूनमिति, प्राकृतोऽपि च निबन्धः प्रवचन्सय् बालाद्यनुग्रहार्थः, उक्तं चबालस्त्रीमूढमूर्खाणां नृणां चारित्रकाङ्क्षिणाम्, अनुग्रहार्थं तत्वज्ञैः सिद्धान्तः प्राकृतः स्मृतः ॥ "अपि च- प्राकृतोऽपि निबन्धः प्रवचनस्य दृष्टेष्टशविरोधी अतः कथमवान्तरपरिकल्पनाशङ्का ?, सर्वज्ञमन्तरेणान्यस्य दृष्टेष्टाविरोधिवचनासंभवात्, निःशङ्कित इति जीव एवार्हच्छासनप्रतिपन्नो दर्शनाचरणात् तव्याधान्यविवक्षायां दर्शनाचार उच्यते, एतेन दर्शनदर्शनिनोः कथंचिदभेदमाह, एकान्तभेदे तु अदर्शनिन इव तत्फलायोगतो मोक्षाभावप्रसङ्गः, एवमुत्तरेष्वपि त्रिषु पदेषु भावना कार्या,
तथा 'निष्कामश्रित इति, काङ्क्षणं काङ्क्षितं निर्गतं काङ्क्षितं यस्मादसौ निष्काङ्क्षितः, देशसर्वकाङ्क्षरहित इत्यर्थः, तत्र देशकाङ्क्ष - एकं दिगम्बरादिदर्शनमभिकाङ्क्षते सर्वकाङ्क्ष- सर्वाण्येव दर्शनानि शोभनानीत्येवमनुचिन्तनं, इयं च द्विधाऽप्ययुक्ता, शेषदर्सनेषु षड्जीवनिकायपीडाया असठारूपणायाश्च भावात् ।
तथा विचिकित्सा - पतिविभ्रमः फलं प्रति संशय इतियावत् निर्गता विचिकित्सा यस्मादसौ निर्विचिकित्सः, 'साध्वेवं जिनशासनं, किन्तु प्रवृत्तस्य सतो ममास्मात् फलं भविष्यति न वा ?, क्रियायाः कृषिबलादिषु उभयथाऽप्युपलब्धेः' इतिविकल्परहितः, न ह्यविकल उपाय उपेयवस्तुप्रापको न भवतीति संजातनिश्चयो निर्विचिकित्स इति भावः, एतावताऽशेन निःशङ्किताद् भिन्नः, यद्वा 'निव्विदुछो' इति निर्विद्धज्जुगुप्सः साधुजुग्प्सारहित इत्यर्थः, उदाहरणंच विद्वज्जुगुप्सायां श्रावकदुहिता । तथा 'अमूढदिट्ठी यत्ति' बालतपस्वितपोविद्यातिशयदर्शनैर्न मूढा - स्वभावाच्चलिता ६ष्टि :- सम्यग्दर्शनरूपा यस्यासावमूढद्दष्टिः, अत्रोदाहरणं सुलसाश्राविका, सा ह्यम्बडपरिव्राजकसमृद्धीरुपलभ्यापि न संभोहं गता ।
तदेवं गुणिप्रधान आचार उक्तः, सम्प्रति गुणप्रधानमाह--'उववूह' इत्यादिउपबृंहणं च स्थिरीकरणं च उपबृंहणस्थिरीकरणे, तत्रोपबृंहणं नाम समानधानर्मिकाणां सद्गुणप्रशंसनेन तद्वृद्धिकरणं, स्थिरीकरणं धर्माद् विषीदतां तत्रैव स्थापनं । वात्सल्यं च प्रभावना च वात्सल्यप्रभावने, तत्र वात्सल्यं समानधार्मिकाणां प्रीत्योपकारकरणं, प्रभावना धर्मकथादिभिस्तीर्थप्रख्यापना |
अयं च गुणप्रधाननिर्देशो गुणगुणिनोः कथञ्चिदभेदख्यापनार्थः अन्यथा एकान्ताभेदे गुणनिवृत्तौ गुणिनोऽपि निवृत्तेः शून्यतापत्तिः । एतेऽष्टौ दर्शनाचाराः ॥
मू. (१९०) से तं सरागदंसणाररिया। से किं तं वीयरायदंसणा रिया ?, विहा पं०, तं०-उवसंतकसायवीय- रायदंसणा रिया य खीणकसायवीयरायदंसणा रिया य । से कं तं उवसंतकसायवीयरायदंसणा रिया ?, उवसंत० रिया दुविहा पं० तं० - पढमसमयउवसंतकसायवीरायदंसणा रियाय अपढमसमयउवसंतकसायवीयरायदंसणा रिया य, अहवा चरिमसमयउवसंतकसायवीयरायदंसणा रियाय अचरिमसमयउवसंत कसाय- वीयरादंसणा रिया य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org