SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ पदं - १, उद्देशक:-, द्वारं ६५ वृ. उपदेशरुचिमाह - 'एए चेव' इत्यादि, एतानेव जीवादिभावान् परेण छद्मस्थेन जिनेन वोपदिष्टान् श्रद्दधाति एष उपदेशरुचिरिति ज्ञातव्यः । पू. (१८०) जो उमयाणतो आणाए रोयए पवयणं तु । एमेव नन्नहत्ति य एसो आणारुई नाम ॥ बृ. आज्ञारुचिमाह - 'जो हेउमयानंतो' इत्यादि, यो हेतुं विवक्षितार्थगमकमजानानः प्रवचनमाज्ञयैव तुशब्द एवकारार्थः केवलया रोचते, कथम् ? इत्याह-एवमेतत् प्रवचनोक्तमर्थजातं नान्यथेति एष आज्ञारुचिर्नाम । मू. (१८१) जो सुत्तमहितो सुएण ओगाहई उ सम्मत्तं । अंगेण बाहिरेण व सो सुत्तरुइत्ति नायव्वो । वृ. सूत्ररुचिमाह - 'जो सुत्तं' इत्यादि, यः सूत्रम् - अप्रविष्टमङ्गबाह्यं वा अधीयानस्तेन श्रुतेना- ङ्गप्रविष्टेनाङ्गबाह्येन वा सम्यकत्वमवगाहते स सूत्ररुचिरिति ज्ञातव्यः । एगपएनेगाइं पदाई जो पसरई उ सम्मत्तं । पू. (१८२) उदएव्व तिल्लबिंदू सो बीयरुइत्ति नायव्वो । वृ. बीजरुचिमाह - एगपएनेगाई' इत्यादि, एकेन पदेन प्रक्रमाज्जीवादीनामनेकानि पदानि प्राकृतत्वेन विभक्तिव्यत्ययादनेकेषु जीवादिषु पदेषु यः सम्यकत्वमिति धर्मधर्मिणोरभेदोपचारात् सम्यकत्ववान् आत्मा प्रसरति तुशब्दोऽवधारणारअथः प्रसरत्येव, कथम् ? इत्याह- उदक इव तैलबिन्दुः, किमुक्तं भवति ? - यथा उदकैकदेशगतोऽपि तैलबिन्दुः समस्तमुदकमाक्रमति तथैकदेशोत्पन्नरुचिप्यात्मा तथाविधक्षयोपशमभावादशेषेषु तत्त्वेषु रुचिमान् भवति स एवंविधो बीजरुचिरिति ज्ञातव्यः । मू. (१८३) सो होइ अभिगमरुई सुयनाणं जस्स अत्थओ दिनं । इक्कारस अंगाई पन्नगा दिट्टिवाओ य । वृ. अधिगमरुचिमाह - 'सो होइ' इत्यादि, यस्य श्रुतज्ञानमर्थतो दृष्टमेकादशाङ्गन, प्रकीर्णकमित्यत्र जातावेकवचनं, ततोऽयमर्थः - प्रकीर्णकानि उत्तराध्ययनादीनि दृष्टिवादः चशब्दागुपाङ्गानि च स भवत्यधिगमरुचिः । पू. (१८४) दव्वाण सव्वभावा सव्वपमाणेहिं जस्स उवलद्धा । सव्वाहिं नयविहीहिं वित्थाररुइत्ति नायव्वो । वृ. विस्ताररुचिमाह - 'दव्वाण' इत्यादि, द्रव्याणां - धर्मास्तिकायादीनामशेषाणामपि सर्वे भावाः - पर्याया पथायोगंसर्वप्रमाणैः - प्रत्यक्षादिभिः सर्वैश्च नयनिधिभिः - नैगमादिनयप्रकारैः उपलब्धाः स विस्ताररुचिरिति ज्ञातव्यः, सर्ववस्तुपर्यायप्रपञ्चावगमेन तस्या रुचेरतिनिर्मलरूपतया भावात् । मू. (१८५) दंसणनाणचरिते तवविनए सव्वसमिइगुत्तीसु । जो किरियाभावरुई सो खलु किरियारुई नाम ।। वृ. क्रियारुचिमाह - 'दंसण' इत्यादि, दर्शनंच ज्ञानंच चारित्रं च दर्शनज्ञानचास्त्रिंसमाहारो 10 5 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy