________________
६४
प्रज्ञापनाउपाङ्गसूत्र-१-१/-1-1१७६
वृ. 'निसग्गुवएस' इत्यादि, अत्र रुचिशब्दः प्रत्येकमभिसंबध्यते, ततो निसर्गरुचिरिति द्रष्टव्यं, तत्र निसर्ग:-स्वभावः तेन रुचिः-जिनप्रणीततत्त्वाभिलाषरूपा यस्य स निसर्गरुचिः,
उपदेशो-गुर्वादिना वस्तुतत्त्वकथनं तेन रुचिः-उक्तस्वरूपा यस्य स उपदेशरुचिः,
आज्ञा-सर्वज्ञवचनात्मिका तस्यां रुचिः-अभिलाषो यस्य स आज्ञारुचिः, जिना व मे तत्त्वं न शेषं युक्तिजातमिति योऽभिमन्यते स आज्ञारुचिरिति भावार्थः,
'सुत्तबीयरुइमेवत्ति' अत्रापिरुचिशब्दः प्रत्येकमभिसंबध्यते, सूत्रम् आचारङ्गाद्यङ्गप्रविष्टं अङ्गबाह्यम्-आवश्यकदशवैकालिकादि तेन रुचिर्यस्य स तथा, सूत्रमाचारादिकमङ्गप्रविष्यमङ्गबाह्यावश्यकादिकमधीयानो यः सम्यकत्वमवगाहते प्रसन्नप्रसन्नतराध्यवसायश्च भवति स सूत्ररुचिरिति भावार्थः, बीजमिव बीजं यदेकमप्यनेकार्थप्रबोधोत्पादकं वचः तेन रुचिर्यस्य स बीजरुचिः, अनयोश्च पदयोः समाहारद्वन्द्वः तेन नपुंसकनिर्देशः, एवेति समुच्चये,
___ 'अहिगमवित्थाररुइत्ति' अत्रापिरुचिशब्दस्य प्रत्येकमभिसंबन्धः, अधिगमरुचिर्विस्ताररुचिश्व, तत्राधिगमो- विशिष्टं परिज्ञानं तेन रुचिर्यस्यासावधिगमरुचिः, विस्तारोव्यासः सकलद्वादशाङ्गस्य नयैः पालोचनमिति भावः, तेनोपबृंहिता रुचिर्यस्य स विस्ताररुचिः,
"किरियासंखेव धम्मरुइत्ति' रुचिशब्दस्यात्रापिप्रत्येकं संबन्धात् क्रियारुचिः संक्षेपरुचिर्धभरुचिरिति द्रष्टव्यं, तत्र क्रिया सम्यक्संयमानुष्ठानं तत्र रुचिर्यस्य स क्रियारूचिः,
संक्षेपः-संग्रहः तत्र रुचिर्यस्य विस्तरापरिज्ञानात् स संक्षेपरुचिः
धर्मेअस्तिकायधर्मे श्रुतधर्मादौ वा रुचिर्यस्य स धर्मरुचिरिति गाथासंक्षेपार्थः ।। मू. (१७७) भूयत्थेणाहिगया जीवाजीवे य पुन्नापावं च ।
सहसंमुइया आसवसंवरे य रोएइ उनिसग्गो।। वृ. व्यासार्थं तु सूत्रकृदेव स्वत आह-भूयत्थेण' इत्यादि, 'भूयस्थेण' इति भावप्रधानो निर्देशः, ततोऽयमर्थ:-भूतार्थत्वेन-सद्भूता अमी पदार्था इत्येवंरूपेणयस्याधिगताः-परिज्ञाता जीवाजीवाः पुण्यं पापमाश्रवंसंवरःचशब्दबन्धादयश्च, कथमधिगताः? इत्याह-'सहसम्मुइआ' इति आर्षत्वा विभक्तिलोपाच सहसंमत्या सह-आत्मना या संगता मतिः सा सहसंमतिः तया, किमुक्तं भवति?-परोपदेशनिरपेक्षया जातिस्मरणप्रतिभादिरूपया मत्या, न केवलमधिगताः, किन्तु तान् जीवादीन् पदार्थान् वेदयतेऽनुरोचयति च तत्वरूपतयाऽऽत्मसात्परिणामयति चेति भावः, एष निसर्गरुचिर्विज्ञेय इति शेषः । अमुमेवार्थं स्पष्टतरमभिधत्सुराहमू. (१७८) जो जिनदिढे भावे चउबिहे सद्दहाइ सयमेव ।
एमेव नन्नहत्तिय निसग्गरुइत्ति नायव्यो। वृ. 'जो जिनदिढे भावे' इत्यादि, यो जिनहटान् भावान् द्रव्यक्षेत्रकालभावभेदतो नामादिभेदतो वा चतुर्विधान् स्वयमेव-उपदेशनिरपेक्षथः श्रद्दधाति, केनोल्लेखेन श्रद्दधाति?, तत आह-“एवमेव एतत्-जीवादि यथा जिनैर्दष्टं नान्यथा इति, चः समुच्चये, एषा निषर्गरुचिरिति ज्ञातव्यः॥ मू. (१७९) एए चेव उ भावे उवदिढे जो परेण सद्दहइ ।
छउमत्थेण जिनेन व उवएसरुइत्ति नायव्वो॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org