SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ २९८ प्रज्ञापनाउपागसूत्रम्-२-३६/-/-/६१० मानसमुद्घाते वर्तमानानां प्राप्यमाणत्वात्, तेभ्यः क्रोधसमुद्घातेन समवहता विशेषाधिकाः, मानापेक्षयाक्रोधिनांप्रचुरत्वात्, तेभ्यो मायासमुद्घातेन समवहता विशेषाधिकाः, क्रोध्यपेक्षया मायाविनांप्रचुरत्वात्, तेभ्योऽपि लोभसमुद्घातेनसमवहताविशेषाधिकाः, मायाविभ्यो लोभवतामतिप्रभूतत्वात्, तेभ्योऽपि केनाप्यसमवहता सङ्ग्येयगुणाः, चतसृष्वपि गतिषु प्रत्येक समवहतेभ्योऽसमवहतानां सदा सङ्खयेयगुणतया प्राप्यमाणत्वात्, सिद्धास्त्वेकेन्द्रिययापेक्षयानन्तभागवर्त्तिन इति ते सन्तोऽपि न विवश्रिताः, एतदेवाल्पबहुत्वं चतुर्विंशतिदण्डकक्रमेण चिन्तयत्राह 'एएसिण'मित्यादि सुगम, नवरं सर्वस्तोका नैरयिका लोभसमुद्घातेन समवहता इति, नैरयिकाणामिष्टद्रव्यसंयोगाभावात्प्रायोलोभसमुद्गातस्तावनोपपद्यते,येषामपिचकेषाञ्चिद्भवति तेकतिपया इति शेषसमुद्घातसमवहतापेक्षया सर्वस्तोकाः, असुरकुमारविषयाल्पबहुत्वचिन्तायां सर्वस्तोकाः क्रोधसमुद्घातसमुद्धता इति, देवा हि स्वभावतो लोभबहुलास्ततोऽल्पतरा मानादिमन्तःततोऽपि सकदाचित्कतिपये क्रोधवन्त इति शेषसमुद्घातसमवहतापेक्षया सर्वस्तोकाः, ‘एवं सव्वदेवा जाव वेमाणिया' इति एवं-असुरकुमारगतेनाल्पबहुत्वप्रकारेण सर्वे देवा नागकुमारादयस्तावद्वक्तव्याःयावद्वैमानिकाः, पृथिवीकायिकचिन्तायां सामान्यतो जीवपदे इव भावना भावनीया, समानत्वात्, ‘एवंजावे'त्यादि, एवं-पृथिवीकायिकक्तेन प्रकारेण तावद्वक्तव्यं यावत् तिर्यक्पश्चेन्द्रियाः, मनुष्या यथाजीवाः नमवरमकषायसमुद्घातसमवहतापेक्षया मानसमुद्घातेन समवहता असङ्ख्येयगुणा वक्तव्याः ।सम्प्रति कति छानस्थिकाः समुद्घाता इति निरूपणार्थमाह मू. (६११) कइ गंभंते ! छाउमत्थिया समुग्धाया पं०?, गो० ! छछाउमस्थिया स० पं०, तं०-वेदनास० कसायस० मारणंतियस० वेउब्बियस० तेयास० आहारगसमुद्ग्धाते, नेरइयाणंभंते! कतिछाउमत्थिया स०पं०?, गो० चत्तारिछाउमत्थियास०पं०, तं०-वेदनास० कसायस० मारणंतियस० वउव्वियस०, असुरकुमाराणं पुच्छा, गो० ! पंच छाउ० समु० पं०, तं०-वेदनासमु० कसायसमु० मारणंतियस० वेउब्वियस० तेयगसमु०, एगिदियविगलिंदियाणं पुच्छा, गो० ! तिन्नि छाउ० समु० पं०, तं०-वेदनासमु० कसायस० मारणंतियस०, नवरं वाउकाइयाणं चत्तारि स० पं०, तं०-वेदनास कसायस० मारणंतियस० वेउब्बियस०, पंचिंदियतिरिक्खजोणियाणं पुच्छा, गो०! पंच० स० पं०, तं०-वेदनास० कसायस० मारणंतियस० वेउब्वियस० तेयगस०, मणूसाणं कति छाउमत्थिया समु० पं०?, गो०! छाउमत्थिया सं० पं०, तं०-वेदनास० कसायस० मारणतियस० वेउब्वियस० तेयगस० आहारगस० दृ. 'कइणंभंते!' इत्यादि सुगमं, अथ कति केषांछाद्मस्थिकाः समुद्धाता इति चतुर्विंशतिदण्डकक्रमेण निरूपयति–'नेरइयाण'मित्यादि, नैरयिकाणामाद्याश्चत्वारो वेदनादिसमुद्घाताः, तेषां तेजोलब्थ्याहारकलब्ध्यभावतस्तैजसमुद्घाताहारकसमुद्घातासम्भवात्, असुरकुमारादीनां सर्वेषामपि देवानामाहारकसमुद्घातवर्जाः शेषाः पञ्च समुद्घाताः, तेषां तेजोलब्धिसम्भवात् तैजससमुद्घातस्यापि सम्भवात्, यस्त्वाहारकसमुद्घातः स तेषां न Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy