SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ पदं-३६, उद्देशकः, द्वार - नैरयिकादिषु चतुर्विंशतिस्थानेषु चिन्ता कृता तथाऽसुरकुमारादीनां वैमानिकपर्यवसानानां चतुर्विंशतिदण्डकक्रमेणकर्तव्या, तदेवमन्यान्यपिचतुर्विंशतिर्दण्डकसूत्राणि भवन्ति, तथा चाह ‘एवं एए चउवीसं चउवीसा दंडगा भाणियब्वा' इति, उक्तो मारणान्तिकसमुद्घातश्चतुर्विंशत्या चतुर्विंशतिदण्डकसूत्रैः, साम्प्रतमेतावत्सङ्ख्यायकैरेव सूत्रैक्रियसमुद्घातं विवक्षुराह 'वेउविए'इत्यादि, वैक्रियसमुद्घातो यथा कषायसमुद्घातः प्राक् प्रतिपादित; तथा निरवशेषोभणितव्यः, केवलंयस्य वैक्रियसमुद्घातो नास्ति वैक्रियलब्धेरैवासम्भवात्तस्य नोच्यते, शेषस्य उच्यते, स चैवं ___ “एगमेगस्सणंभंते ! नेरइयस्स नेरइयत्ते केवइया वेउब्वियसमुग्घाया अतीता?, गो० ! अनंता, केवइया पुरेक्खडा?, गो० ! कस्सइ अस्थि कस्सइनस्थि, जस्स अस्थि जहन्नेणं एक्कोवा दो वा तिन्नि वा उक्कोसेणं सिय संखेजा वासिय असंखेज्जा वासिय अनंता वा । एगमेगस्सणं भंते नेरइयस्स असुरकुमारत्ते केवइया उब्वियसमुग्घायाअतीता?,गो०!अनंता, केवइयापुरेक्खडा?, गो० ! कस्सइअस्थि कस्सइ नत्थि, जस्सस्थिसिय संखिजा सिय असंखिजा सिय अनंता वा, एवं नेरइयस्स जाव थणियकुमारत्ते। एगमेगस्स णं भंते ! नेरइयस्स पुढविकाइयत्ते केवइया वेउब्वियसमुग्घाया अतीता?, गो० ! नत्थि, केवइया पुरेक्खडा?, गो०! नत्यि, एवं जाव तेउक्काइयत्ते, एगमेगस्स णं भंते ! नेरइयस्सवाउकाइयपत्ते केवइयावेउब्वियसमुग्धायाअतीता?,गो०!,अनंता, केवइयापुरेक्खडा गो० ! कस्सइअस्थि कस्सइनस्थि, जस्सस्थि जहन्नेणंएको वा दो वा तिन्निवा उक्को० संखेज्जा वा असं० अनंता वा, वणस्सइकाइयत्ते जाव चउरिदियत्ते जहा पुढविकाइत्ते, तिरिक्खपंचिंदियत्ते मणुसत्ते जहा वाउकाइयत्ते, वाणमंतरजोइसियवेमाणियत्तेसु जहा असुरकुमारते' इह यत्र वैक्रियमसमुद्घातसम्भवस्तत्र भावनाकषायसमुद्घातवद्भावनीया, अन्यत्र तुप्रतिषेधः सुप्रतीतो, वैक्रियलब्धिरेवासम्भवात्, ___ यथा च नैरयिकस्य चतुर्विंशदण्डकक्रमेण सूत्रमुपदर्शितमेवमसुरकुमारादीनामपि चतुर्विंशतिदण्डकक्रमेण प्रत्येकं सूत्रमवगन्तव्यं, नवरमसुरकुमारादिषुस्तनितकुमारपर्यवसानेषु व्यन्तरादिषु च परस्परं स्वस्थाने एकोत्तरिका परस्थाने सङ्खयेयादयो वक्तव्याः, वायुकायिकतिर्यक्पञ्चेन्द्रियमनुष्येषु तुपरस्परं स्वस्थाने परस्थानवा एकोत्तरिकाः, शेषं तथैव, एवमेतान्यपि चतुर्विंशतिश्चतुर्विशतिदण्डकसूत्राणि भवन्ति, तथा चाह-'एवमेते चउवीसं चउवीसगा दंडगा माणितव्वा' एवं-उपदर्शितेन प्रकारेण अत्रापि वैक्रियसमुद्घातविषयेऽपि चतुर्विंशतिःचतुर्विंशतिसङ्ख्ययाः 'चउवीसा' इति चतुर्विंशतिः-चतुर्विंशतिस्थानपरिमाणा दंडका--दण्डकसूत्राणि भणितव्यः । सम्प्रति तैजसमुद्घातमतिदेशत आह-'तेयगे'त्यादि, तैजसमुद्घातो यथा मारणान्तिकसमुद्घातस्तथा वक्तव्यः, किमुक्तं भवति?-स्वस्थाने परस्थानेच एकोत्तरिकया सवक्तव्या इति, नवरंयस्य नास्ति-नसम्भवति तैजसमुद्घातस्तस्य न वक्तव्यः, तत्र नैरयिकपृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुरिन्द्रिययेषु न सम्भवतीति न वक्तव्यः, शेषेषु तु वक्तव्यः, स चैवम् “एगमेगस्स णं भंते ! नेरइयस्स नेरइयत्ते केवइया तेउसमुग्धाया अतीता ?, गो० ! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy