________________
पदं- ३६, उद्देशक:-, द्वारं
२७५
स्यात् ततस्तदपनोदार्थमाह- 'जस्स अत्थि' एको यस्यास्ति पुरस्कृतः केवलिसमुद्घातस्तस्य एको, भूयः संसाराभावात्,
'एवं जाव वेमाणियस्स'त्ति एवं नैरयिकगताभिलापप्रकारेण चतुर्विंशतिदण्डकक्रममनुसृत्य तावद् वक्तव्यं यावद्वैमानिकस्य सूत्रं तच्चैदम्- 'एगमेगस्स णं भंते! वेमाणियस्स केवइया केवलिसमुग्धाया अतीता ?, गोयमा ! नत्थि, केवइया पुरेक्खडा ?, गोयमा ! कस्सइ अत्थि कस्सइ नत्थि, जस्सत्थि एक्को' इति, तत्रैव विशेषमाह - 'नवर 'मित्यादि, नवरमयं विशेषः - मनुष्यस्य केवलिसमुद्घातस्य चिन्तायामतीताः कस्याप्यस्ति कस्यापि नास्तीति वक्तव्यः, तत्र यः केवलिसमुद अघातात् प्रतिनिवृत्तो वर्त्तते न चाद्यापि मुक्तिपदमवाप्नोति तस्यास्त्यतीतः केवलिसमुद्घातः, ते च सर्वसङ्ख्यया उत्कर्षपदे शतपृथकत्वप्रमाणा वेदितव्याः, कस्यापि नास्ति अतीतः केवलसमुद्घातो, यो न समुद्घातं गतवान्, ते च सर्वसङ्ख्यया असङ्घयेया द्रष्टव्याः शतपृथकत्वव्यतिरेकेणान्येषां सर्वेषामप्यसम्प्राप्तके वलिसमुद्घातत्वात्, अत्राप्यस्तीति निपातस्य सर्वलिङ्गवचनत्वात्,
'कस्सइ अत्थि कस्सइ नत्थि' इत्युक्तौ बहुत्वाशङ्का स्यात् ततस्तद्वयवच्छेदार्थमाह-यस्य मनुष्यस्यातीतः केवलिसमुद्घातस्तस्य नियमादेको न द्वित्राः, एकेनैव समुद्घातेन प्रायः समस्तघातिकर्मणां निर्मूलकाषंकषितत्वात्, 'एवं पुरेक्खडावि' त्ति एवं अतीतगतेन प्रकारेण पुरस्कृता अपि केवलिसमुद्घाता वाच्याः, ते चैवम्- 'कस्सइ अत्थि कस्सइ नत्थि, जस्सत्थि एक्को' इति, अत्र भावना पूर्वोक्तानुसारण स्वयं भावनीया ॥ तदेवमीततमनागतं च कालमधिकृत्य एकैकस्य नैरयिकादेर्वेदनादिसमुद्घातचिन्ता कृता, सम्प्रपति नैरयिकादेः प्रत्येकं समुदायरूपस्य तच्चिन्तां
चिकीर्षुराह
मू. (६०२) नेरइयाणं भंते! केवइया वेदणासमुग्धाया अतीता ? गो० ! केवइया पुरेक्खडा गो० ! अनंता, एवं जाव वेमाणियाणं, एवं जाव तेयगसमुद्घायए, एवं एतेवि पंच चउवीसदंडगा, नेरइयाणं ! भंते! केवइया आहारगसमुग्धाया अतीता ?, गो० ! असंखेज्जा, केवइया पु० ?, गो० ! असंखेज्जा, एवं जाव वेमाणियाणं, नवरं वणस्सइकाइयाण मणूसाण य इमं नाणतंवणस्सइकाइयाणं भंते ! केवइया आहारसमुग्धाया अईया ?, गो० ! अनंता, मणूसाणं भंते ! केवइया आहारसमुग्धाया अईया ?, गो० ! सिय संखेज्जा सिय असं०, एवं पुरेकखडावि ।
नेरइयाणं भंते! केवइया केवलिसमुग्धाया अतीता ? गो०! नत्थि, केवइया पुरेक्खडा ?, गो० ! असंखेज्जा, एवं जाव वेमाणियाणं, नवरं वणस्सइमणूसेसु इमं नाणत्तं - वणस्सइकाइयाणं भंते! केवइया केवलिसमुग्धाया अतीता ?, गो० ! नत्थि, केवइया पुरे० ?, गो० ! अनंता, मसणं भंते! केवइया केवलिस० अतीता ?, गो० ! सिय अत्थि सिय नत्थि, जइ अत्थि जहन्नेणं एक्को वा दो वा तिन्निवा, उक्कोसेणं सतपुहुत्तं, केवति० पुरेक्खडा ?, सिय संखेज्जा सिय असं०
बृ. 'नेरइयाण' मित्यादि, नैरयिकाणां विवक्षितप्रश्नसमयभाविनां सर्वेषासमुदायेन भदन्त कियन्तो वेदनासमुद्घाता अतीताः ?, भगवानाह - गौतम ! अनन्ताः, बहूनामन्तकालसंच्यवहारराशेरुद्ध त्तत्वात्, कियन्तः पुरस्कृताः ?, अत्रापि प्रश्नसूत्रपाठः परिपूर्ण एवं द्रष्टव्यः - 'नेरइयाणं भंते! केवइया वेयणासमुग्धाया पुरेक्खडा' इति, भगवानाह - गौतम ! अनन्ताः, बहूनामनन्तकाल
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International