SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ २७४ प्रज्ञापनाउपासूत्रम्-२-३६/-1-1६०१ वाच्याः, अतीता अपि चत्वारः पुरस्कृताअपि चत्वार उत्कर्षतो वाच्या इत्यर्थः, सूत्रपाठश्चैवम्“एगमेगस्स णं मणूसस्स भंते ! केवइया आहारसमुग्धाया अतीता?, गोयमा ! कस्सइ अस्थि कस्सइ नत्थि, जस्सअस्थिजहन्नेणंएको वा दो वा तिनि वा उक्कोसेणं चत्तारि, केवइया पुरेक्खडा गोयमा! कस्सइ अस्थि कस्सइनस्थि, जस्स अत्थिजहन्नेणंएको दोवातिनिवाउकोसेणं चत्तारि' अत्र भावना-इह यश्चतुर्थवेलमाहारकशरीरंकरोतिस नियमात्ततद्भवएवमुक्तिमासा-दयति, न गत्यन्तरं, कथमैतदवसीयते इति चेत् ?, उच्यते, सूत्रपौर्वापर्यपर्या लोचनात्, तथाहि-यदि चतुर्थवेलमप्याहारकशरीरं कृत्वा गत्यन्तरं संक्रामेत ततो नैरयिकादावन्यतरस्यां गतौ उत्कर्षतश्चत्वारोऽप्याहारकस्य समुद्घाताउच्यरेन, नचोच्यन्ते, ततोऽवसीयते-चतुर्थवेलमाहारकशरीरं कृत्वा नियमात् ताव एव मुक्तो भवति न गत्यन्तरगामी, तत्र यः प्रागाहारकशरीरं कदाचनापिन कृतवान्तस्यातीत आहारकसमुद्घातो नास्ति, ततस्तदपेक्षयोक्तं कस्सइनस्थिति, यस्यापि सन्तिसोऽपियदिपूर्वमेकवारमाहारकशरीरंकृतवान् तस्यैकोऽतीत आहारकस्य समुद्घातः द्वौवारी कृतवतो द्वौत्रीन्वारान् कृतवस्त्रयो यश्चतुर्थवेलमाहारकशरीरंकृत्वा आहारकसमुद्घाताच्चतुर्थात्प्रतिनिवृत्तोवर्ततेनचाद्यापि मनुजभवं विजहाति तस्य चत्वारः, पुरस्कृता अपि समुद्घाताः कस्यापि सन्ति कस्यापिनसन्ति, तत्र यश्चतुर्थवेलमाहारकशरीरं कृत्वा आहारकसमुद्घातात् प्रतिनिवृत्तो यदिवा पूर्वमकृताहारकशरीरोऽप्यथवा एकावरकृताहारकशरीरोऽपि यदिवा द्विकृत्वः कृताहारकशरीरोऽपि यदिवा त्रिकृत्वः कृताहारकशरीरोऽपि तथाविधसामण्यभावात् उत्तरकालमाहारकशरीरमकृत्वैव मुक्तिमवाप्स्यति तस्य पुरस्कृता आहारकसमुद्घातान सन्ति, यस्यापि सन्ति तस्यापिजघन्यत एको वा द्वौ वा त्रयो वा उत्कर्षतश्चत्वारः, तत्र एकादिसम्भवः पूर्वोक्तभावनानुसारेण स्वयंभावनीयः यस्तुपूर्वकालमेकवारमपिआहारकशरीरंनकृतवान् अथ चोत्तरकालं तथाविधसामग्रीभावतोयावत्सम्भवमाहारकशरीरकर्ता तस्य चत्वारो न शेषस्य । सम्प्रति केवलिसमुद्धातविषयंदण्डकसूत्रमाह-“एगमेगस्सण मित्यादि, एकैकस्य भदन्त नैरयिकस्य निरवधिकमतीतं कालधिकृत्य कियन्तः केवलिसमुद्घाता अतीताः ?, भगवानाह–'नस्थित्तिनास्त्यतीतएकोऽपिकेवलिसमुद्घातः, केवलिसमुद्घातानन्तरंह्यन्तर्मुहूर्तेन नियमतोजीवाः परमपदमश्नुवते, ततो यद्यभविष्यत्वेवलिंसमुद्घातस्तर्हि नरकमेव नागमिष्यद्, अथ च सम्प्रति नरकगामिनो वर्तन्ते तस्मानास्त्येकस्याप्यतीतः केवलिसमुद्घातः 'केवइया पुरेक्खड'त्ति कियन्तः पुरस्कृताः केवलिसमुद्घाता इति प्रश्नः, भगवानाह-'गोतम ! कस्सइ अत्यिकस्सइनस्थिति, इह केवलिसमुद्घात एकस्य प्राणिनआकालम कएव भवति, न द्वित्राः, ततोऽस्तीति निपातोऽत्र एकवचनान्तो वेदितव्यः, ततश्चायमर्थः-कस्यापि केवलिस-मुद्घातः पुरस्कृतोऽस्ति, यो दीर्घतरेणापि कालेन मुक्तिपदप्राप्तयवसरे विषमस्थितिकर्मा इति, कस्यापि नास्ति, यो मुक्तिपदमवाप्युमयोग्यो योग्यो वा केवलिसमुद्धागतमन्तरेणैव मुक्तिपदंगन्ता, तथा च वक्ष्यति _ "अगंतूण समुग्घायमनंता केवलीजिना। __जरमरणविष्पमुक्का, सिद्धिं वरगइंगया।" इति, इह अस्तीति निपातः सर्वलिङ्गवचन इत्यविदितसिद्धान्तस्य बहुत्वाशङ्कापि कस्यचित् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy